07.070
Core and Pancharatra: The sons of Pṛthā, led by Dhṛṣṭadyumna and arranged in a strategic formation, launched a fierce attack, showering Droṇa's army with a barrage of arrows.
सञ्जय उवाच॥
प्रविष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा। दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे ॥७-७०-१॥
जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च। पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ॥७-७०-२॥
तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम्। पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम् ॥७-७०-३॥
राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम्। यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते ॥७-७०-४॥
धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः। द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ॥७-७०-५॥
वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम्। पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः ॥७-७०-६॥
महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये। सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते ॥७-७०-७॥
समेत्य तु महासेने चक्रतुर्वेगमुत्तमम्। जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके ॥७-७०-८॥
नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः। गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान् ॥७-७०-९॥
भारद्वाजानिलोद्धूतः शरधारासहस्रवान्। अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम् ॥७-७०-१०॥
समुद्रमिव घर्मान्ते विवान्घोरो महानिलः। व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः ॥७-७०-११॥
तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन्। बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव ॥७-७०-१२॥
वारयामास तान्द्रोणो जलौघानचलो यथा। पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् ॥७-७०-१३॥
अथापरेऽपि राजानः परावृत्य समन्ततः। महाबला रणे शूराः पाञ्चालानन्ववारयन् ॥७-७०-१४॥
ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह। सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् ॥७-७०-१५॥
यथैव शरवर्षाणि द्रोणो वर्षति पार्षते। तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत ॥७-७०-१६॥
सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः। ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः ॥७-७०-१७॥
शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम्। निघ्नन्रथवराश्वौघांश्छादयामास वाहिनीम् ॥७-७०-१८॥
यं यमार्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम्। ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ॥७-७०-१९॥
तथा तु यतमानस्य द्रोणस्य युधि भारत। धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ॥७-७०-२०॥
भोजमेके न्यवर्तन्त जलसन्धमथापरे। पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन् ॥७-७०-२१॥
सैन्यान्यघटयद्यानि द्रोणस्तु रथिनां वरः। व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ॥७-७०-२२॥
धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः। अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव ॥७-७०-२३॥
कालः सङ्ग्रसते योधान्धृष्टद्युम्नेन मोहितान्। सङ्ग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः ॥७-७०-२४॥
कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः। द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ॥७-७०-२५॥
अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च। चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा ॥७-७०-२६॥
त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः। अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः ॥७-७०-२७॥
मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः। बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ॥७-७०-२८॥
रथं नागं हयं चापि पत्तिनश्च विशां पते। एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः ॥७-७०-२९॥
पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत। दधार यो रणे बाणान्द्रोणचापच्युताञ्शितान् ॥७-७०-३०॥
तत्पच्यमानमर्केण द्रोणसायकतापितम्। बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत ॥७-७०-३१॥
तथैव पार्षतेनापि काल्यमानं बलं तव। अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना ॥७-७०-३२॥
वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः। त्यक्त्वा प्राणान्परं शक्त्या प्रायुध्यन्त स्म सैनिकाः ॥७-७०-३३॥
तावकानां परेषां च युध्यतां भरतर्षभ। नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् ॥७-७०-३४॥
भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन्। विविंशतिश्चित्रसेनो विकर्णश्च महारथः ॥७-७०-३५॥
विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान्। त्रयाणां तव पुत्राणां त्रय एवानुयायिनः ॥७-७०-३६॥
बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः। सहसेनः सहामात्यो द्रौपदेयानवारयत् ॥७-७०-३७॥
शैब्यो गोवासनो राजा योधैर्दशशतावरैः। काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् ॥७-७०-३८॥
अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम्। मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् ॥७-७०-३९॥
दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः। सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि ॥७-७०-४०॥
स्वकेनाहमनीकेन संनद्धकवचावृतः। चतुःशतैर्महेष्वासैश्चेकितानमवारयम् ॥७-७०-४१॥
शकुनिस्तु सहानीको माद्रीपुत्रमवारयत्। गान्धारकैः सप्तशतैश्चापशक्तिशरासिभिः ॥७-७०-४२॥
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम्। प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि ॥७-७०-४३॥
शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम्। बाह्लिकः प्रतिसंयत्तः पराक्रान्तमवारयत् ॥७-७०-४४॥
धृष्टद्युम्नं च पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः। आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत् ॥७-७०-४५॥
घटोत्कचं तथा शूरं राक्षसं क्रूरयोधिनम्। अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे ॥७-७०-४६॥
अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः। सैन्येन महता युक्तः क्रुद्धरूपमवारयत् ॥७-७०-४७॥
सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत। रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ॥७-७०-४८॥
तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ। द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः ॥७-७०-४९॥
पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः। कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः ॥७-७०-५०॥
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः। सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा ॥७-७०-५१॥