Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.045
Pancharatra and Core: Abhimanyu kills Duryodhana's son Lakshmana; Angered Duryodhana orders his warriors to surround Abhimanyu.
धृतराष्ट्र उवाच॥
यथा वदसि मे सूत एकस्य बहुभिः सह। सङ्ग्रामं तुमुलं घोरं जयं चैव महात्मनः ॥७-४५-१॥
अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम्। किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः ॥७-४५-२॥
दुर्योधनेऽथ विमुखे राजपुत्रशते हते। सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ॥७-४५-३॥
सञ्जय उवाच॥
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः। पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ॥७-४५-४॥
हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्सम्बन्धिबान्धवान्। उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान् ॥७-४५-५॥
तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः। कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः ॥७-४५-६॥
अभिद्रुताः सुसङ्क्रुद्धाः सौभद्रमपराजितम्। तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः ॥७-४५-७॥
एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः। इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् ॥७-४५-८॥
तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत। अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः ॥७-४५-९॥
तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः। स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् ॥७-४५-१०॥
पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम्। पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ॥७-४५-११॥
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम्। आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् ॥७-४५-१२॥
लक्ष्मणेन तु सङ्गम्य सौभद्रः परवीरहा। शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः ॥७-४५-१३॥
सङ्क्रुद्धो वै महाबाहुर्दण्डाहत इवोरगः। पौत्रस्तव महाराज तव पौत्रमभाषत ॥७-४५-१४॥
सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि। पश्यतां बान्धवानां त्वां नयामि यमसादनम् ॥७-४५-१५॥
एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा। उद्बबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् ॥७-४५-१६॥
स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम्। सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् ॥ लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः ॥७-४५-१७॥
ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते। हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः ॥७-४५-१८॥
ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः। कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥७-४५-१९॥
स तान्विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः। वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् ॥७-४५-२०॥
आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः। कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् ॥ तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते ॥७-४५-२१॥
ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः। यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्बरे ॥७-४५-२२॥
ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत्। अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः ॥ परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ॥७-४५-२३॥
तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत्। शरौघेणाप्रमेयेण त्वरमाणो जिघांसया ॥७-४५-२४॥
सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः। छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् ॥७-४५-२५॥
कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च। युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन् ॥७-४५-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.