Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.149
Core and Pancharatra: As Ghatotkacha attacks Karna, Duryodhana sends Alambala, son of Jaṭāsura as a reinforcement to Karna. In the intense battle Ghatotkacha kills Alambala. Ghatotkacha places Alambala's severed head on Duryodhana's chariot and threatens that he along with Karna will face the same fate.
सञ्जय उवाच॥
दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति। प्रयान्तं त्वरर्या युक्तं जिघांसुं कर्णमाहवे ॥७-१४९-१॥
अब्रवीत्तव पुत्रस्तु दुःशासनमिदं वचः। एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् ॥७-१४९-२॥
अभियाति द्रुतं कर्णं तद्वारय महारथम्। वृतः सैन्येन महता याहि यत्र महाबलः ॥७-१४९-३॥
कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति। रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद ॥७-१४९-४॥
एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली। दुर्योधनमुपागम्य प्राह प्रहरतां वरः ॥७-१४९-५॥
दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान्। पाण्डवान्हन्तुमिच्छामि त्वयाज्ञप्तः सहानुगान् ॥७-१४९-६॥
जटासुरो मम पिता रक्षसामग्रणीः पुरा। प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः ॥ तस्यापचितिमिच्छामि त्वद्दिष्टो गन्तुमीश्वर ॥७-१४९-७॥
तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः। द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे ॥ त्वं तु गच्छ मयाज्ञप्तो जहि युद्धं घटोत्कचम् ॥७-१४९-८॥
तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम्। जटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत् ॥७-१४९-९॥
अलम्बलं च कर्णं च कुरुसैन्यं च दुस्तरम्। हैडिम्बः प्रममाथैको महावातोऽम्बुदानिव ॥७-१४९-१०॥
ततो मायामयं दृष्ट्वा रथं तूर्णमलम्बलः। घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्दयत् ॥७-१४९-११॥
विद्ध्वा च बहुभिर्बाणैर्भैमसेनिमलम्बलः। व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम् ॥७-१४९-१२॥
तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष। निशीथे विप्रकीर्यन्त वातनुन्ना घना इव ॥७-१४९-१३॥
घटोत्कचशरैर्नुन्ना तथैव कुरुवाहिनी। निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥७-१४९-१४॥
अलम्बलस्ततः क्रुद्धो भैमसेनिं महामृधे। आजघ्ने निशितैर्बाणैस्तोत्त्रैरिव महाद्विपम् ॥७-१४९-१५॥
तिलशस्तस्य तद्यानं सूतं सर्वायुधानि च। घटोत्कचः प्रचिच्छेद प्राणदच्चातिदारुणम् ॥७-१४९-१६॥
ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः। अलम्बलं चाभ्यवर्षन्मेघो मेरुमिवाचलम् ॥७-१४९-१७॥
ततः सञ्चुक्षुभे सैन्यं कुरूणां राक्षसार्दितम्। उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह ॥७-१४९-१८॥
जटासुरिर्महाराज विरथो हतसारथिः। घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनद्दृढम् ॥७-१४९-१९॥
मुष्टिनाभिहतस्तेन प्रचचाल घटोत्कचः। क्षितिकम्पे यथा शैलः सवृक्षगणगुल्मवान् ॥७-१४९-२०॥
ततः स परिघाभेन द्विट्सङ्घघ्नेन बाहुना। जटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम् ॥७-१४९-२१॥
तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत्। दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष महीतले ॥७-१४९-२२॥
अलम्बलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम्। घटोत्कचं रणे रोषान्निष्पिपेष महीतले ॥७-१४९-२३॥
तयोः समभवद्युद्धं गर्जतोरतिकाययोः। घटोत्कचालम्बलयोस्तुमुलं लोमहर्षणम् ॥७-१४९-२४॥
विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ। युयुधाते महावीर्याविन्द्रवैरोचनाविव ॥७-१४९-२५॥
पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ। पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ ॥ पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ ॥७-१४९-२६॥
एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ। भृशं चित्रमयुध्येतामलम्बलघटोत्कचौ ॥७-१४९-२७॥
परिघैश्च गदाभिश्च प्रासमुद्गरपट्टिशैः। मुसलैः पर्वताग्रैश्च तावन्योन्यं निजघ्नतुः ॥७-१४९-२८॥
हयाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः। युयुधाते महामायौ राक्षसप्रवरौ युधि ॥७-१४९-२९॥
ततो घटोत्कचो राजन्नलम्बलवधेप्सया। उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह ॥७-१४९-३०॥
गृहीत्वा च महाकायं राक्षसेन्द्रमलम्बलम्। उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे ॥७-१४९-३१॥
ततो घटोत्कचः खड्गमुद्गृह्याद्भुतदर्शनम्। चकर्त कायाद्धि शिरो भीमं विकृतदर्शनम् ॥७-१४९-३२॥
तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः। घटोत्कचो ययावाशु दुर्योधनरथं प्रति ॥७-१४९-३३॥
अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः। रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम् ॥ प्राणदद्भैरवं नादं प्रावृषीव बलाहकः ॥७-१४९-३४॥
अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः। एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः ॥ पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः ॥७-१४९-३५॥
एवमुक्त्वा ततः प्रायात्कर्णं प्रति जनेश्वर। किरञ्शरशतांस्तीक्ष्णान्विमुञ्चन्कर्णमूर्धनि ॥७-१४९-३६॥
ततः समभवद्युद्धं घोररूपं भयानकम्। विस्मापनं महाराज नरराक्षसयोर्मृधे ॥७-१४९-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.