Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.003
वैशम्पायन उवाच॥
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः। शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम् ॥ विह्वलः पतितो भूमौ नष्टचेता इव द्विपः ॥८-३-१॥
तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे। आर्तनादो महानासीत्स्त्रीणां भरतसत्तम ॥८-३-२॥
स शब्दः पृथिवीं सर्वां पूरयामास सर्वशः। शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः ॥८-३-३॥
राजानं च समासाद्य गान्धारी भरतर्षभ। निःसञ्ज्ञा पतिता भूमौ सर्वाण्यन्तःपुराणि च ॥८-३-४॥
ततस्ताः सञ्जयो राजन्समाश्वासयदातुराः। मुह्यमानाः सुबहुशो मुञ्चन्त्यो वारि नेत्रजम् ॥८-३-५॥
समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः। कदल्य इव वातेन धूयमानाः समन्ततः ॥८-३-६॥
राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम्। आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम् ॥८-३-७॥
स लब्ध्वा शनकैः सञ्ज्ञां ताश्च दृष्ट्वा स्त्रियो नृप। उन्मत्त इव राजा स स्थितस्तूष्णीं विशां पते ॥८-३-८॥
ततो ध्यात्वा चिरं कालं निःश्वसंश्च पुनः पुनः। स्वान्पुत्रान्गर्हयामास बहु मेने च पाण्डवान् ॥८-३-९॥
गर्हयित्वात्मनो बुद्धिं शकुनेः सौबलस्य च। ध्यात्वा च सुचिरं कालं वेपमानो मुहुर्मुहुः ॥८-३-१०॥
संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः। पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम् ॥८-३-११॥
यत्त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया। कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम् ॥ ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम् ॥८-३-१२॥
एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय। हतो वैकर्तनो राजन्सह पुत्रैर्महारथैः ॥ भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः ॥८-३-१३॥
दुःशासनश्च निहतः पाण्डवेन यशस्विना। पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे ॥८-३-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.