07.142
Pancharatra and Core: In the encounter between Sahadeva and Karna, Sahadeva is allowed to escape from Karna because of the promise given to Kunti. But Karna insults Sahadeva with harsh words. Battle begins between Shalya and Virata. Shalya kills Virata's brother Shatānīka. Facing defeat, Virata retreats. When Arjuna rallies the retreating Pandava army, demon Alambusa fights him, but in vain.
सञ्जय उवाच॥
सहदेवमथायान्तं द्रोणप्रेप्सुं विशां पते। कर्णो वैकर्तनो युद्धे वारयामास भारत ॥७-१४२-१॥
सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः। पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः ॥७-१४२-२॥
तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम्। सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् ॥७-१४२-३॥
ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान्। कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् ॥७-१४२-४॥
तस्य कर्णो हयान्हत्वा शरैः संनतपर्वभिः। सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् ॥७-१४२-५॥
विरथः सहदेवस्तु खड्गं चर्म समाददे। तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव ॥७-१४२-६॥
ततो गुर्वीं महाघोरां हेमचित्रां महागदाम्। प्रेषयामास समरे वैकर्तनरथं प्रति ॥७-१४२-७॥
तामापतन्तीं सहसा सहदेवप्रवेरिताम्। व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् ॥७-१४२-८॥
गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः। शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः ॥७-१४२-९॥
ससम्भ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात्। सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् ॥ रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति ॥७-१४२-१०॥
तमापतन्तं सहसा कालचक्रमिवोद्यतम्। शरैरनेकसाहस्रैरच्छिनत्सूतनन्दनः ॥७-१४२-११॥
तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना। वार्यमाणश्च विशिखैः सहदेवो रणं जहौ ॥७-१४२-१२॥
तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ। अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते ॥७-१४२-१३॥
मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह। सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः ॥७-१४२-१४॥
अथैनं धनुषोऽग्रेण तुदन्भूयोऽब्रवीद्वचः। एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह ॥ तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे ॥७-१४२-१५॥
एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः। प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव ॥७-१४२-१६॥
वधप्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा। कुन्त्याः स्मृत्वा वचो राजन्सत्यसन्धो महारथः ॥७-१४२-१७॥
सहदेवस्ततो राजन्विमनाः शरपीडितः। कर्णवाक्षल्यतप्तश्च जीवितान्निरविद्यत ॥७-१४२-१८॥
आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः। जनमेजयस्य समरे त्वरायुक्तो महारथः ॥७-१४२-१९॥
विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम्। मद्रराजः शरौघेण छादयामास धन्विनम् ॥७-१४२-२०॥
तयोः समभवद्युद्धं समरे दृढधन्विनोः। यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा ॥७-१४२-२१॥
मद्रराजो महाराज विराटं वाहिनीपतिम्। आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् ॥७-१४२-२२॥
प्रतिविव्याध तं राजा नवभिर्निशितैः शरैः। पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह ॥७-१४२-२३॥
तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः। सूतं ध्वजं च समरे रथोपस्थादपातयत् ॥७-१४२-२४॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः। तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्शरान् ॥७-१४२-२५॥
शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम्। रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः ॥७-१४२-२६॥
शतानीकमथायान्तं मद्रराजो महामृधे। विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम् ॥७-१४२-२७॥
तस्मिंस्तु निहते वीरे विराटो रथसत्तमः। आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् ॥७-१४२-२८॥
ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः। मद्रराजरथं तूर्णं छादयामास पत्रिभिः ॥७-१४२-२९॥
ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम्। आजघानोरसि दृढं विराटं वाहिनीपतिम् ॥७-१४२-३०॥
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्। कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ ॥ सारथिस्तमपोवाह समरे शरविक्षतम् ॥७-१४२-३१॥
ततः सा महती सेना प्राद्रवन्निशि भारत। वध्यमाना शरशतैः शल्येनाहवशोभिना ॥७-१४२-३२॥
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जयौ। प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ॥७-१४२-३३॥
तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलम्बुसः। अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् ॥७-१४२-३४॥
तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः। लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् ॥ कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् ॥७-१४२-३५॥
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता। ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ॥७-१४२-३६॥
स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः। रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् ॥ किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि ॥७-१४२-३७॥
अतितीव्रमभूद्युद्धं नरराक्षसयोर्मृधे। द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ ॥७-१४२-३८॥
तमर्जुनः शतेनैव पत्रिणामभ्यताडयत्। नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम् ॥७-१४२-३९॥
सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम्। धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥ विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् ॥७-१४२-४०॥
अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ। पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात् ॥७-१४२-४१॥
तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ। किरञ्शरगणान्राजन्नरवारणवाजिषु ॥७-१४२-४२॥
वध्यमाना महाराज पाण्डवेन यशस्विना। सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः ॥७-१४२-४३॥
तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना। सम्प्राद्रवद्बलं सर्वं पुत्राणां ते विशां पते ॥७-१४२-४४॥