07.027 
 Pancharatra and Core: Arjuna returns to fight Shusharman of Trigarts; then he deals with Bhagadatta.
सञ्जय उवाच॥
यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान्। अप्रैषीद्धेमसञ्छन्नान्द्रोणानीकाय पाण्डुरान् ॥७-२७-१॥
तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान्। सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् ॥७-२७-२॥
ततः श्वेतहयः कृष्णमब्रवीदजितं जयः। एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत ॥७-२७-३॥
दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन। द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् ॥७-२७-४॥
किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान्। इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् ॥७-२७-५॥
एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत्। येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् ॥७-२७-६॥
ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः। ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ॥७-२७-७॥
त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः। साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् ॥७-२७-८॥
ततो भुजगसङ्काशां सुशर्मा शक्तिमायसीम्। चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् ॥७-२७-९॥
शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः। सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत ॥७-२७-१०॥
तं वासवमिवायान्तं भूरिवर्षशरौघिणम्। राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् ॥७-२७-११॥
ततो धनञ्जयो बाणैस्तत एव महारथान्। आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः ॥७-२७-१२॥
तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः। नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः ॥७-२७-१३॥
संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः। सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति ॥७-२७-१४॥
यत्तदानामयज्जिष्णुर्भरतानामपायिनाम्। धनुः क्षेमकरं सङ्ख्ये द्विषतामश्रुवर्धनम् ॥७-२७-१५॥
तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः। कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः ॥७-२७-१६॥
तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी। व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् ॥७-२७-१७॥
ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम्। मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये ॥७-२७-१८॥
व्यपेतहृदयत्रास आपद्धर्मातिगो रथः। आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि ॥७-२७-१९॥
यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः। मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव ॥७-२७-२०॥
तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः। तेन नागेन सहसा धनञ्जयमुपाद्रवत् ॥७-२७-२१॥
तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत्। स संनिपातस्तुमुलो बभूव रथनागयोः ॥७-२७-२२॥
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च। सङ्ग्रामे चेरतुर्वीरौ भगदत्तधनञ्जयौ ॥७-२७-२३॥
ततो जीमूतसङ्काशान्नागादिन्द्र इवाभिभूः। अभ्यवर्षच्छरौघेण भगदत्तो धनञ्जयम् ॥७-२७-२४॥
स चापि शरवर्षं तच्छरवर्षेण वासविः। अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् ॥७-२७-२५॥
ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत्। शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत ॥७-२७-२६॥
ततः स शरजालेन महताभ्यवकीर्य तौ। चोदयामास तं नागं वधायाच्युतपार्थयोः ॥७-२७-२७॥
तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम्। चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः ॥७-२७-२८॥
सम्प्राप्तमपि नेयेष परावृत्तं महाद्विपम्। सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनञ्जयः ॥७-२७-२९॥
स तु नागो द्विपरथान्हयांश्चारुज्य मारिष। प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनञ्जयः ॥७-२७-३०॥