Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.071
सञ्जय उवाच॥
राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम। कुरूणां पाण्डवानां च यथा युद्धमवर्तत ॥७-७१-१॥
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम्। अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ॥७-७१-२॥
रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः। अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः ॥७-७१-३॥
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः। आजघ्नतुः सुसङ्क्रुद्धौ तव पुत्रहितैषिणौ ॥७-७१-४॥
विराटश्च महाराज तावुभौ समरे स्थितौ। पराक्रान्तौ पराक्रम्य योधयामास सानुगौ ॥७-७१-५॥
तेषां युद्धं समभवद्दारुणं शोणितोदकम्। सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥७-७१-६॥
बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः। आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ॥७-७१-७॥
बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः। आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ॥७-७१-८॥
तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम्। भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥७-७१-९॥
ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा। अभवत्संवृतं सर्वं न प्राज्ञायत किञ्चन ॥७-७१-१०॥
शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम्। ससैन्यो योधयामास गजः प्रतिगजं यथा ॥७-७१-११॥
बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान्। मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे ॥७-७१-१२॥
अयोधयंस्ते च भृशं तं शरौघैः समन्ततः। इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर ॥७-७१-१३॥
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव। आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥७-७१-१४॥
सोऽतिविद्धो बलवता महेष्वासेन धन्विना। ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः ॥७-७१-१५॥
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम्। विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः ॥७-७१-१६॥
तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ। रेजतुः समरे राजन्पुष्पिताविव किंशुकौ ॥७-७१-१७॥
अलम्बुसस्तु सङ्क्रुद्धः कुन्तिभोजशरार्दितः। अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः ॥७-७१-१८॥
कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः। अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ॥७-७१-१९॥
ततस्तौ समरे शूरौ योधयन्तौ परस्परम्। ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा ॥७-७१-२०॥
शकुनिं रभसं युद्धे कृतवैरं च भारत। माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे ॥७-७१-२१॥
तन्मूलः स महाराज प्रावर्तत जनक्षयः। त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः ॥७-७१-२२॥
उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः। य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः ॥७-७१-२३॥
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः। नाभ्यजानत कर्तव्यं युधि किञ्चित्पराक्रमम् ॥७-७१-२४॥
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ। ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ॥७-७१-२५॥
स वध्यमानो बहुभिः शरैः संनतपर्वभिः। सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ॥७-७१-२६॥
घटोत्कचस्तथा शूरं राक्षसं तमलायुधम्। अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ॥७-७१-२७॥
तयोर्युद्धं महाराज चित्ररूपमिवाभवत्। यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे ॥७-७१-२८॥
ततो युधिष्ठिरो राजा मद्रराजानमाहवे। विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ॥७-७१-२९॥
ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप। यथा पूर्वं महद्युद्धं शम्बरामरराजयोः ॥७-७१-३०॥
विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः। अयोधयन्भीमसेनं महत्या सेनया वृताः ॥७-७१-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.