Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.074
सञ्जय उवाच॥
परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः। रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः ॥७-७४-१॥
तिष्ठतां युध्यमानानां पुनरावर्ततामपि। भज्यतां जयतां चैव जगाम तदहः शनैः ॥७-७४-२॥
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु। अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः ॥७-७४-३॥
रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः। चकार तत्र पन्थानं ययौ येन जनार्दनः ॥७-७४-४॥
यत्र यत्र रथो याति पाण्डवस्य महात्मनः। तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते ॥७-७४-५॥
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान्। उत्तमाधममध्यानि मण्डलानि विदर्शयन् ॥७-७४-६॥
ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः। स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः ॥७-७४-७॥
वैणवायस्मयशराः स्वायता विविधाननाः। रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ॥७-७४-८॥
रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान्। रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् ॥७-७४-९॥
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः। तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् ॥७-७४-१०॥
न तथा गच्छति रथस्तपनस्य विशां पते। नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च ॥७-७४-११॥
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः। यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः ॥७-७४-१२॥
प्रविश्य तु रणे राजन्केशवः परवीरहा। सेनामध्ये हयांस्तूर्णं चोदयामास भारत ॥७-७४-१३॥
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः। कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः ॥७-७४-१४॥
क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः। मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ॥७-७४-१५॥
हतानां वाजिनागानां रथानां च नरैः सह। उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ॥७-७४-१६॥
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप। सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम् ॥७-७४-१७॥
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम्। शराणां च शतेनाश्वानविध्येतां मुदान्वितौ ॥७-७४-१८॥
तावर्जुनो महाराज नवभिर्नतपर्वभिः। आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः ॥७-७४-१९॥
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम्। आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः ॥७-७४-२०॥
तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः। चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ ॥७-७४-२१॥
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा। पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः ॥७-७४-२२॥
तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः। चिच्छेद धनुषी तूर्णं भूय एव धनञ्जयः ॥७-७४-२३॥
तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः। जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी ॥७-७४-२४॥
ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत। स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ॥७-७४-२५॥
विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान्। हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः ॥७-७४-२६॥
अभ्यद्रवत सङ्ग्रामे भ्रातुर्वधमनुस्मरन्। गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः ॥७-७४-२७॥
अनुविन्दस्तु गदया ललाटे मधुसूदनम्। स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् ॥७-७४-२८॥
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः। निचकर्त स सञ्छिन्नः पपाताद्रिचयो यथा ॥७-७४-२९॥
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः। अभ्यद्रवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान् ॥७-७४-३०॥
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ। व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ॥७-७४-३१॥
तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनञ्जयः। विबभौ जलदान्भित्त्वा दिवाकर इवोदितः ॥७-७४-३२॥
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः। अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ ॥७-७४-३३॥
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम्। सिंहनादेन महता सर्वतः पर्यवारयन् ॥७-७४-३४॥
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः। शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् ॥७-७४-३५॥
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः। किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते ॥७-७४-३६॥
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा। भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः ॥७-७४-३७॥
मम त्वनन्तरं कृत्यं यद्वै तत्संनिबोध मे। हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव ॥७-७४-३८॥
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम्। ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् ॥७-७४-३९॥
अर्जुन उवाच॥
अहमावारयिष्यामि सर्वसैन्यानि केशव। त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् ॥७-७४-४०॥
सञ्जय उवाच॥
सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः। गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः ॥७-७४-४१॥
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः। इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम् ॥७-७४-४२॥
तमेकं रथवंशेन महता पर्यवारयन्। विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् ॥७-७४-४३॥
अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन्। छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् ॥७-७४-४४॥
अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम्। रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ॥७-७४-४५॥
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत। यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् ॥७-७४-४६॥
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः। इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् ॥७-७४-४७॥
तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते। सङ्घर्षेण महार्चिष्मान्पावकः समजायत ॥७-७४-४८॥
तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः। हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शनैः ॥७-७४-४९॥
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे। एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत ॥७-७४-५०॥
शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम्। पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् ॥७-७४-५१॥
असङ्ख्येयमपारं च रजोऽऽभीलमतीव च। उष्णीषकमठच्छन्नं पताकाफेनमालिनम् ॥७-७४-५२॥
रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम्। वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् ॥७-७४-५३॥
ततो जनार्दनः सङ्ख्ये प्रियं पुरुषसत्तमम्। असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् ॥७-७४-५४॥
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन। परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् ॥७-७४-५५॥
इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम्। अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् ॥७-७४-५६॥
शरवंशं शरस्थूणं शराच्छादनमद्भुतम्। शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् ॥७-७४-५७॥
ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत्। शरवेश्मनि पार्थेन कृते तस्मिन्महारणे ॥७-७४-५८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.