07.073 
 
धृतराष्ट्र उवाच॥
बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते। तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय ॥७-७३-१॥
अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः। नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि ॥७-७३-२॥
सञ्जय उवाच॥
सम्प्रद्रुतः क्रोधविषो व्यादितास्यशरासनः। तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् ॥७-७३-३॥
संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन्। नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः ॥७-७३-४॥
उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः। रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् ॥७-७३-५॥
शरपातमहावर्षं रथघोषबलाहकम्। कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम् ॥७-७३-६॥
शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम्। द्रोणमेघमनावार्यं हयमारुतचोदितम् ॥७-७३-७॥
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः। उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ॥७-७३-८॥
एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम्। आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम् ॥७-७३-९॥
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत्। आचार्यं राजपुत्राणां सततं शूरमानिनम् ॥७-७३-१०॥
ततो रजतसङ्काशा माधवस्य हयोत्तमाः। द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः ॥७-७३-११॥
इषुजालावृतं घोरमन्धकारमनन्तरम्। अनाधृष्यमिवान्येषां शूराणामभवत्तदा ॥७-७३-१२॥
ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा। नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः ॥७-७३-१३॥
इषूणां संनिपातेन शब्दो धाराभिघातजः। शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ॥७-७३-१४॥
नाराचैरतिविद्धानां शराणां रूपमाबभौ। आशीविषविदष्टानां सर्पाणामिव भारत ॥७-७३-१५॥
तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः। अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ॥७-७३-१६॥
उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी। रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा ॥७-७३-१७॥
निर्मलानामजिह्मानां नाराचानां विशां पते। निर्मुक्ताशीविषाभानां सम्पातोऽभूत्सुदारुणः ॥७-७३-१८॥
उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ। उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ ॥७-७३-१९॥
स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ। अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः ॥७-७३-२०॥
गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः। उपारमन्महाराज व्याजहार न कश्चन ॥७-७३-२१॥
तूष्णीम्भूतान्यनीकानि योधा युद्धादुपारमन्। ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः ॥७-७३-२२॥
रथिनो हस्तियन्तारो हयारोहाः पदातयः। अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ ॥७-७३-२३॥
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम्। तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः ॥७-७३-२४॥
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः। ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः ॥७-७३-२५॥
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः। विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः ॥७-७३-२६॥
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु। गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ॥७-७३-२७॥
सबलाकाः सखद्योताः सैरावतशतह्रदाः। अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः ॥७-७३-२८॥
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः। तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः ॥७-७३-२९॥
विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः। सिद्धचारणसङ्घाश्च विद्याधरमहोरगाः ॥७-७३-३०॥
गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः। विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः ॥७-७३-३१॥
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ। अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी ॥७-७३-३२॥
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे। पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते ॥७-७३-३३॥
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः। सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः ॥७-७३-३४॥
ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत। सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः ॥७-७३-३५॥
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम्। युयुधानस्य राजेन्द्र मनसेदमचिन्तयत् ॥७-७३-३६॥
एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये। भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ॥७-७३-३७॥
तं चास्य मनसा द्रोणः पूजयामास विक्रमम्। लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः ॥७-७३-३८॥
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः। न तामालक्षयामासुर्लघुतां शीघ्रकारिणः ॥७-७३-३९॥
देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते। सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत् ॥७-७३-४०॥
ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः। अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत ॥७-७३-४१॥
तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः। जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् ॥७-७३-४२॥
तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे। युक्तं योगेन योगज्ञास्तावकाः समपूजयन् ॥७-७३-४३॥
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः। तमाचार्योऽप्यसम्भ्रान्तोऽयोधयच्छत्रुतापनः ॥७-७३-४४॥
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः। वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् ॥७-७३-४५॥
तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः। अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत् ॥७-७३-४६॥
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ। न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि ॥७-७३-४७॥
अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते। न तावदभिषज्येते व्यावर्तदथ भास्करः ॥७-७३-४८॥
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः। नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ॥७-७३-४९॥
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः। मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा ॥७-७३-५०॥
दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः। द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् ॥७-७३-५१॥
ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम्। रजसा संवृते लोके शरजालसमावृते ॥७-७३-५२॥
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन। सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत ॥७-७३-५३॥