08.006
सञ्जय उवाच॥
हते द्रोणे महेष्वासे तस्मिन्नहनि भारत। कृते च मोघसङ्कल्पे द्रोणपुत्रे महारथे ॥८-६-१॥
द्रवमाणे महाराज कौरवाणां बले तथा। व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्भ्रातृभिः सह ॥८-६-२॥
तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ। द्रवच्च स्वबलं दृष्ट्वा पौरुषेण न्यवारयत् ॥८-६-३॥
स्वमनीकमवस्थाप्य बाहुवीर्ये व्यवस्थितः। युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत ॥८-६-४॥
लब्धलक्षैः परैर्हृष्टैर्व्यायच्छद्भिश्चिरं तदा। सन्ध्याकालं समासाद्य प्रत्याहारमकारयत् ॥८-६-५॥
कृत्वावहारं सैन्यानां प्रविश्य शिबिरं स्वकम्। कुरवोऽऽत्महितं मन्त्रं मन्त्रयां चक्रिरे तदा ॥८-६-६॥
पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च। वरासनेषूपविष्टाः सुखशय्यास्विवामराः ॥८-६-७॥
ततो दुर्योधनो राजा साम्ना परमवल्गुना। तानाभाष्य महेष्वासान्प्राप्तकालमभाषत ॥८-६-८॥
मतिं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत माचिरम्। एवं गते तु यत्कार्यं भवेत्कार्यकरं नृपाः ॥८-६-९॥
एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः। चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा ॥८-६-१०॥
तेषां निशम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम्। समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसः ॥ आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे ॥८-६-११॥
रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः। उपायाः पण्डितैः प्रोक्ताः सर्वे दैवसमाश्रिताः ॥८-६-१२॥
लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः। नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः ॥८-६-१३॥
न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति। सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते ॥८-६-१४॥
ते वयं प्रवरं नॄणां सर्वैर्गुणगणैर्युतम्। कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् ॥८-६-१५॥
ततो दुर्योधनः प्रीतः प्रियं श्रुत्वा वचस्तदा। प्रीतिसंस्कारसंयुक्तं तथ्यमात्महितं शुभम् ॥८-६-१६॥
स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः। दुर्योधनो महाराज राधेयमिदमब्रवीत् ॥८-६-१७॥
कर्ण जानामि ते वीर्यं सौहृदं च परं मयि। तथापि त्वां महाबाहो प्रवक्ष्यामि हितं वचः ॥८-६-१८॥
श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते। भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः ॥८-६-१९॥
भीष्मद्रोणावतिरथौ हतौ सेनापती मम। सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः ॥८-६-२०॥
वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनञ्जये। मानितौ च मया वीरौ राधेय वचनात्तव ॥८-६-२१॥
पितामहत्वं सम्प्रेक्ष्य पाण्डुपुत्रा महारणे। रक्षितास्तात भीष्मेण दिवसानि दशैव ह ॥८-६-२२॥
न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः। शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे ॥८-६-२३॥
हते तस्मिन्महाभागे शरतल्पगते तदा। त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः ॥८-६-२४॥
तेनापि रक्षिताः पार्थाः शिष्यत्वादिह संयुगे। स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् ॥८-६-२५॥
निहताभ्यां प्रधानाभ्यां ताभ्याममितविक्रम। त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन् ॥८-६-२६॥
भवानेव तु नः शक्तो विजयाय न संशयः। पूर्वं मध्ये च पश्चाच्च तवैव विदितं हि तत् ॥८-६-२७॥
स भवान्धुर्यवत्सङ्ख्ये धुरमुद्वोढुमर्हसि। अभिषेचय सेनान्ये स्वयमात्मानमात्मना ॥८-६-२८॥
देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः। तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु मे ॥ जहि शत्रुगणान्सर्वान्महेन्द्र इव दानवान् ॥८-६-२९॥
अवस्थितं रणे ज्ञात्वा पाण्डवास्त्वां महारथम्। द्रविष्यन्ति सपाञ्चाला विष्णुं दृष्ट्वेव दानवाः ॥ तस्मात्त्वं पुरुषव्याघ्र प्रकर्षेथा महाचमूम् ॥८-६-३०॥
भवत्यवस्थिते यत्ते पाण्डवा गतचेतसः। भविष्यन्ति सहामात्याः पाञ्चालैः सृञ्जयैः सह ॥८-६-३१॥
यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा। व्यपोहति तमस्तीव्रं तथा शत्रून्व्यपोह नः ॥८-६-३२॥
कर्ण उवाच॥
उक्तमेतन्मया पूर्वं गान्धारे तव संनिधौ। जेष्यामि पाण्डवान्राजन्सपुत्रान्सजनार्दनान् ॥८-६-३३॥
सेनापतिर्भविष्यामि तवाहं नात्र संशयः। स्थिरो भव महाराज जितान्विद्धि च पाण्डवान् ॥८-६-३४॥
सञ्जय उवाच॥
एवमुक्तो महातेजास्ततो दुर्योधनो नृपः। उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः ॥ सेनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः ॥८-६-३५॥
ततोऽभिषिषिचुस्तूर्णं विधिदृष्टेन कर्मणा। दुर्योधनमुखा राजन्राजानो विजयैषिणः ॥ शातकौम्भमयैः कुम्भैर्माहेयैश्चाभिमन्त्रितैः ॥८-६-३६॥
तोयपूर्णैर्विषाणैश्च द्वीपिखड्गमहर्षभैः। मणिमुक्तामयैश्चान्यैः पुण्यगन्धैस्तथौषधैः ॥८-६-३७॥
औदुम्बरे समासीनमासने क्षौमसंवृतम्। शास्त्रदृष्टेन विधिना सम्भारैश्च सुसम्भृतैः ॥८-६-३८॥
जय पार्थान्सगोविन्दान्सानुगांस्त्वं महाहवे। इति तं बन्दिनः प्राहुर्द्विजाश्च भरतर्षभ ॥८-६-३९॥
जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः। उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः ॥८-६-४०॥
न ह्यलं त्वद्विसृष्टानां शराणां ते सकेशवाः। कृतघ्नाः सूर्यरश्मीनां ज्वलतामिव दर्शने ॥८-६-४१॥
न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः। आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः ॥८-६-४२॥
अभिषिक्तस्तु राधेयः प्रभया सोऽमितप्रभः। व्यत्यरिच्यत रूपेण दिवाकर इवापरः ॥८-६-४३॥
सेनापत्येन राधेयमभिषिच्य सुतस्तव। अमन्यत तदात्मानं कृतार्थं कालचोदितः ॥८-६-४४॥
कर्णोऽपि राजन्सम्प्राप्य सेनापत्यमरिंदमः। योगमाज्ञापयामास सूर्यस्योदयनं प्रति ॥८-६-४५॥
तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत। देवैरिव यथा स्कन्दः सङ्ग्रामे तारकामये ॥८-६-४६॥