Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.007
धृतराष्ट्र उवाच॥
सेनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा। तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ॥८-७-१॥
योगमाज्ञाप्य सेनाया आदित्येऽभ्युदिते तदा। अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व सञ्जय ॥८-७-२॥
सञ्जय उवाच॥
कर्णस्य मतमाज्ञाय पुत्रस्ते भरतर्षभ। योगमाज्ञापयामास नान्दीतूर्यपुरःसरम् ॥८-७-३॥
महत्यपररात्रे तु तव पुत्रस्य मारिष। योगो योगेति सहसा प्रादुरासीन्महास्वनः ॥८-७-४॥
नागानां कल्पमानानां रथानां च वरूथिनाम्। संनह्यतां पदातीनां वाजिनां च विशां पते ॥८-७-५॥
क्रोशतां चापि योधानां त्वरितानां परस्परम्। बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्तदा ॥८-७-६॥
ततः श्वेतपताकेन बालार्काकारवाजिना। हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना ॥८-७-७॥
तूणेन शरपूर्णेन साङ्गदेन वरूथिना। शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा ॥८-७-८॥
कार्मुकेणोपपन्नेन विमलादित्यवर्चसा। रथेनातिपताकेन सूतपुत्रो व्यदृश्यत ॥८-७-९॥
धमन्तं वारिजं तात हेमजालविभूषितम्। विधुन्वानं महच्चापं कार्तस्वरविभूषितम् ॥८-७-१०॥
दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम्। भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः ॥८-७-११॥
न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष। नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ॥८-७-१२॥
ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष। कर्णो निष्कासयामास कौरवाणां वरूथिनीम् ॥८-७-१३॥
व्यूहं व्यूह्य महेष्वासो माकरं शत्रुतापनः। प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषया ॥८-७-१४॥
मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः। नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ॥८-७-१५॥
द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः। मध्ये दुर्योधनो राजा बलेन महता वृतः ॥८-७-१६॥
वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः। नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदः ॥८-७-१७॥
पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः। त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः ॥८-७-१८॥
अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः। महत्या सेनया सार्धं मद्रदेशसमुत्थया ॥८-७-१९॥
दक्षिणे तु महाराज सुषेणः सत्यसङ्गरः। वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा ॥८-७-२०॥
पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा। चित्रसेनश्च चित्रश्च महत्या सेनया वृतौ ॥८-७-२१॥
ततः प्रयाते राजेन्द्र कर्णे नरवरोत्तमे। धनञ्जयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम् ॥८-७-२२॥
पश्य पार्थ महासेनां धार्तराष्ट्रस्य संयुगे। कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः ॥८-७-२३॥
हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः। फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ॥८-७-२४॥
एको ह्यत्र महेष्वासः सूतपुत्रो व्यवस्थितः। सदेवासुरगन्धर्वैः सकिंनरमहोरगैः ॥ चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः ॥८-७-२५॥
तं हत्वाद्य महाबाहो विजयस्तव फल्गुन। उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ॥ एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ॥८-७-२६॥
भ्रातुस्तद्वचनं श्रुत्वा पाण्डवः श्वेतवाहनः। अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ॥८-७-२७॥
वामपार्श्वेऽभवद्राजन्भीमसेनो व्यवस्थितः। दक्षिणे च महेष्वासो धृष्टद्युम्नो महाबलः ॥८-७-२८॥
मध्ये व्यूहस्य साक्षात्तु पाण्डवः कृष्णसारथिः। नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः ॥८-७-२९॥
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ। नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना ॥८-७-३०॥
शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः। यथाभावं यथोत्साहं यथासत्त्वं च भारत ॥८-७-३१॥
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः। तावकाश्च महेष्वासा युद्धायैव मनो दधुः ॥८-७-३२॥
दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे। निहतान्पाण्डवान्मेने तव पुत्रः सहान्वयः ॥८-७-३३॥
तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः। धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिप ॥८-७-३४॥
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः। सहसैवाभ्यहन्यन्त सशब्दाश्च समन्ततः ॥८-७-३५॥
सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः। सिंहनादश्च सञ्जज्ञे शूराणां जयगृद्धिनाम् ॥८-७-३६॥
हयहेषितशब्दाश्च वारणानां च बृंहितम्। रथनेमिस्वनाश्चोग्राः सम्बभूवुर्जनाधिप ॥८-७-३७॥
न द्रोणव्यसनं कश्चिज्जानीते भरतर्षभ। दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ॥८-७-३८॥
उभे सेने महासत्त्वे प्रहृष्टनरकुञ्जरे। योद्धुकामे स्थिते राजन्हन्तुमन्योन्यमञ्जसा ॥८-७-३९॥
तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्योन्यं व्यवस्थितौ। अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ ॥८-७-४०॥
नृत्यमाने तु ते सेने समेयातां परस्परम्। तयोः पक्षैः प्रपक्षैश्च निर्जग्मुर्वै युयुत्सवः ॥८-७-४१॥
ततः प्रववृते युद्धं नरवारणवाजिनाम्। रथिनां च महाराज अन्योन्यं निघ्नतां दृढम् ॥८-७-४२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.