07.030 
 Core and Pancharatra: Ashwatthama kills Nila, a prominent Panchala warrior. 
धृतराष्ट्र उवाच॥
तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय। चलितानां द्रुतानां च कथमासीन्मनो हि वः ॥७-३०-१॥
अनीकानां प्रभग्नानां व्यवस्थानमपश्यताम्। दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय ॥७-३०-२॥
सञ्जय उवाच॥
तथापि तव पुत्रस्य प्रियकामा विशां पते। यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः ॥७-३०-३॥
समुद्यतेषु शस्त्रेषु सम्प्राप्ते च युधिष्ठिरे। अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् ॥७-३०-४॥
अन्तरं भीमसेनस्य प्रापतन्नमितौजसः। सात्यकेश्चैव शूरस्य धृष्टद्युम्नस्य चाभिभो ॥७-३०-५॥
द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन्। मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् ॥७-३०-६॥
द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे। कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत ॥७-३०-७॥
यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम्। तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नोऽथ धीयते ॥७-३०-८॥
यथाभागविपर्यासे सङ्ग्रामे भैरवे सति। वीराः समासदन्वीरानगच्छन्भीरवः परान् ॥७-३०-९॥
अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः। अकम्पयंस्त्वनीकानि स्मरन्तः क्लेशमात्मनः ॥७-३०-१०॥
ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः। त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे ॥७-३०-११॥
अयसामिव सम्पातः शिलानामिव चाभवत्। दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् ॥७-३०-१२॥
न तु स्मरन्ति सङ्ग्राममपि वृद्धास्तथाविधम्। दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा ॥७-३०-१३॥
प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने। प्रवर्तता बलौघेन महता भारपीडिता ॥७-३०-१४॥
घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः। अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् ॥७-३०-१५॥
समासाद्य तु पाण्डूनामनीकानि सहस्रशः। द्रोणेन चरता सङ्ख्ये प्रभग्नानि शितैः शरैः ॥७-३०-१६॥
तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा। पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम् ॥७-३०-१७॥
तदद्भुतमभूद्युद्धं द्रोणपाञ्चाल्ययोस्तदा। नैव तस्योपमा काचित्सम्भवेदिति मे मतिः ॥७-३०-१८॥
ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम्। शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः ॥७-३०-१९॥
तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान्। पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत ॥७-३०-२०॥
नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा। मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः ॥७-३०-२१॥
तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम्। व्याकोशपद्माभमुखं नीलो विव्याध सायकैः ॥७-३०-२२॥
तेनातिविद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः। धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत ॥७-३०-२३॥
सोत्प्लुत्य स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक्। द्रोणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्रिवत् ॥७-३०-२४॥
तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम्। भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ ॥७-३०-२५॥
सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः। प्रांशुरुत्पलगर्भाभो निहतो न्यपतत्क्षितौ ॥७-३०-२६॥
ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला। आचार्यपुत्रेण हते नीले ज्वलिततेजसि ॥७-३०-२७॥
अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः। कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष ॥७-३०-२८॥
दक्षिणेन तु सेनायाः कुरुते कदनं बली। संशप्तकावशेषस्य नारायणबलस्य च ॥७-३०-२९॥