07.075 
 
सञ्जय उवाच॥
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना। निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥७-७५-१॥
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः। मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः ॥७-७५-२॥
अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत्। सिद्धचारणसङ्घानां सैनिकानां च सर्वशः ॥७-७५-३॥
पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः। नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ॥७-७५-४॥
आपतत्सु रथौघेषु प्रभूतगजवाजिषु। नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥७-७५-५॥
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः। न चाव्यथत धर्मात्मा वासविः परवीरहा ॥७-७५-६॥
स तानि शरजालानि गदाः प्रासांश्च वीर्यवान्। आगतानग्रसत्पार्थः सरितः सागरो यथा ॥७-७५-७॥
अस्त्रवेगेन महता पार्थो बाहुबलेन च। सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ॥७-७५-८॥
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः। अपूजयन्महाराज कौरवाः परमाद्भुतम् ॥७-७५-९॥
किमद्भुततरं लोके भविताप्यथ वाप्यभूत्। यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे ॥७-७५-१०॥
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ। तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि ॥७-७५-११॥
अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत। अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तदा ॥७-७५-१२॥
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः। मिषतां सर्वसैन्यानां त्वदीयानां विशां पते ॥७-७५-१३॥
तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान्। सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ॥७-७५-१४॥
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान्। उपावृत्य यथान्यायं पाययामास वारि सः ॥७-७५-१५॥
स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान्। योजयामास संहृष्टः पुनरेव रथोत्तमे ॥७-७५-१६॥
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः। समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥७-७५-१७॥
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः। दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥७-७५-१८॥
विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः। धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ॥७-७५-१९॥
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ। बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥७-७५-२०॥
क्रोशतां यतमानानामसंसक्तौ परन्तपौ। दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु ॥७-७५-२१॥
तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन्। त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥७-७५-२२॥
रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम्। जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥७-७५-२३॥
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः। अदृष्टपूर्वं सङ्ग्रामे तद्दृष्ट्वा महदद्भुतम् ॥७-७५-२४॥
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः। दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ॥७-७५-२५॥
विलयं समनुप्राप्ता तच्च राजा न बुध्यते। इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ॥७-७५-२६॥
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम्। तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥७-७५-२७॥
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति। निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥७-७५-२८॥
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम्। नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ॥७-७५-२९॥
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः। यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ॥७-७५-३०॥
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत्। बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् ॥७-७५-३१॥
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः। तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः ॥७-७५-३२॥
वातोद्धूतपताकान्तं रथं जलदनिस्वनम्। घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥७-७५-३३॥
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम्। शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् ॥७-७५-३४॥
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम्। क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥७-७५-३५॥
अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम्। दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे ॥७-७५-३६॥