07.043 
 Pancharatra and Core: An intense battle rages on between Abhimanyu and the Kaurava forces. 
सञ्जय उवाच॥
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु। सुघोरमभवद्युद्धं त्वदीयानां परैः सह ॥७-४३-१॥
प्रविश्य त्वार्जुनिः सेनां सत्यसन्धो दुरासदाम्। व्यक्षोभयत तेजस्वी मकरः सागरं यथा ॥७-४३-२॥
तं तथा शरवर्षेण क्षोभयन्तमरिंदमम्। यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः ॥७-४३-३॥
तेषां तस्य च संमर्दो दारुणः समपद्यत। सृजतां शरवर्षाणि प्रसक्तममितौजसाम् ॥७-४३-४॥
रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः। वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् ॥७-४३-५॥
तस्य विव्याध बलवाञ्शरैरश्वानजिह्मगैः। वातायमानैरथ तैरश्वैरपहृतो रणात् ॥७-४३-६॥
तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम्। रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः ॥७-४३-७॥
तं सिंहमिव सङ्क्रुद्धं प्रमथ्नन्तं शरैररीन्। आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् ॥७-४३-८॥
सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत्। अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे ॥७-४३-९॥
तमयस्मयवर्माणमिषुणा आशुपातिना। विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ ॥७-४३-१०॥
वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः। परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः ॥७-४३-११॥
विस्फारयन्तश्चापानि नानारूपाण्यनेकशः। तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह ॥७-४३-१२॥
तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च। सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः ॥७-४३-१३॥
सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः। अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥७-४३-१४॥
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः। वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः ॥७-४३-१५॥
अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः। अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः ॥७-४३-१६॥
अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः। रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही ॥७-४३-१७॥
निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः। जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत ॥७-४३-१८॥
दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा। रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत ॥७-४३-१९॥
काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च। धनुषश्च शराणां च तदपश्याम केवलम् ॥७-४३-२०॥
तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम्। आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम् ॥७-४३-२१॥