Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.008
सञ्जय उवाच॥
ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे। बृहत्यौ सम्प्रजह्राते देवासुरचमूपमे ॥८-८-१॥
ततो गजा रथाश्चाश्वाः पत्तयश्च महाहवे। सम्प्रहारं परं चक्रुर्देहपाप्मप्रणाशनम् ॥८-८-२॥
पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतः समैः। उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् ॥८-८-३॥
अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टिशैः। परश्वधैश्चाप्यकृन्तन्नुत्तमाङ्गानि युध्यताम् ॥८-८-४॥
व्यायतायतबाहूनां व्यायतायतबाहुभिः। व्यायता बाहवः पेतुश्छिन्नमुष्ट्यायुधाङ्गदाः ॥८-८-५॥
तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तदा। गरुडप्रहतैरुग्रैः पञ्चास्यैरिव पन्नगैः ॥८-८-६॥
हयस्यन्दननागेभ्यः पेतुर्वीरा द्विषद्धताः। विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस्तथा ॥८-८-७॥
गदाभिरन्यैर्गुर्वीभिः परिघैर्मुसलैरपि। पोथिताः शतशः पेतुर्वीरा वीरतरै रणे ॥८-८-८॥
रथा रथैर्विनिहता मत्ता मत्तैर्द्विपैर्द्विपाः। सादिनः सादिभिश्चैव तस्मिन्परमसङ्कुले ॥८-८-९॥
रथा वररथैर्नागैरश्वारोहाश्च पत्तिभिः। अश्वारोहैः पदाताश्च निहता युधि शेरते ॥८-८-१०॥
रथाश्वपत्तयो नागै रथैर्नागाश्च पत्तयः। रथपत्तिद्विपाश्चाश्वैर्नृभिश्चाश्वरथद्विपाः ॥८-८-११॥
रथाश्वेभनराणां च नराश्वेभरथैः कृतम्। पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् ॥८-८-१२॥
तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च। अस्मानभ्यागमन्पार्था वृकोदरपुरोगमाः ॥८-८-१३॥
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः। सात्यकिश्चेकितानश्च द्रविडैः सैनिकैः सह ॥८-८-१४॥
भृता वित्तेन महता पाण्ड्याश्चौड्राः सकेरलाः। व्यूढोरस्का दीर्घभुजाः प्रांशवः प्रियदर्शनाः ॥८-८-१५॥
आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः। नानाविरागवसना गन्धचूर्णावचूर्णिताः ॥८-८-१६॥
बद्धासयः पाशहस्ता वारणप्रतिवारणाः। समानमृत्यवो राजन्ननीकस्थाः परस्परम् ॥८-८-१७॥
कलापिनश्चापहस्ता दीर्घकेशाः प्रियाहवाः। पत्तयः सात्यकेरन्ध्रा घोररूपपराक्रमाः ॥८-८-१८॥
अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः। करूषाः कोसलाः काश्या मागधाश्चापि दुद्रुवुः ॥८-८-१९॥
तेषां रथाश्च नागाश्च प्रवराश्चापि पत्तयः। नानाविधरवैर्हृष्टा नृत्यन्ति च हसन्ति च ॥८-८-२०॥
तस्य सैन्यस्य महतो महामात्रवरैर्वृतः। मध्यं वृकोदरोऽभ्यागात्त्वदीयं नागधूर्गतः ॥८-८-२१॥
स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ। उदयाद्र्यग्र्यभवनं यथाभ्युदितभास्करम् ॥८-८-२२॥
तस्यायसं वर्मवरं वररत्नविभूषितम्। तारोद्भासस्य नभसः शारदस्य समत्विषम् ॥८-८-२३॥
स तोमरप्रासकरश्चारुमौलिः स्वलङ्कृतः। चरन्मध्यंदिनार्काभस्तेजसा व्यदहद्रिपून् ॥८-८-२४॥
तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थितः। आह्वयानोऽभिदुद्राव प्रमनाः प्रमनस्तरम् ॥८-८-२५॥
तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः। यदृच्छया द्रुमवतोर्महापर्वतयोरिव ॥८-८-२६॥
संसक्तनागौ तौ वीरौ तोमरैरितरेतरम्। बलवत्सूर्यरश्म्याभैर्भित्त्वा भित्त्वा विनेदतुः ॥८-८-२७॥
व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः। प्रगृह्य चैव धनुषी जघ्नतुर्वै परस्परम् ॥८-८-२८॥
क्ष्वेडितास्फोटितरवैर्बाणशब्दैश्च सर्वशः। तौ जनान्हर्षयित्वा च सिंहनादान्प्रचक्रतुः ॥८-८-२९॥
समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ। वातोद्धूतपताकाभ्यां युयुधाते महाबलौ ॥८-८-३०॥
तावन्योन्यस्य धनुषी छित्त्वान्योन्यं विनेदतुः। शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः ॥८-८-३१॥
क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे। निर्बिभेद तु वेगेन षड्भिश्चाप्यपरैर्नदन् ॥८-८-३२॥
स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः। क्रोधदीप्तवपुर्मेघैः सप्तसप्तिरिवांशुमान् ॥८-८-३३॥
ततो भास्करवर्णाभमञ्जोगतिमयस्मयम्। ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् ॥८-८-३४॥
ततः कुलूताधिपतिश्चापमायम्य सायकैः। दशभिस्तोमरं छित्त्वा शक्त्या विव्याध पाण्डवम् ॥८-८-३५॥
अथ कार्मुकमादाय महाजलदनिस्वनम्। रिपोरभ्यर्दयन्नागमुन्मदः पाण्डवः शरैः ॥८-८-३६॥
स शरौघार्दितो नागो भीमसेनेन संयुगे। निगृह्यमाणो नातिष्ठद्वातध्वस्त इवाम्बुदः ॥८-८-३७॥
तामभ्यधावद्द्विरदं भीमसेनस्य नागराट्। महावातेरितं मेघं वातोद्धूत इवाम्बुदः ॥८-८-३८॥
संनिवर्त्यात्मनो नागं क्षेमधूर्तिः प्रयत्नतः। विव्याधाभिद्रुतं बाणैर्भीमसेनं सकुञ्जरम् ॥८-८-३९॥
ततः साधुविसृष्टेन क्षुरेण पुरुषर्षभः। छित्त्वा शरासनं शत्रोर्नागमामित्रमार्दयत् ॥८-८-४०॥
ततः खजाकया भीमं क्षेमधूर्तिः पराभिनत्। जघान चास्य द्विरदं नाराचैः सर्वमर्मसु ॥८-८-४१॥
पुरा नागस्य पतनादवप्लुत्य स्थितो महीम्। भीमसेनो रिपोर्नागं गदया समपोथयत् ॥८-८-४२॥
तस्मात्प्रमथितान्नागात्क्षेमधूर्तिमवद्रुतम्। उद्यतासिमुपायान्तं गदयाहन्वृकोदरः ॥८-८-४३॥
स पपात हतः सासिर्व्यसुः स्वमभितो द्विपम्। वज्रप्ररुग्णमचलं सिंहो वज्रहतो यथा ॥८-८-४४॥
निहतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम्। प्राद्रवद्व्यथिता सेना त्वदीया भरतर्षभ ॥८-८-४५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.