Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.025
Core and Pancharatra: Battle between Bhima and Duryodhana; Bhima and Pragjyotisha; Yudhishthira and Bhagadatta. Bhagadatta along with his elephant gains the upper hand on the Pandava army.
धृतराष्ट्र उवाच॥
तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः। कथं युयुधिरे पार्था मामकाश्च तरस्विनः ॥७-२५-१॥
किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति। संशप्तका वा पार्थस्य किमकुर्वत सञ्जय ॥७-२५-२॥
सञ्जय उवाच॥
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः। स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः ॥७-२५-३॥
स नाग इव नागेन गोवृषेणेव गोवृषः। समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् ॥७-२५-४॥
स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः। अभिनत्कुञ्जरानीकमचिरेणैव मारिष ॥७-२५-५॥
ते गजा गिरिसङ्काशाः क्षरन्तः सर्वतो मदम्। भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ॥७-२५-६॥
विधमेदभ्रजालानि यथा वायुः समन्ततः। व्यधमत्तान्यनीकानि तथैव पवनात्मजः ॥७-२५-७॥
स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत। भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः ॥७-२५-८॥
ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः। गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः ॥७-२५-९॥
तथा गजानां कदनं कुर्वाणमनिलात्मजम्। क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ॥७-२५-१०॥
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः। क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः ॥७-२५-११॥
स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम्। नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव ॥७-२५-१२॥
तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम्। भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ॥७-२५-१३॥
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष। चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः ॥७-२५-१४॥
तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम्। कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम् ॥७-२५-१५॥
तस्य कायं विनिर्भिद्य ममज्ज धरणीतले। ततः पपात द्विरदो वज्राहत इवाचलः ॥७-२५-१६॥
तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः। शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः ॥७-२५-१७॥
तस्मिन्निपतिते वीरे सम्प्राद्रवत सा चमूः। सम्भ्रान्ताश्वद्विपरथा पदातीनवमृद्नती ॥७-२५-१८॥
तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः। प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ॥७-२५-१९॥
येन नागेन मघवानजयद्दैत्यदानवान्। स नागप्रवरो भीमं सहसा समुपाद्रवत् ॥७-२५-२०॥
श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च। व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् ॥७-२५-२१॥
ततः सर्वस्य सैन्यस्य नादः समभवन्महान्। हा हा विनिहतो भीमः कुञ्जरेणेति मारिष ॥७-२५-२२॥
तेन नादेन वित्रस्ता पाण्डवानामनीकिनी। सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः ॥७-२५-२३॥
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम्। भगदत्तं सपाञ्चालः सर्वतः समवारयत् ॥७-२५-२४॥
तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः। अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ॥७-२५-२५॥
स विघातं पृषत्कानामङ्कुशेन समाचरन्। गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः ॥७-२५-२६॥
तदद्भुतमपश्याम भगदत्तस्य संयुगे। तथा वृद्धस्य चरितं कुञ्जरेण विशां पते ॥७-२५-२७॥
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत्। तिर्यग्यातेन नागेन समदेनाशुगामिना ॥७-२५-२८॥
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः। सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ॥७-२५-२९॥
प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च। पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ॥७-२५-३०॥
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः। जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ॥७-२५-३१॥
उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः। रथानीकेन महता सर्वतः पर्यवारयत् ॥७-२५-३२॥
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः। पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ॥७-२५-३३॥
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम्। किरतां शरवर्षाणि स नागः पर्यवर्तत ॥७-२५-३४॥
ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम्। प्रेषयामास सहसा युयुधानरथं प्रति ॥७-२५-३५॥
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः। अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ॥७-२५-३६॥
बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः। तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं पुनः ॥७-२५-३७॥
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात्। निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् ॥७-२५-३८॥
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः। तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो नृपाः ॥७-२५-३९॥
ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः। ऐरावतस्थेन यथा देवराजेन दानवाः ॥७-२५-४०॥
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः। गजवाजिकृतः शब्दः सुमहान्समजायत ॥७-२५-४१॥
भगदत्तेन समरे काल्यमानेषु पाण्डुषु। प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ॥७-२५-४२॥
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा। सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः ॥७-२५-४३॥
ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः। समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः ॥७-२५-४४॥
ततो रुचिरपर्वाणं शरेण नतपर्वणा। सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ॥७-२५-४५॥
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः। चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् ॥७-२५-४६॥
त एनं शरधाराभिर्धाराभिरिव तोयदाः। सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ॥७-२५-४७॥
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः। प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् ॥७-२५-४८॥
सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत्। पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम् ॥७-२५-४९॥
स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः। बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ॥७-२५-५०॥
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः। त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः ॥७-२५-५१॥
सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ। संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ॥७-२५-५२॥
नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः। परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ॥७-२५-५३॥
गोपाल इव दण्डेन यथा पशुगणान्वने। आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः ॥७-२५-५४॥
क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः। बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः ॥७-२५-५५॥
स नागराजः प्रवराङ्कुशाहतः; पुरा सपक्षोऽद्रिवरो यथा नृप। भयं तथा रिपुषु समादधद्भृशं; वणिग्गणानां क्षुभितो यथार्णवः ॥७-२५-५६॥
ततो ध्वनिर्द्विरदरथाश्वपार्थिवै; र्भयाद्द्रवद्भिर्जनितोऽतिभैरवः। क्षितिं वियद्द्यां विदिशो दिशस्तथा; समावृणोत्पार्थिव संयुगे तदा ॥७-२५-५७॥
स तेन नागप्रवरेण पार्थिवो; भृशं जगाहे द्विषतामनीकिनीम्। पुरा सुगुप्तां विबुधैरिवाहवे; विरोचनो देववरूथिनीमिव ॥७-२५-५८॥
भृशं ववौ ज्वलनसखो वियद्रजः; समावृणोन्मुहुरपि चैव सैनिकान्। तमेकनागं गणशो यथा गजाः; समन्ततो द्रुतमिव मेनिरे जनाः ॥७-२५-५९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.