Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.009
सञ्जय उवाच॥
ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम्। जघान समरे शूरः शरैः संनतपर्वभिः ॥८-९-१॥
तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम्। कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः ॥८-९-२॥
कर्णो राजन्महाबाहुर्न्यवधीत्पाण्डवीं चमूम्। नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः ॥८-९-३॥
तत्र भारत कर्णेन नाराचैस्ताडिता गजाः। नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश ॥८-९-४॥
वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष। नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे ॥८-९-५॥
भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम्। विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् ॥८-९-६॥
श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः। प्रतिविन्ध्यं तथा चित्रश्चित्रकेतनकार्मुकः ॥८-९-७॥
दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम्। संशप्तकगणान्क्रुद्धो अभ्यधावद्धनञ्जयः ॥८-९-८॥
धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षये। शिखण्डी कृतवर्माणं समासादयदच्युतम् ॥८-९-९॥
श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव। दुःशासनं महाराज सहदेवः प्रतापवान् ॥८-९-१०॥
केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता। सात्यकिः केकयौ चैव छादयामास भारत ॥८-९-११॥
तावेनं भ्रातरौ वीरं जघ्नतुर्हृदये भृशम्। विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे ॥८-९-१२॥
शरसम्भिन्नवर्माणौ तावुभौ भ्रातरौ रणे। सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः ॥८-९-१३॥
तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशम्। छादयञ्शरवर्षेण वारयामास भारत ॥८-९-१४॥
वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः। शैनेयस्य रथं तूर्णं छादयामासतुः शरैः ॥८-९-१५॥
तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे। अथ तौ सायकैस्तीक्ष्णैश्छादयामास दुःसहैः ॥८-९-१६॥
अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान्। सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च ॥८-९-१७॥
ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः। द्योतयन्तो दिशः सर्वाः सम्पेतुः स्वर्णभूषणाः ॥८-९-१८॥
बाणान्धकारमभवत्तयो राजन्महाहवे। अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः ॥८-९-१९॥
ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः। धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे ॥ क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत् ॥८-९-२०॥
तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत्। शम्बरस्य शिरो यद्वन्निहतस्य महारणे ॥
तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः। सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत् ॥८-९-२२॥
स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः। ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत् ॥८-९-२३॥
स सात्यकिं पुनः क्रुद्धः केकयानां महारथः। शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत् ॥८-९-२४॥
स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः। रराज समरे राजन्सपत्र इव किंशुकः ॥८-९-२५॥
सात्यकिः समरे विद्धः केकयेन महात्मना। केकयं पञ्चविंशत्या विव्याध प्रहसन्निव ॥८-९-२६॥
शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ। व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ ॥८-९-२७॥
यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ ॥८-९-२७॥
मण्डलानि ततस्तौ च विचरन्तौ महारणे। अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे ॥८-९-२८॥
केकयस्य ततश्चर्म द्विधा चिच्छेद सात्वतः। सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः ॥८-९-२९॥
चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम्। चचार मण्डलान्येव गतप्रत्यागतानि च ॥८-९-३०॥
तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम्। अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः ॥८-९-३१॥
सवर्मा केकयो राजन्द्विधा छिन्नो महाहवे। निपपात महेष्वासो वज्रनुन्न इवाचलः ॥८-९-३२॥
तं निहत्य रणे शूरः शैनेयो रथसत्तमः। युधामन्यो रथं तूर्णमारुरोह परन्तपः ॥८-९-३३॥
ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः। केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः ॥८-९-३४॥
सा वध्यमाना समरे केकयस्य महाचमूः। तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश ॥८-९-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.