07.147
Core and Pancharatra: Angered, Duryodhana pulls up Drona and Karna and asks them to fight properly. Drona and Karna fiercely attack Panchala army. Though Pandava army retreats initially, Bhima along with Satyaki rally the forces and charge from the front. The great night enveloped all as the Pandavas and Kauravas continued their fierce battle everywhere.
सञ्जय उवाच॥
विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः। क्रोधेन महताविष्टः पुत्रस्तव विशां पते ॥७-१४७-१॥
अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम्। अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत् ॥७-१४७-२॥
भवद्भ्यामिह सङ्ग्रामो क्रुद्धाभ्यां सम्प्रवर्तितः। आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना ॥७-१४७-३॥
निहन्यमानां पाण्डूनां बलेन मम वाहिनीम्। भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः ॥७-१४७-४॥
यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि। आवां पाण्डुसुतान्सङ्ख्ये जेष्याव इति मानदौ ॥७-१४७-५॥
तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसंमतम्। कृतवान्पाण्डवैः सार्धं वैरं योधविनाशनम् ॥७-१४७-६॥
यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ। युध्येतामनुरूपेण विक्रमेण सुविक्रमौ ॥७-१४७-७॥
वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते। प्रावर्तयेतां तौ युद्धं घट्टिताविव पन्नगौ ॥७-१४७-८॥
ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ। शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे ॥७-१४७-९॥
तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः। अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः ॥७-१४७-१०॥
अथ द्रोणो महेष्वासो दशभिः शिनिपुङ्गवम्। अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः ॥७-१४७-११॥
कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः। दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः ॥ एते कौरव सङ्क्रन्दे शैनेयं पर्यवारयन् ॥७-१४७-१२॥
दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम्। विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः ॥७-१४७-१३॥
ततो द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशां पते। रश्मिभिर्भास्करो राजंस्तमसामिव भारत ॥७-१४७-१४॥
द्रोणेन वध्यमानानां पाञ्चालानां विशां पते। शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् ॥७-१४७-१५॥
पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान्। भागिनेयान्वयस्यांश्च तथा सम्बन्धिबान्धवान् ॥ उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः ॥७-१४७-१६॥
अपरे मोहिता मोहात्तमेवाभिमुखा ययुः। पाण्डवानां रणे योधाः परलोकं तथापरे ॥७-१४७-१७॥
सा तथा पाण्डवी सेना वध्यमाना महात्मभिः। निशि सम्प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥७-१४७-१८॥
पश्यतो भीमसेनस्य विजयस्याच्युतस्य च। यमयोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः ॥७-१४७-१९॥
तमसा संवृते लोके न प्राज्ञायत किञ्चन। कौरवाणां प्रकाशेन दृश्यन्ते तु द्रुताः परे ॥७-१४७-२०॥
द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ। जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून् ॥७-१४७-२१॥
पाञ्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः। जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम् ॥७-१४७-२२॥
द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी। पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम् ॥७-१४७-२३॥
एतयोः शरवर्षेण प्रभग्ना नो महारथाः। वार्यमाणापि कौन्तेय पृतना नावतिष्ठते ॥७-१४७-२४॥
एतावावां सर्वसैन्यैर्व्यूढैः सम्यगुदायुधैः। द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् ॥७-१४७-२५॥
एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ। उपेक्षितौ बलं क्रुद्धौ नाशयेतां निशामिमाम् ॥ एष भीमोऽभियात्युग्रः पुनरावर्त्य वाहिनीम् ॥७-१४७-२६॥
वृकोदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः। पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम् ॥७-१४७-२७॥
एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः। रुषितोऽभ्येति वेगेन द्रोणकर्णौ महाबलौ ॥७-१४७-२८॥
एतेन सहितो युध्य पाञ्चालैश्च महारथैः। आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन ॥७-१४७-२९॥
ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ। द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि ॥७-१४७-३०॥
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्। ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि ॥७-१४७-३१॥
स सम्प्रहारस्तुमुलो निशि प्रत्यभवन्महान्। यथा सागरयो राजंश्चन्द्रोदयविवृद्धयोः ॥७-१४७-३२॥
तत उत्सृज्य पाणिभ्यः प्रदीपांस्तव वाहिनी। युयुधे पाण्डवैः सार्धमुन्मत्तवदहःक्षये ॥७-१४७-३३॥
रजसा तमसा चैव संवृते भृशदारुणे। केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः ॥७-१४७-३४॥
अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः। प्रहरद्भिर्महाराज स्वयंवर इवाहवे ॥७-१४७-३५॥
निःशब्दमासीत्सहसा पुनः शब्दो महानभूत्। क्रुद्धानां युध्यमानानां जयतां जीयतामपि ॥७-१४७-३६॥
यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम। तत्र तत्र स्म ते शूरा निपतन्ति पतङ्गवत् ॥७-१४७-३७॥
तथा संयुध्यमानानां विगाढाभून्महानिशा। पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः ॥७-१४७-३८॥