07.002
Pancharatra and Core: Karṇa, with a banner adorned with gold, pearls, gems, and diamonds, rode in a chariot yoked with fine horses, and shone like the sun with immeasurable energy.
सञ्जय उवाच॥
हतं भीष्ममाधिरथिर्विदित्वा; भिन्नां नावमिवात्यगाधे कुरूणाम्। सोदर्यवद्व्यसनात्सूतपुत्रः; सन्तारयिष्यंस्तव पुत्रस्य सेनाम् ॥७-२-१॥
श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं; निपातितं शान्तनवं महारथम्। अथोपायात्तूर्णममित्रकर्शनो; धनुर्धराणां प्रवरस्तदा वृषः ॥७-२-२॥
हते तु भीष्मे रथसत्तमे परै; र्निमज्जतीं नावमिवार्णवे कुरून्। पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः; सन्तारयिष्यंस्तव पुत्रस्य सेनाम् ॥७-२-३॥
कर्ण उवाच॥
यस्मिन्धृतिर्बुद्धिपराक्रमौजो; दमः सत्यं वीरगुणाश्च सर्वे। अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः; प्रिया च वागनपायीनि भीष्मे ॥७-२-४॥
ब्रह्मद्विषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म। स चेत्प्रशान्तः परवीरहन्ता; मन्ये हतानेव हि सर्वयोधान् ॥७-२-५॥
नेह ध्रुवं किञ्चन जातु विद्यते; अस्मिँल्लोके कर्मणोऽनित्ययोगात्। सूर्योदये को हि विमुक्तसंशयो; भावं कुर्वीताद्य महाव्रते हते ॥७-२-६॥
वसुप्रभावे वसुवीर्यसम्भवे; गते वसूनेव वसुन्धराधिपे। वसूनि पुत्रांश्च वसुन्धरां तथा; कुरूंश्च शोचध्वमिमां च वाहिनीम् ॥७-२-७॥
सञ्जय उवाच॥
महाप्रभावे वरदे निपातिते; लोकश्रेष्ठे शान्तनवे महौजसि। पराजितेषु भरतेषु दुर्मनाः; कर्णो भृशं न्यश्वसदश्रु वर्तयन् ॥७-२-८॥
इदं तु राधेयवचो निशम्य ते; सुताश्च राजंस्तव सैनिकाश्च ह। परस्परं चुक्रुशुरार्तिजं भृशं; तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत् ॥७-२-९॥
प्रवर्तमाने तु पुनर्महाहवे; विगाह्यमानासु चमूषु पार्थिवैः। अथाब्रवीद्धर्षकरं वचस्तदा; रथर्षभान्सर्वमहारथर्षभः ॥७-२-१०॥
कर्ण उवाच॥
जगत्यनित्ये सततं प्रधावति; प्रचिन्तयन्नस्थिरमद्य लक्षये। भवत्सु तिष्ठत्स्विह पातितो रणे; गिरिप्रकाशः कुरुपुङ्गवः कथम् ॥७-२-११॥
निपातिते शान्तनवे महारथे; दिवाकरे भूतलमास्थिते यथा। न पार्थिवाः सोढुमलं धनञ्जयं; गिरिप्रवोढारमिवानिलं द्रुमाः ॥७-२-१२॥
हतप्रधानं त्विदमार्तरूपं; परैर्हतोत्साहमनाथमद्य वै। मया कुरूणां परिपाल्यमाहवे; बलं यथा तेन महात्मना तथा ॥७-२-१३॥
समाहितं चात्मनि भारमीदृशं; जगत्तथानित्यमिदं च लक्षये। निपातितं चाहवशौण्डमाहवे; कथं नु कुर्यामहमाहवे भयम् ॥७-२-१४॥
अहं तु तान्कुरुवृषभानजिह्मगैः; प्रवेरयन्यमसदनं रणे चरन्। यशः परं जगति विभाव्य वर्तिता; परैर्हतो युधि शयिताथ वा पुनः ॥७-२-१५॥
युधिष्ठिरो धृतिमतिधर्मतत्त्ववा; न्वृकोदरो गजशततुल्यविक्रमः। तथार्जुनस्त्रिदशवरात्मजो यतो; न तद्बलं सुजयमथामरैरपि ॥७-२-१६॥
यमौ रणे यत्र यमोपमौ बले; ससात्यकिर्यत्र च देवकीसुतः। न तद्बलं कापुरुषोऽभ्युपेयिवा; न्निवर्तते मृत्युमुखादिवासकृत् ॥७-२-१७॥
तपोऽभ्युदीर्णं तपसैव गम्यते; बलं बलेनापि तथा मनस्विभिः। मनश्च मे शत्रुनिवारणे ध्रुवं; स्वरक्षणे चाचलवद्व्यवस्थितम् ॥७-२-१८॥
