08.004
वैशम्पायन उवाच॥
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः। अब्रवीत्सञ्जयं सूतं शोकव्याकुलचेतनः ॥८-४-१॥
दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः। हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति ॥८-४-२॥
कृतास्त्रपरमाः शल्ये दुःखपारं तितीर्षवः। कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः ॥८-४-३॥
सञ्जय उवाच॥
हतः शान्तनवो राजन्दुराधर्षः प्रतापवान्। हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः ॥८-४-४॥
ततो द्रोणो महेष्वासः पाञ्चालानां रथव्रजान्। निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः ॥८-४-५॥
हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना। अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ॥८-४-६॥
विविंशतिर्महाराज राजपुत्रो महाबलः। आनर्तयोधाञ्शतशो निहत्य निहतो रणे ॥८-४-७॥
अथ पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन्। क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान् ॥८-४-८॥
घोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून्। प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः ॥८-४-९॥
विन्दानुविन्दावावन्त्यौ राजपुत्रौ महाबलौ। कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम् ॥८-४-१०॥
सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै। वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने ॥८-४-११॥
अक्षौहिणीर्दशैकां च निर्जित्य निशितैः शरैः। अर्जुनेन हतो राजन्महावीर्यो जयद्रथः ॥८-४-१२॥
तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः। वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ॥८-४-१३॥
तथा दौःशासनिर्वीरो बाहुशाली रणोत्कटः। द्रौपदेयेन विक्रम्य गमितो यमसादनम् ॥८-४-१४॥
किरातानामधिपतिः सागरानूपवासिनाम्। देवराजस्य धर्मात्मा प्रियो बहुमतः सखा ॥८-४-१५॥
भगदत्तो महीपालः क्षत्रधर्मरतः सदा। धनञ्जयेन विक्रम्य गमितो यमसादनम् ॥८-४-१६॥
तथा कौरवदायादः सौमदत्तिर्महायशाः। हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि ॥८-४-१७॥
श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धनुर्धरः। चरन्नभीतवत्सङ्ख्ये निहतः सव्यसाचिना ॥८-४-१८॥
तव पुत्रः सदा सङ्ख्ये कृतास्त्रो युद्धदुर्मदः। दुःशासनो महाराज भीमसेनेन पातितः ॥८-४-१९॥
यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम्। सुदक्षिणः स सङ्ग्रामे निहतः सव्यसाचिना ॥८-४-२०॥
कोसलानामधिपतिर्हत्वा बहुशतान्परान्। सौभद्रेण हि विक्रम्य गमितो यमसादनम् ॥८-४-२१॥
बहुशो योधयित्वा च भीमसेनं महारथः। चित्रसेनस्तव सुतो भीमसेनेन पातितः ॥८-४-२२॥
मद्रराजात्मजः शूरः परेषां भयवर्धनः। असिचर्मधरः श्रीमान्सौभद्रेण निपातितः ॥८-४-२३॥
समः कर्णस्य समरे यः स कर्णस्य पश्यतः। वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चयः ॥८-४-२४॥
अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः। धनञ्जयेन विक्रम्य गमितो यमसादनम् ॥८-४-२५॥
नित्यप्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः। विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः ॥८-४-२६॥
शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष। हतो रुक्मरथो राजन्भ्राता मातुलजो युधि ॥८-४-२७॥
राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः। पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ॥८-४-२८॥
