08.005
जनमेजय उवाच॥
श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैवापलायिनः। नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत् ॥८-५-१॥
प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत्। तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः ॥८-५-२॥
वैशम्पायन उवाच॥
श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम्। भूतसंमोहनं भीमं मेरोः पर्यसनं यथा ॥८-५-३॥
चित्तमोहमिवायुक्तं भार्गवस्य महामतेः। पराजयमिवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः ॥८-५-४॥
दिवः प्रपतनं भानोरुर्व्यामिव महाद्युतेः। संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः ॥८-५-५॥
महीवियद्दिगीशानां सर्वनाशमिवाद्भुतम्। कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः ॥८-५-६॥
सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः। नेदमस्तीति सञ्चिन्त्य कर्णस्य निधनं प्रति ॥८-५-७॥
प्राणिनामेतदात्मत्वात्स्यादपीति विनाशनम्। शोकाग्निना दह्यमानो धम्यमान इवाशयः ॥८-५-८॥
विध्वस्तात्मा श्वसन्दीनो हा हेत्युक्त्वा सुदुःखितः। विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः ॥८-५-९॥
धृतराष्ट्र उवाच॥
सञ्जयाधिरथो वीरः सिंहद्विरदविक्रमः। वृषमप्रतिमस्कन्धो वृषभाक्षगतिस्वनः ॥८-५-१०॥
वृषभो वृषभस्येव यो युद्धे न निवर्तते। शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा ॥८-५-११॥
यस्य ज्यातलशब्देन शरवृष्टिरवेण च। रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे ॥८-५-१२॥
यमाश्रित्य महाबाहुं द्विषत्सङ्घघ्नमच्युतम्। दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महाबलैः ॥८-५-१३॥
स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे। निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः ॥८-५-१४॥
यो नामन्यत वै नित्यमच्युतं न धनञ्जयम्। न वृष्णीनपि तानन्यान्स्वबाहुबलमाश्रितः ॥८-५-१५॥
शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ। अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे ॥८-५-१६॥
इति यः सततं मन्दमवोचल्लोभमोहितम्। दुर्योधनमपादीनं राज्यकामुकमातुरम् ॥८-५-१७॥
यश्चाजैषीदतिबलानमित्रानपि दुर्जयान्। गान्धारान्मद्रकान्मत्स्यांस्त्रिगर्तांस्तङ्गणाञ्शकान् ॥८-५-१८॥
पाञ्चालांश्च विदेहांश्च कुणिन्दान्काशिकोसलान्। सुह्मानङ्गांश्च पुण्ड्रांश्च निषादान्वङ्गकीचकान् ॥८-५-१९॥
वत्सान्कलिङ्गांस्तरलानश्मकानृषिकांस्तथा। यो जित्वा समरे वीरश्चक्रे बलिभृतः पुरा ॥८-५-२०॥
उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः। वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः ॥८-५-२१॥
यं लब्ध्वा मागधो राजा सान्त्वमानार्थगौरवैः। अरौत्सीत्पार्थिवं क्षत्रमृते कौरवयादवान् ॥८-५-२२॥
तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना। शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा ॥८-५-२३॥
ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय। वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम् ॥८-५-२४॥
ज्ञातिसम्बन्धिमित्राणामिमं श्रुत्वा पराजयम्। को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम् ॥८-५-२५॥
विषमग्निं प्रपातं वा पर्वताग्रादहं वृणे। न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय ॥८-५-२६॥
सञ्जय उवाच॥
श्रिया कुलेन यशसा तपसा च श्रुतेन च। त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् ॥८-५-२७॥
श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव। पर्यवस्थापयात्मानं मा विषादे मनः कृथाः ॥८-५-२८॥
धृतराष्ट्र उवाच॥
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम्। यत्र रामप्रतीकाशः कर्णोऽहन्यत संयुगे ॥८-५-२९॥
हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान्। प्रताप्य शरवर्षेण दिशः सर्वा महारथः ॥८-५-३०॥
मोहयित्वा रणे पार्थान्वज्रहस्त इवासुरान्। स कथं निहतः शेते वातरुग्ण इव द्रुमः ॥८-५-३१॥
शोकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः। चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते ॥८-५-३२॥
कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च। अश्रद्धेयमहं मन्ये वधं कर्णस्य सञ्जय ॥८-५-३३॥
वज्रसारमयं नूनं हृदयं सुदृढं मम। यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते ॥८-५-३४॥
आयुर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा। यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः ॥८-५-३५॥
धिग्जीवितमिदं मेऽद्य सुहृद्धीनस्य सञ्जय। अद्य चाहं दशामेतां गतः सञ्जय गर्हिताम् ॥ कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः ॥८-५-३६॥
अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः। परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम् ॥ दुःखात्सुदुःखं व्यसनं प्राप्तवानस्मि सञ्जय ॥८-५-३७॥
तस्माद्भीष्मवधे चैव द्रोणस्य च महात्मनः। नात्र शेषं प्रपश्यामि सूतपुत्रे हते युधि ॥८-५-३८॥
स हि पारं महानासीत्पुत्राणां मम सञ्जय। युद्धे विनिहतः शूरो विसृजन्सायकान्बहून् ॥८-५-३९॥
को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम्। रथादतिरथो नूनमपतत्सायकार्दितः ॥८-५-४०॥
पर्वतस्येव शिखरं वज्रपातविदारितम्। शयीत पृथिवीं नूनं शोभयन्रुधिरोक्षितः ॥ मातङ्ग इव मत्तेन मातङ्गेन निपातितः ॥८-५-४१॥
यद्बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम्। सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् ॥८-५-४२॥
स हि वीरो महेष्वासः पुत्राणामभयङ्करः। शेते विनिहतो वीरः शक्रेणेव यथा बलः ॥८-५-४३॥
पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम्। दुर्योधनस्य चाकूतं तृषितस्येव पिप्लुकाः ॥८-५-४४॥
अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते। अहो नु बलवद्दैवं कालश्च दुरतिक्रमः ॥८-५-४५॥
पलायमानः कृपणं दीनात्मा दीनपौरुषः। कच्चिन्न निहतः सूत पुत्रो दुःशासनो मम ॥८-५-४६॥
कच्चिन्न नीचाचरितं कृतवांस्तात संयुगे। कच्चिन्न निहतः शूरो यथा न क्षत्रिया हताः ॥८-५-४७॥
युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा। दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् ॥८-५-४८॥
शरतल्पे शयानेन भीष्मेण सुमहात्मना। पानीयं याचितः पार्थः सोऽविध्यन्मेदिनीतलम् ॥८-५-४९॥
जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह। अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः ॥८-५-५०॥
प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु च। भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह ॥८-५-५१॥
अकुर्वन्वचनं तस्य नूनं शोचति मे सुतः। तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः ॥८-५-५२॥
अहं तु निहतामात्यो हतपुत्रश्च सञ्जय। द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः ॥८-५-५३॥
यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च सञ्जय। विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः ॥८-५-५४॥
छिन्नपक्षतया तस्य गमनं नोपपद्यते। तथाहमपि सम्प्राप्तो लूनपक्ष इव द्विजः ॥८-५-५५॥
क्षीणः सर्वार्थहीनश्च निर्बन्धुर्ज्ञातिवर्जितः। कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः ॥८-५-५६॥
दुर्योधनस्य वृद्ध्यर्थं पृथिवीं योऽजयत्प्रभुः। स जितः पाण्डवैः शूरैः समर्थैर्वीर्यशालिभिः ॥८-५-५७॥
तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना। के वीराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥८-५-५८॥
कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे। उक्तं त्वया पुरा वीर यथा वीरा निपातिताः ॥८-५-५९॥
भीष्ममप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः। पातयामास समरे सर्वशस्त्रभृतां वरम् ॥८-५-६०॥
तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि। युक्तयोगो महेष्वासः शरैर्बहुभिराचितः ॥ निहतः खड्गमुद्यम्य धृष्टद्युम्नेन सञ्जय ॥८-५-६१॥
अन्तरेण हतावेतौ छलेन च विशेषतः। अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ ॥८-५-६२॥
भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम्। न्यायेन युध्यमानौ हि तद्वै सत्यं ब्रवीमि ते ॥८-५-६३॥
कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च। कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत् ॥८-५-६४॥
यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम्। प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः ॥८-५-६५॥
यस्य सर्पमुखो दिव्यः शरः कनकभूषणः। अशेत निहतः पत्री चन्दनेष्वरिसूदनः ॥८-५-६६॥
भीष्मद्रोणमुखान्वीरान्योऽवमन्य महारथान्। जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत ॥८-५-६७॥
यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः। सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शरैः ॥८-५-६८॥
यश्च नागायुतप्राणं वातरंहसमच्युतम्। विरथं भ्रातरं कृत्वा भीमसेनमुपाहसत् ॥८-५-६९॥
सहदेवं च निर्जित्य शरैः संनतपर्वभिः। कृपया विरथं कृत्वा नाहनद्धर्मवित्तया ॥८-५-७०॥
यश्च मायासहस्राणि ध्वंसयित्वा रणोत्कटम्। घटोत्कचं राक्षसेन्द्रं शक्रशक्त्याभिजघ्निवान् ॥८-५-७१॥
एतानि दिवसान्यस्य युद्धे भीतो धनञ्जयः। नागमद्द्वैरथं वीरः स कथं निहतो रणे ॥८-५-७२॥
रथसङ्गो न चेत्तस्य धनुर्वा न व्यशीर्यत। न चेदस्त्राणि निर्णेशुः स कथं निहतः परैः ॥८-५-७३॥