एवं चैषां बुध्यमानः प्रभावं; गत्वैवाहं ताञ्जयाम्यद्य सूत। मित्रद्रोहो मर्षणीयो न मेऽयं; भग्ने सैन्ये यः सहायः स मित्रम् ॥७-२-१९॥
कर्तास्म्येतत्सत्पुरुषार्यकर्म; त्यक्त्वा प्राणाननुयास्यामि भीष्मम्। सर्वान्सङ्ख्ये शत्रुसङ्घान्हनिष्ये; हतस्तैर्वा वीरलोकं गमिष्ये ॥७-२-२०॥
सम्प्राक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे। मया कृत्यमिति जानामि सूत; तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये ॥७-२-२१॥
कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसं; स्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन्। सर्वान्सङ्ख्ये शत्रुसङ्घान्निहत्य; दास्याम्यहं धार्तराष्ट्राय राज्यम् ॥७-२-२२॥
निबध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि। शिरस्त्राणं चार्कसमानभासं; धनुः शरांश्चापि विषाहिकल्पान् ॥७-२-२३॥
उपासङ्गान्षोडश योजयन्तु; धनूंषि दिव्यानि तथाहरन्तु। असींश्च शक्तीश्च गदाश्च गुर्वीः; शङ्खं च जाम्बूनदचित्रभासम् ॥७-२-२४॥
एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे ध्वजमिन्दीवराभम्। श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व; चित्रां मालां चात्र बद्ध्वा सजालाम् ॥७-२-२५॥
अश्वानग्र्यान्पाण्डुराभ्रप्रकाशा; न्पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः। तप्तैर्भाण्डैः काञ्चनैरभ्युपेता; ञ्शीघ्राञ्शीघ्रं सूतपुत्रानयस्व ॥७-२-२६॥
रथं चाग्र्यं हेमजालावनद्धं; रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः। द्रव्यैर्युक्तं सम्प्रहारोपपन्नै; र्वाहैर्युक्तं तूर्णमावर्तयस्व ॥७-२-२७॥
चित्राणि चापानि च वेगवन्ति; ज्याश्चोत्तमाः संहननोपपन्नाः। तूणांश्च पूर्णान्महतः शराणा; मासज्य गात्रावरणानि चैव ॥७-२-२८॥
प्रायात्रिकं चानयताशु सर्वं; कन्याः पूर्णं वीरकांस्यं च हैमम्। आनीय मालामवबध्य चाङ्गे; प्रवादयन्त्वाशु जयाय भेरीः ॥७-२-२९॥
प्रयाहि सूताशु यतः किरीटी; वृकोदरो धर्मसुतो यमौ च। तान्वा हनिष्यामि समेत्य सङ्ख्ये; भीष्माय वैष्यामि हतो द्विषद्भिः ॥७-२-३०॥
यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः; समास्थितो भीमसेनार्जुनौ च। वासुदेवः सात्यकिः सृञ्जयाश्च; मन्ये बलं तदजय्यं महीपैः ॥७-२-३१॥
तं चेन्मृत्युः सर्वहरोऽभिरक्षे; त्सदाप्रमत्तः समरे किरीटिनम्। तथापि हन्तास्मि समेत्य सङ्ख्ये; यास्यामि वा भीष्मपथा यमाय ॥७-२-३२॥
न त्वेवाहं न गमिष्यामि तेषां; मध्ये शूराणां तत्तथाहं ब्रवीमि। मित्रद्रुहो दुर्बलभक्तयो ये; पापात्मानो न ममैते सहायाः ॥७-२-३३॥
सञ्जय उवाच॥
स सिद्धिमन्तं रथमुत्तमं दृढं; सकूबरं हेमपरिष्कृतं शुभम्। पताकिनं वातजवैर्हयोत्तमै; र्युक्तं समास्थाय ययौ जयाय ॥७-२-३४॥
सम्पूज्यमानः कुरुभिर्महात्मा; रथर्षभः पाण्डुरवाजियाता। ययौ तदायोधनमुग्रधन्वा; यत्रावसानं भरतर्षभस्य ॥७-२-३५॥
वरूथिना महता सध्वजेन; सुवर्णमुक्तामणिवज्रशालिना। सदश्वयुक्तेन रथेन कर्णो; मेघस्वनेनार्क इवामितौजाः ॥७-२-३६॥
हुताशनाभः स हुताशनप्रभे; शुभः शुभे वै स्वरथे धनुर्धरः। स्थितो रराजाधिरथिर्महारथः; स्वयं विमाने सुरराडिव स्थितः ॥७-२-३७॥