भगदत्तसुतो राजन्कृतप्रज्ञो महाबलः। श्येनवच्चरता सङ्ख्ये नकुलेन निपातितः ॥८-४-२९॥
पितामहस्तव तथा बाह्लिकः सह बाह्लिकैः। भीमसेनेन विक्रम्य गमितो यमसादनम् ॥८-४-३०॥
जयत्सेनस्तथा राजञ्जारासन्धिर्महाबलः। मागधो निहतः सङ्ख्ये सौभद्रेण महात्मना ॥८-४-३१॥
पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः। गदया भीमसेनेन निहतौ शूरमानिनौ ॥८-४-३२॥
दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः। कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥८-४-३३॥
सचिवो वृषवर्मा ते सूतः परमवीर्यवान्। भीमसेनेन विक्रम्य गमितो यमसादनम् ॥८-४-३४॥
नागायुतबलो राजा नागायुतबलो महान्। सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना ॥८-४-३५॥
वसातयो महाराज द्विसाहस्राः प्रहारिणः। शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ॥८-४-३६॥
अभीषाहाः कवचिनः प्रहरन्तो मदोत्कटाः। शिबयश्च रथोदाराः कलिङ्गसहिता हताः ॥८-४-३७॥
गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः। श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये ॥ ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम् ॥८-४-३८॥
स्यालौ तव महाराज राजानौ वृषकाचलौ। त्वदर्थे सम्पराक्रान्तौ निहतौ सव्यसाचिना ॥८-४-३९॥
उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा। शाल्वराजो महाराज भीमसेनेन पातितः ॥८-४-४०॥
ओघवांश्च महाराज बृहन्तः सहितो रणे। पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् ॥८-४-४१॥
तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशां पते। निहतो गदया राजन्भीमसेनेन संयुगे ॥८-४-४२॥
तथा राजा महेष्वासो जलसन्धो महाबलः। सुमहत्कदनं कृत्वा हतः सात्यकिना रणे ॥८-४-४३॥
अलायुधो राक्षसेन्द्रः खरबन्धुरयानगः। घटोत्कचेन विक्रम्य गमितो यमसादनम् ॥८-४-४४॥
राधेयाः सूतपुत्राश्च भ्रातरश्च महारथाः। केकयाः सर्वशश्चापि निहताः सव्यसाचिना ॥८-४-४५॥
मालवा मद्रकाश्चैव द्रविडाश्चोग्रविक्रमाः। यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ॥८-४-४६॥
मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाञ्चलाः। प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ॥८-४-४७॥
पत्तीनां निहताः सङ्घा हयानामयुतानि च। रथव्रजाश्च निहता हताश्च वरवारणाः ॥८-४-४८॥
सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः। कालेन महता यत्ताः कुले ये च विवर्धिताः ॥८-४-४९॥
ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा। अन्ये तथामितबलाः परस्परवधैषिणः ॥८-४-५०॥
एते चान्ये च बहवो राजानः सगणा रणे। हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि ॥ एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे ॥८-४-५१॥
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः। यथा कृष्णेन निहतो मुरो रणनिपातितः ॥ कार्तवीर्यश्च रामेण भार्गवेण हतो यथा ॥८-४-५२॥
सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः। रणे कृत्वा महायुद्धं घोरं त्रैलोक्यविश्रुतम् ॥८-४-५३॥
तथार्जुनेन निहतो द्वैरथे युद्धदुर्मदः। सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः ॥८-४-५४॥
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः। तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे ॥८-४-५५॥
उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः। तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम् ॥८-४-५६॥
पुत्राणां राज्यकामानां त्वया राजन्हितैषिणा। अहितानीव चीर्णानि तेषां ते फलमागतम् ॥८-४-५७॥
