07.046 
 Pancharatra and Core: Abhimanyu kills Brihadbala, the prince of Kosala, and ten thousand great soldiers. 
धृतराष्ट्र उवाच॥
तथा प्रविष्टं तरुणं सौभद्रमपराजितम्। कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपलायिनम् ॥७-४६-१॥
आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः। प्लवमानमिवाकाशे के शूराः समवारयन् ॥७-४६-२॥
सञ्जय उवाच॥
अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः। अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः ॥७-४६-३॥
तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः। कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥७-४६-४॥
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्। सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् ॥७-४६-५॥
सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः। तालमात्राणि चापानि विकर्षन्तो महारथाः ॥७-४६-६॥
तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान्। व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा ॥७-४६-७॥
द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम्। अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ॥७-४६-८॥
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः। अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः ॥७-४६-९॥
स कर्णं कर्णिना कर्णे पीतेन निशितेन च। फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा ॥७-४६-१०॥
पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी। अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥७-४६-११॥
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्। पुत्राणां तव वीराणां पश्यतामवधीद्बली ॥७-४६-१२॥
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत्। वरं वरममित्राणामारुजन्तमभीतवत् ॥७-४६-१३॥
स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष। पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः ॥७-४६-१४॥
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः। उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम् ॥७-४६-१५॥
स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः। प्रत्यविध्यन्महातेजा बलवानपकारिणम् ॥७-४६-१६॥
तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्। अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे ॥७-४६-१७॥
कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश। बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश ॥७-४६-१८॥
तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः। तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः ॥७-४६-१९॥
तं कोसलानामधिपः कर्णिनाताडयद्धृदि। स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ ॥७-४६-२०॥
अथ कोसलराजस्तु विरथः खड्गचर्मधृत्। इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् ॥७-४६-२१॥
स कोसलानां भर्तारं राजपुत्रं बृहद्बलम्। हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् ॥७-४६-२२॥
बभञ्ज च सहस्राणि दश राजन्महात्मनाम्। सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् ॥७-४६-२३॥
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे। विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः ॥७-४६-२४॥