07.044 
 Pancharatra and Core: Abhimanyu kills Rukmaratha, son of Shalya; then takes on Duryodhana and his sons.
सञ्जय उवाच॥
आददानस्तु शूराणामायूंष्यभवदार्जुनिः। अन्तकः सर्वभूतानां प्राणान्काल इवागते ॥७-४४-१॥
स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली। अभिमन्युस्तदानीकं लोडयन्बह्वशोभत ॥७-४४-२॥
प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः। सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् ॥७-४४-३॥
सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः। प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् ॥७-४४-४॥
अहं पूर्वमहं पूर्वमिति क्षत्रियपुङ्गवाः। स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् ॥७-४४-५॥
क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम्। जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे ॥७-४४-६॥
ये केचन गतास्तस्य समीपमपलायिनः। न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः ॥७-४४-७॥
महाग्राहगृहीतेव वातवेगभयार्दिता। समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे ॥७-४४-८॥
अथ रुक्मरथो नाम मद्रेश्वरसुतो बली। त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् ॥७-४४-९॥
अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते। अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः ॥७-४४-१०॥
एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान्। सुकल्पितेनोह्यमानः स्यन्दनेन विराजता ॥७-४४-११॥
सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत्। त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः ॥७-४४-१२॥
स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ। भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् ॥७-४४-१३॥
दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम्। जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ॥७-४४-१४॥
सङ्ग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः। वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः ॥७-४४-१५॥
तालमात्राणि चापानि विकर्षन्तो महारथाः। आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् ॥७-४४-१६॥
शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः। दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् ॥७-४४-१७॥
छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत्। वैवस्वतस्य भवनं गतमेनममन्यत ॥७-४४-१८॥
सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः। अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः ॥७-४४-१९॥
ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष। आचितं समपश्याम श्वाविधं शललैरिव ॥७-४४-२०॥
स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः। गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् ॥७-४४-२१॥
अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम्। तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् ॥७-४४-२२॥
एकः स शतधा राजन्दृश्यते स्म सहस्रधा। अलातचक्रवत्सङ्ख्ये क्षिप्रमस्त्राणि दर्शयन् ॥७-४४-२३॥
रथचर्यास्त्रमायाभिर्मोहयित्वा परन्तपः। बिभेद शतधा राजञ्शरीराणि महीक्षिताम् ॥७-४४-२४॥
प्राणाः प्राणभृतां सङ्ख्ये प्रेषिता निशितैः शरैः। राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः ॥७-४४-२५॥
धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान्। शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः ॥७-४४-२६॥
चूतारामो यथा भग्नः पञ्चवर्षफलोपगः। राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् ॥७-४४-२७॥
क्रुद्धाशीविषसङ्काशान्सुकुमारान्सुखोचितान्। एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् ॥७-४४-२८॥
रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान्। दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः ॥७-४४-२९॥
तयोः क्षणमिवापूर्णः सङ्ग्रामः समपद्यत। अथाभवत्ते विमुखः पुत्रः शरशतार्दितः ॥७-४४-३०॥