धृतराष्ट्र उवाच॥
आख्याता मामकास्तात निहता युधि पाण्डवैः। निहतान्पाण्डवेयानां मामकैर्ब्रूहि सञ्जय ॥८-४-५८॥
सञ्जय उवाच॥
कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः। सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः ॥८-४-५९॥
समः किरीटिना सङ्ख्ये वीर्येण च बलेन च। सत्यजित्सत्यसन्धेन द्रोणेन निहतो रणे ॥८-४-६०॥
तथा विराटद्रुपदौ वृद्धौ सहसुतौ नृपौ। पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे ॥८-४-६१॥
यो बाल एव समरे संमितः सव्यसाचिना। केशवेन च दुर्धर्षो बलदेवेन चाभिभूः ॥८-४-६२॥
स एष कदनं कृत्वा महद्रणविशारदः। परिवार्य महामात्रैः षड्भिः परमकै रथैः ॥ अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः ॥८-४-६३॥
तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम्। दौःशासनिर्महाराज सौभद्रं हतवान्रणे ॥८-४-६४॥
बृहन्तस्तु महेष्वासः कृतास्त्रो युद्धदुर्मदः। दुःशासनेन विक्रम्य गमितो यमसादनम् ॥८-४-६५॥
मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ। पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ ॥८-४-६६॥
अंशुमान्भोजराजस्तु सहसैन्यो महारथः। भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥८-४-६७॥
चित्रायुधश्चित्रयोधी कृत्वा तौ कदनं महत्। चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि ॥८-४-६८॥
वृकोदरसमो युद्धे दृढः केकयजो युधि। केकयेनैव विक्रम्य भ्रात्रा भ्राता निपातितः ॥८-४-६९॥
जनमेजयो गदायोधी पार्वतीयः प्रतापवान्। दुर्मुखेन महाराज तव पुत्रेण पातितः ॥८-४-७०॥
रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव। द्रोणेन युगपद्राजन्दिवं सम्प्रेषितौ शरैः ॥८-४-७१॥
नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशां पते। कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥८-४-७२॥
पुरुजित्कुन्तिभोजश्च मातुलः सव्यसाचिनः। सङ्ग्रामनिर्जिताँल्लोकान्गमितो द्रोणसायकैः ॥८-४-७३॥
अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः। वसुदानस्य पुत्रेण न्यासितो देहमाहवे ॥८-४-७४॥
अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान्। निहत्य शतशः शूरान्परैर्विनिहतौ रणे ॥८-४-७५॥
क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च मारिष। द्रोणेन परमेष्वासौ गमितौ यमसादनम् ॥८-४-७६॥
शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः। लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत ॥८-४-७७॥
सुचित्रश्चित्रधर्मा च पितापुत्रौ महारथौ। प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे ॥८-४-७८॥
वार्धक्षेमिर्महाराज कृत्वा कदनमाहवे। बाह्लिकेन महाराज कौरवेण निपातितः ॥८-४-७९॥
धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः। कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥८-४-८०॥
तथा सत्यधृतिस्तात कृत्वा कदनमाहवे। पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् ॥८-४-८१॥
पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपते। निहत्य शात्रवान्सङ्ख्ये द्रोणेन निहतो युधि ॥८-४-८२॥
तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान्। सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः ॥८-४-८३॥
श्रेणिमांश्च महाराज युध्यमानः पराक्रमी। कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥८-४-८४॥
तथैव युधि विक्रान्तो मागधः परवीरहा। भीष्मेण निहतो राजन्युध्यमानः पराक्रमी ॥८-४-८५॥
वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे। भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥८-४-८६॥
एते चान्ये च बहवः पाण्डवानां महारथाः। हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि ॥८-४-८७॥
धृतराष्ट्र उवाच॥
हतप्रवीरे सैन्येऽस्मिन्मामके वदतां वर। अहताञ्शंस मे सूत येऽत्र जीवन्ति केचन ॥८-४-८८॥
एतेषु निहतेष्वद्य ये त्वया परिकीर्तिताः। अहतान्मन्यसे यांस्त्वं तेऽपि स्वर्गजितो मताः ॥८-४-८९॥
सञ्जय उवाच॥
यस्मिन्महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि। दिव्यानि राजन्निहितानि चैव; द्रोणेन वीरद्विजसत्तमेन ॥८-४-९०॥
महारथः कृतिमान्क्षिप्रहस्तो; दृढायुधो दृढमुष्टिर्दृढेषुः। स वीर्यवान्द्रोणपुत्रस्तरस्वी; व्यवस्थितो योद्धुकामस्त्वदर्थे ॥८-४-९१॥
आनर्तवासी हृदिकात्मजोऽसौ; महारथः सात्वतानां वरिष्ठः। स्वयं भोजः कृतवर्मा कृतास्त्रो; व्यवस्थितो योद्धुकामस्त्वदर्थे ॥८-४-९२॥
शारद्वतो गौतमश्चापि राज; न्महाबलो बहुचित्रास्त्रयोधी। धनुश्चित्रं सुमहद्भारसाहं; व्यवस्थितो योत्स्यमानः प्रगृह्य ॥८-४-९३॥
आर्तायनिः समरे दुष्प्रकम्प्यः; सेनाग्रणीः प्रथमस्तावकानाम्। स्वस्रेयांस्तान्पाण्डवेयान्विसृज्य; सत्यां वाचं तां चिकीर्षुस्तरस्वी ॥८-४-९४॥
तेजोवधं सूतपुत्रस्य सङ्ख्ये; प्रतिश्रुत्वाजातशत्रोः पुरस्तात्। दुराधर्षः शक्रसमानवीर्यः; शल्यः स्थितो योद्धुकामस्त्वदर्थे ॥८-४-९५॥
आजानेयैः सैन्धवैः पार्वतीयै; र्नदीजकाम्बोजवनायुबाह्लिकैः। गान्धारराजः स्वबलेन युक्तो; व्यवस्थितो योद्धुकामस्त्वदर्थे ॥८-४-९६॥
तथा सुतस्ते ज्वलनार्कवर्णं; रथं समास्थाय कुरुप्रवीर। व्यवस्थितः कुरुमित्रो नरेन्द्र; व्यभ्रे सूर्यो भ्राजमानो यथा वै ॥८-४-९७॥
दुर्योधनो नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः। रथेन जाम्बूनदभूषणेन; व्यवस्थितः समरे योद्धुकामः ॥८-४-९८॥
स राजमध्ये पुरुषप्रवीरो; रराज जाम्बूनदचित्रवर्मा। पद्मप्रभो वह्निरिवाल्पधूमो; मेघान्तरे सूर्य इव प्रकाशः ॥८-४-९९॥
तथा सुषेणोऽप्यसिचर्मपाणि; स्तवात्मजः सत्यसेनश्च वीरः। व्यवस्थितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे योद्धुकामौ ॥८-४-१००॥
ह्रीनिषेधा भरता राजपुत्रा; श्चित्रायुधः श्रुतकर्मा जयश्च। शलश्च सत्यव्रतदुःशलौ च; व्यवस्थिता बलिनो योद्धुकामाः ॥८-४-१०१॥
कैतव्यानामधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः। पत्री हयी नागरथप्रयायी; व्यवस्थितो योद्धुकामस्त्वदर्थे ॥८-४-१०२॥
वीरः श्रुतायुश्च श्रुतायुधश्च; चित्राङ्गदश्चित्रवर्मा स वीरः। व्यवस्थिता ये तु सैन्ये नराग्र्याः; प्रहारिणो मानिनः सत्यसन्धाः ॥८-४-१०३॥
कर्णात्मजः सत्यसेनो महात्मा; व्यवस्थितः समरे योद्धुकामः। अथापरौ कर्णसुतौ वरार्हौ; व्यवस्थितौ लघुहस्तौ नरेन्द्र ॥ बलं महद्दुर्भिदमल्पधैर्यैः; समाश्रितौ योत्स्यमानौ त्वदर्थे ॥८-४-१०४॥
एतैश्च मुख्यैरपरैश्च राज; न्योधप्रवीरैरमितप्रभावैः। व्यवस्थितो नागकुलस्य मध्ये; यथा महेन्द्रः कुरुराजो जयाय ॥८-४-१०५॥
धृतराष्ट्र उवाच॥
आख्याता जीवमाना ये परेभ्योऽन्ये यथातथम्। इतीदमभिगच्छामि व्यक्तमर्थाभिपत्तितः ॥८-४-१०६॥
वैशम्पायन उवाच॥
एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः। हतप्रवीरं विध्वस्तं किञ्चिच्छेषं स्वकं बलम् ॥ श्रुत्वा व्यामोहमगमच्छोकव्याकुलितेन्द्रियः ॥८-४-१०७॥
मुह्यमानोऽब्रवीच्चापि मुहूर्तं तिष्ठ सञ्जय। व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम् ॥ नष्टचित्तस्ततः सोऽथ बभूव जगतीपतिः ॥८-४-१०८॥