को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः। विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे ॥ जेतुं पुरुषशार्दूलं शार्दूलमिव वेगितम् ॥८-५-७४॥
ध्रुवं तस्य धनुश्छिन्नं रथो वापि गतो महीम्। अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् ॥ न ह्यन्यदनुपश्यामि कारणं तस्य नाशने ॥८-५-७५॥
न हन्यामर्जुनं यावत्तावत्पादौ न धावये। इति यस्य महाघोरं व्रतमासीन्महात्मनः ॥८-५-७६॥
यस्य भीतो वने नित्यं धर्मराजो युधिष्ठिरः। त्रयोदश समा निद्रां न लेभे पुरुषर्षभः ॥८-५-७७॥
यस्य वीर्यवतो वीर्यं समाश्रित्य महात्मनः। मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात् ॥८-५-७८॥
तत्र चापि सभामध्ये पाण्डवानां च पश्यताम्। दासभार्येति पाञ्चालीमब्रवीत्कुरुसंसदि ॥८-५-७९॥
यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन्। अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत ॥८-५-८०॥
यस्य नासीद्भयं पार्थैः सपुत्रैः सजनार्दनैः। स्वबाहुबलमाश्रित्य मुहूर्तमपि सञ्जय ॥८-५-८१॥
तस्य नाहं वधं मन्ये देवैरपि सवासवैः। प्रतीपमुपधावद्भिः किं पुनस्तात पाण्डवैः ॥८-५-८२॥
न हि ज्यां स्पृशमानस्य तलत्रे चापि गृह्णतः। पुमानाधिरथेः कश्चित्प्रमुखे स्थातुमर्हति ॥८-५-८३॥
अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः। न वधः पुरुषेन्द्रस्य समरेष्वपलायिनः ॥८-५-८४॥
यदि मन्दः सहायेन भ्रात्रा दुःशासनेन च। वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचयत् ॥८-५-८५॥
स नूनमृषभस्कन्धं दृष्ट्वा कर्णं निपातितम्। दुःशासनं च निहतं मन्ये शोचति पुत्रकः ॥८-५-८६॥
हतं वैकर्तनं श्रुत्वा द्वैरथे सव्यसाचिना। जयतः पाण्डवान्दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् ॥८-५-८७॥
दुर्मर्षणं हतं श्रुत्वा वृषसेनं च संयुगे। प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः ॥८-५-८८॥
पराङ्मुखांस्तथा राज्ञः पलायनपरायणान्। विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः ॥८-५-८९॥
अनेयश्चाभिमानेन बालबुद्धिरमर्षणः। हतोत्साहं बलं दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् ॥८-५-९०॥
भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे। रुधिरं पीयमानेन किं स्विद्दुर्योधनोऽब्रवीत् ॥८-५-९१॥
सह गान्धारराजेन सभायां यदभाषत। कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत् ॥८-५-९२॥
द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान्। शकुनिः सौबलस्तात हते कर्णे किमब्रवीत् ॥८-५-९३॥
कृतवर्मा महेष्वासः सात्वतानां महारथः। कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किमभाषत ॥८-५-९४॥
ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते। धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः ॥८-५-९५॥
युवा रूपेण सम्पन्नो दर्शनीयो महायशाः। अश्वत्थामा हते कर्णे किमभाषत सञ्जय ॥८-५-९६॥
आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित्। कृपः शारद्वतस्तात हते कर्णे किमब्रवीत् ॥८-५-९७॥
मद्रराजो महेष्वासः शल्यः समितिशोभनः। दिष्टं तेन हि तत्सर्वं यथा कर्णो निपातितः ॥८-५-९८॥
ये च केचन राजानः पृथिव्यां योद्धुमागताः। वैकर्तनं हतं दृष्ट्वा किमभाषन्त सञ्जय ॥८-५-९९॥
कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे। किं वो मुखमनीकानामासीत्सञ्जय भागशः ॥८-५-१००॥
मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः। वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व सञ्जय ॥८-५-१०१॥
केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य संयुगे। वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः ॥८-५-१०२॥
के कर्णं वाजहुः शूराः के क्षुद्राः प्राद्रवन्भयात्। कथं च वः समेतानां हतः कर्णो महारथः ॥८-५-१०३॥
पाण्डवाश्च कथं शूराः प्रत्युदीयुर्महारथम्। सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम् ॥८-५-१०४॥
स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा। व्यर्थः कथं समभवत्तन्ममाचक्ष्व सञ्जय ॥८-५-१०५॥
मामकस्यास्य सैन्यस्य हृतोत्सेधस्य सञ्जय। अवशेषं न पश्यामि ककुदे मृदिते सति ॥८-५-१०६॥
तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ। भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे ॥८-५-१०७॥
न मृष्यामि च राधेयं हतमाहवशोभिनम्। यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ॥८-५-१०८॥
द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह। सङ्ग्रामे नरवीराणां तन्ममाचक्ष्व सञ्जय ॥८-५-१०९॥
यथा च कर्णः कौन्तेयैः सह युद्धमयोजयत्। यथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम् ॥८-५-११०॥