Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.026
Pancharatra and Core: Arjuna is confused about whether to pursue the Samsaptakas or Bhagadatta and chooses to battle the Samsaptakas.
सञ्जय उवाच॥
यन्मां पार्थस्य सङ्ग्रामे कर्माणि परिपृच्छसि। तच्छृणुष्व महाराज पार्थो यदकरोन्मृधे ॥७-२६-१॥
रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम्। भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत् ॥७-२६-२॥
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन। त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः ॥७-२६-३॥
इन्द्रादनवरः सङ्ख्ये गजयानविशारदः। प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः ॥७-२६-४॥
स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि। सर्वशब्दातिगः सङ्ख्ये कृतकर्मा जितक्लमः ॥७-२६-५॥
सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ। स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति ॥७-२६-६॥
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम्। त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ॥७-२६-७॥
शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम्। अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् ॥७-२६-८॥
वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः। दार्यते भगदत्तेन यत्र पाण्डववाहिनी ॥७-२६-९॥
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः। संशप्तकाः समारोहन्सहस्राणि चतुर्दश ॥७-२६-१०॥
दशैव तु सहस्राणि त्रिगर्तानां नराधिप। चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः ॥७-२६-११॥
दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष। आहूयमानस्य च तैरभवद्धृदयं द्विधा ॥७-२६-१२॥
किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन्। इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् ॥७-२६-१३॥
तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह। अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा ॥७-२६-१४॥
स संनिवृत्तः सहसा कपिप्रवरकेतनः। एको रथसहस्राणि निहन्तुं वासवी रणे ॥७-२६-१५॥
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः। अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् ॥७-२६-१६॥
स तु संवर्तयामास द्वैधीभावेन पाण्डवः। रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा ॥७-२६-१७॥
ततः शतसहस्राणि शराणां नतपर्वणाम्। व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः ॥७-२६-१८॥
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः। न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः ॥७-२६-१९॥
यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः। ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान् ॥७-२६-२०॥
शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः। केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ ॥७-२६-२१॥
द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः। हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ॥७-२६-२२॥
विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः। सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः ॥७-२६-२३॥
सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः। सञ्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना ॥७-२६-२४॥
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष। सञ्छिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे ॥७-२६-२५॥
जज्वालालङ्कृतैः सेना पत्रिभिः प्राणभोजनैः। नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने ॥७-२६-२६॥
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव। धनञ्जयं भूतगणाः साधु साध्वित्यपूजयन् ॥७-२६-२७॥
दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः। विस्मयं परमं गत्वा तलमाहत्य पूजयत् ॥७-२६-२८॥
ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः। भगदत्ताय याहीति पार्थः कृष्णमचोदयत् ॥७-२६-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.