07.028 
 Pancharatra and Core: Instructed and protected by Krishna, Arjuna kills Bhagadatta.
धृतराष्ट्र उवाच॥
तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः। प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् ॥७-२८-१॥
सञ्जय उवाच॥
प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ। मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे ॥७-२८-२॥
तथा हि शरवर्षाणि पातयत्यनिशं प्रभो। भगदत्तो गजस्कन्धात्कृष्णयोः स्यन्दनस्थयोः ॥७-२८-३॥
अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः। अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः ॥७-२८-४॥
अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः। निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः ॥७-२८-५॥
तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च। लाडयन्निव राजानं भगदत्तमयोधयत् ॥७-२८-६॥
सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश। प्रेरयत्सव्यसाची तांस्त्रिधैकैकमथाच्छिनत् ॥७-२८-७॥
ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः। शरजालेन स बभौ व्यभ्रः पर्वतराडिव ॥७-२८-८॥
ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम्। व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत् ॥७-२८-९॥
ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः। विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम् ॥७-२८-१०॥
सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः। भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः ॥७-२८-११॥
व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च। तैरर्जुनस्य समरे किरीटं परिवर्तितम् ॥७-२८-१२॥
परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः। सुदृष्टः क्रियतां लोक इति राजानमब्रवीत् ॥७-२८-१३॥
एवमुक्तस्तु सङ्क्रुद्धः शरवर्षेण पाण्डवम्। अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम् ॥७-२८-१४॥
तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च। त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत् ॥७-२८-१५॥
विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन्। अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि ॥७-२८-१६॥
विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम्। उरसा प्रतिजग्राह पार्थं सञ्छाद्य केशवः ॥७-२८-१७॥
वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि। ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत ॥७-२८-१८॥
अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन। इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि ॥७-२८-१९॥
यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे। ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते ॥७-२८-२०॥
सबाणः सधनुश्चाहं ससुरासुरमानवान्। शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव ॥७-२८-२१॥
ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः। शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ ॥७-२८-२२॥
चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः। आत्मानं प्रविभज्येह लोकानां हितमादधे ॥७-२८-२३॥
एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता। अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी ॥७-२८-२४॥
अपरा कुरुते कर्म मानुषं लोकमाश्रिता। शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम् ॥७-२८-२५॥
यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम। वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा ॥७-२८-२६॥
तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा। प्रायाचत वरं यं मां नरकार्थाय तं शृणु ॥७-२८-२७॥
देवानामसुराणां च अवध्यस्तनयोऽस्तु मे। उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि ॥७-२८-२८॥
एवं वरमहं श्रुत्वा जगत्यास्तनये तदा। अमोघमस्त्रमददं वैष्णवं तदहं पुरा ॥७-२८-२९॥
अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे। नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति ॥७-२८-३०॥
अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः। भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा ॥७-२८-३१॥
तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी। स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः ॥७-२८-३२॥
तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम्। नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष ॥७-२८-३३॥
तन्मया त्वत्कृतेनैतदन्यथा व्यपनाशितम्। वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् ॥७-२८-३४॥
वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम्। यथाहं जघ्निवान्पूर्वं हितार्थं नरकं तथा ॥७-२८-३५॥
एवमुक्तस्ततः पार्थः केशवेन महात्मना। भगदत्तं शितैर्बाणैः सहसा समवाकिरत् ॥७-२८-३६॥
ततः पार्थो महाबाहुरसम्भ्रान्तो महामनाः। कुम्भयोरन्तरे नागं नाराचेन समार्पयत् ॥७-२८-३७॥
समासाद्य तु तं नागं बाणो वज्र इवाचलम्। अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः ॥७-२८-३८॥
स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ। नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः ॥७-२८-३९॥
ततश्चन्द्रार्धबिम्बेन शरेण नतपर्वणा। बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः ॥७-२८-४०॥
स भिन्नहृदयो राजा भगदत्तः किरीटिना। शरासनं शरांश्चैव गतासुः प्रमुमोच ह ॥७-२८-४१॥
शिरसस्तस्य विभ्रष्टः पपात च वराङ्कुशः। नालताडनविभ्रष्टं पलाशं नलिनादिव ॥७-२८-४२॥
स हेममाली तपनीयभाण्डा; त्पपात नागाद्गिरिसंनिकाशात्। सुपुष्पितो मारुतवेगरुग्णो; महीधराग्रादिव कर्णिकारः ॥७-२८-४३॥
निहत्य तं नरपतिमिन्द्रविक्रमं; सखायमिन्द्रस्य तथैन्द्रिराहवे। ततोऽपरांस्तव जयकाङ्क्षिणो नरा; न्बभञ्ज वायुर्बलवान्द्रुमानिव ॥७-२८-४४॥