Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.012
धृतराष्ट्र उवाच॥
यथा संशप्तकैः सार्धमर्जुनस्याभवद्रणः। अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे ॥८-१२-१॥
सञ्जय उवाच॥
शृणु राजन्यथावृत्तं सङ्ग्रामं ब्रुवतो मम। वीराणां शत्रुभिः सार्धं देहपाप्मप्रणाशनम् ॥८-१२-२॥
पार्थः संशप्तकगणं प्रविश्यार्णवसंनिभम्। व्यक्षोभयदमित्रघ्नो महावात इवार्णवम् ॥८-१२-३॥
शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनञ्जयः। पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च ॥ सन्तस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव ॥८-१२-४॥
सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान्। सायुधान्सतनुत्राणान्पञ्चास्योरगसंनिभान् ॥ बाहून्क्षुरैरमित्राणां विचकर्तार्जुनो रणे ॥८-१२-५॥
धुर्यान्धुर्यतरान्सूतान्ध्वजांश्चापानि सायकान्। पाणीनरत्नीनसकृद्भल्लैश्चिच्छेद पाण्डवः ॥८-१२-६॥
द्विपान्हयान्रथांश्चैव सारोहानर्जुनो रणे। शरैरनेकसाहस्रै राजन्निन्ये यमक्षयम् ॥८-१२-७॥
तं प्रवीरं प्रतीयाता नर्दमाना इवर्षभाः। वाशितार्थमभिक्रुद्धा हुङ्कृत्वा चाभिदुद्रुवुः ॥ निघ्नन्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः ॥८-१२-८॥
तस्य तेषां च तद्युद्धमभवल्लोमहर्षणम्। त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ॥८-१२-९॥
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः। इषुभिर्बहुभिस्तूर्णं विद्ध्वा प्राणान्ररास सः ॥८-१२-१०॥
छिन्नत्रिवेणुचक्राक्षान्हतयोधाश्वसारथीन्। विध्वस्तायुधतूणीरान्समुन्मथितकेतनान् ॥८-१२-११॥
सञ्छिन्नयोक्त्ररश्मीकान्वित्रिवेणून्विकूबरान्। विध्वस्तबन्धुरयुगान्विशस्तायुधमण्डलान् ॥ रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः ॥८-१२-१२॥
विस्मापयन्प्रेक्षणीयं द्विषातां भयवर्धनम्। महारथसहस्रस्य समं कर्मार्जुनोऽकरोत् ॥८-१२-१३॥
सिद्धदेवर्षिसङ्घाश्च चारणाश्चैव तुष्टुवुः। देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् ॥ केशवार्जुनयोर्मूर्ध्नि प्राह वाक्चाशरीरिणी ॥८-१२-१४॥
चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिबलद्युतीः। यौ सदा बिभ्रतुर्वीरौ ताविमौ केशवार्जुनौ ॥८-१२-१५॥
ब्रह्मेशानाविवाजय्यौ वीरावेकरथे स्थितौ। सर्वभूतवरौ वीरौ नरनारायणावुभौ ॥८-१२-१६॥
इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत। अश्वत्थामा सुसंयत्तः कृष्णावभ्यद्रवद्रणे ॥८-१२-१७॥
अथ पाण्डवमस्यन्तं यमकालान्तकाञ्शरान्। सेषुणा पाणिनाहूय हसन्द्रौणिरथाब्रवीत् ॥८-१२-१८॥
यदि मां मन्यसे वीर प्राप्तमर्हमिवातिथिम्। ततः सर्वात्मनाद्य त्वं युद्धातिथ्यं प्रयच्छ मे ॥८-१२-१९॥
एवमाचार्यपुत्रेण समाहूतो युयुत्सया। बहु मेनेऽर्जुनोऽऽत्मानमिदं चाह जनार्दनम् ॥८-१२-२०॥
संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम्। यदत्रानन्तरं प्राप्तं प्रशाधि त्वं महाभुज ॥८-१२-२१॥
एवमुक्तोऽवहत्पार्थं कृष्णो द्रोणात्मजान्तिकम्। जैत्रेण विधिनाहूतं वायुरिन्द्रमिवाध्वरे ॥८-१२-२२॥
तमामन्त्र्यैकमनसा केशवो द्रौणिमब्रवीत्। अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च ॥८-१२-२३॥
निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम्। सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ ॥८-१२-२४॥
यां न सङ्क्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम्। तामाप्तुमिच्छन्युध्यस्व स्थिरो भूत्वाद्य पाण्डवम् ॥८-१२-२५॥
इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः। विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः ॥८-१२-२६॥
तस्यार्जुनः सुसङ्क्रुद्धस्त्रिभिर्भल्लैः शरासनम्। चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः ॥८-१२-२७॥
सज्यं कृत्वा निमेषात्तद्विव्याधार्जुनकेशवौ। त्रिभिः शरैर्वासुदेवं सहस्रेण च पाण्डवम् ॥८-१२-२८॥
ततः शरसहस्राणि प्रयुतान्यर्बुदानि च। ससृजे द्रौणिरायस्तः संस्तभ्य च रणेऽर्जुनम् ॥८-१२-२९॥
इषुधेर्धनुषो ज्याया अङ्गुलीभ्यश्च मारिष। बाह्वोः कराभ्यामुरसो वदनघ्राणनेत्रतः ॥८-१२-३०॥
कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्त्मभ्य एव च। रथध्वजेभ्यश्च शरा निष्पेतुर्ब्रह्मवादिनः ॥८-१२-३१॥
शरजालेन महता विद्ध्वा केशवपाण्डवौ। ननाद मुदितो द्रौणिर्महामेघौघनिस्वनः ॥८-१२-३२॥
तस्य नानदतः श्रुत्वा पाण्डवोऽच्युतमब्रवीत्। पश्य माधव दौरात्म्यं द्रोणपुत्रस्य मां प्रति ॥८-१२-३३॥
वधप्राप्तौ मन्यते नौ प्रवेश्य शरवेश्मनि। एषोऽस्य हन्मि सङ्कल्पं शिक्षया च बलेन च ॥८-१२-३४॥
अश्वत्थाम्नः शरानस्तांश्छित्त्वैकैकं त्रिधा त्रिधा। व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः ॥८-१२-३५॥
ततः संशप्तकान्भूयः साश्वसूतरथद्विपान्। ध्वजपत्तिगणानुग्रैर्बाणैर्विव्याध पाण्डवः ॥८-१२-३६॥
ये ये ददृशिरे तत्र यद्यद्रूपं यथा यथा। ते ते तत्तच्छरैर्व्याप्तं मेनिरेऽऽत्मानमेव च ॥८-१२-३७॥
ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः। क्रोशे साग्रे स्थितान्घ्नन्ति द्विपांश्च पुरुषान्रणे ॥८-१२-३८॥
भल्लैश्छिन्नाः कराः पेतुः करिणां मदकर्षिणाम्। छिन्ना यथा परशुभिः प्रवृद्धाः शरदि द्रुमाः ॥८-१२-३९॥
पश्चात्तु शैलवत्पेतुस्ते गजाः सह सादिभिः। वज्रिवज्रप्रमथिता यथैवाद्रिचयास्तथा ॥८-१२-४०॥
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान्। विनीतजवनान्युक्तानास्थितान्युद्धदुर्मदान् ॥८-१२-४१॥
शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत्। अलङ्कृतानश्वसादीन्पत्तींश्चाहन्धनञ्जयः ॥८-१२-४२॥
धनञ्जययुगान्तार्कः संशप्तकमहार्णवम्। व्यशोषयत दुःशोषं तीव्रैः शरगभस्तिभिः ॥८-१२-४३॥
पुनर्द्रौणिमहाशैलं नाराचैः सूर्यसंनिभैः। निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम् ॥८-१२-४४॥
तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः। युयुत्सुर्नाशकद्योद्धुं पार्थस्तानन्तराच्छिनत् ॥८-१२-४५॥
ततः परमसङ्क्रुद्धः काण्डकोशानवासृजत्। अश्वत्थामाभिरूपाय गृहानतिथये यथा ॥८-१२-४६॥
अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात्। अपाङ्क्तेयमिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम् ॥८-१२-४७॥
ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः। नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव ॥८-१२-४८॥
सन्तापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः। लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव ॥८-१२-४९॥
ततोऽविध्यद्भ्रुवोर्मध्ये नाराचेनार्जुनो भृशम्। स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः ॥८-१२-५०॥
अथ कृष्णौ शरशतैरश्वत्थाम्नार्दितौ भृशम्। सरश्मिजालनिकरौ युगान्तार्काविवासतुः ॥८-१२-५१॥
ततोऽर्जुनः सर्वतोधारमस्त्र; मवासृजद्वासुदेवाभिगुप्तः। द्रौणायनिं चाभ्यहनत्पृषत्कै; र्वज्राग्निवैवस्वतदण्डकल्पैः ॥८-१२-५२॥
स केशवं चार्जुनं चातितेजा; विव्याध मर्मस्वतिरौद्रकर्मा। बाणैः सुमुक्तैरतितीव्रवेगै; र्यैराहतो मृत्युरपि व्यथेत ॥८-१२-५३॥
द्रौणेरिषूनर्जुनः संनिवार्य; व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः। तं साश्वसूतध्वजमेकवीर; मावृत्य संशप्तकसैन्यमार्छत् ॥८-१२-५४॥
धनूंषि बाणानिषुधीर्धनुर्ज्याः; पाणीन्भुजान्पाणिगतं च शस्त्रम्। छत्राणि केतूंस्तुरगानथैषां; वस्त्राणि माल्यान्यथ भूषणानि ॥८-१२-५५॥
चर्माणि वर्माणि मनोरथांश्च; प्रियाणि सर्वाणि शिरांसि चैव। चिच्छेद पार्थो द्विषतां प्रमुक्तै; र्बाणैः स्थितानामपराङ्मुखानाम् ॥८-१२-५६॥
सुकल्पिताः स्यन्दनवाजिनागाः; समास्थिताः कृतयत्नैर्नृवीरैः। पार्थेरितैर्बाणगणैर्निरस्ता; स्तैरेव सार्धं नृवरैर्निपेतुः ॥८-१२-५७॥
पद्मार्कपूर्णेन्दुसमाननानि; किरीटमालामुकुटोत्कटानि। भल्लार्धचन्द्रक्षुरहिंसितानि; प्रपेतुरुर्व्यां नृशिरांस्यजस्रम् ॥८-१२-५८॥
अथ द्विपैर्देवपतिद्विपाभै; र्देवारिदर्पोल्बणमन्युदर्पैः। कलिङ्गवङ्गाङ्गनिषादवीरा; जिघांसवः पाण्डवमभ्यधावन् ॥८-१२-५९॥
तेषां द्विपानां विचकर्त पार्थो; वर्माणि मर्माणि करान्नियन्तॄन्। ध्वजाः पताकाश्च ततः प्रपेतु; र्वज्राहतानीव गिरेः शिरांसि ॥८-१२-६०॥
तेषु प्ररुग्णेषु गुरोस्तनूजं; बाणैः किरीटी नवसूर्यवर्णैः। प्रच्छादयामास महाभ्रजालै; र्वायुः समुद्युक्तमिवांशुमन्तम् ॥८-१२-६१॥
ततोऽर्जुनेषूनिषुभिर्निरस्य; द्रौणिः शरैरर्जुनवासुदेवौ। प्रच्छादयित्व दिवि चन्द्रसूर्यौ; ननाद सोऽम्भोद इवातपान्ते ॥८-१२-६२॥
तमर्जुनस्तांश्च पुनस्त्वदीया; नभ्यर्दितस्तैरविकृत्तशस्त्रैः। बाणान्धकारं सहसैव कृत्वा; विव्याध सर्वानिषुभिः सुपुङ्खैः ॥८-१२-६३॥
नाप्याददत्संदधन्नैव मुञ्च; न्बाणान्रणेऽदृश्यत सव्यसाची। हतांश्च नागांस्तुरगान्पदाती; न्संस्यूतदेहान्ददृशू रथांश्च ॥८-१२-६४॥
सन्धाय नाराचवरान्दशाशु; द्रौणिस्त्वरन्नेकमिवोत्ससर्ज। तेषां च पञ्चार्जुनमभ्यविध्य; न्पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः ॥८-१२-६५॥
तैराहतौ सर्वमनुष्यमुख्या; वसृक्क्षरन्तौ धनदेन्द्रकल्पौ। समाप्तविद्येन यथाभिभूतौ; हतौ स्विदेतौ किमु मेनिरेऽन्ये ॥८-१२-६६॥
अथार्जुनं प्राह दशार्हनाथः; प्रमाद्यसे किं जहि योधमेतम्। कुर्याद्धि दोषं समुपेक्षितोऽसौ; कष्टो भवेद्व्याधिरिवाक्रियावान् ॥८-१२-६७॥
तथेति चोक्त्वाच्युतमप्रमादी; द्रौणिं प्रयत्नादिषुभिस्ततक्ष। छित्त्वाश्वरश्मींस्तुरगानविध्य; त्ते तं रणादूहुरतीव दूरम् ॥८-१२-६८॥
आवृत्य नेयेष पुनस्तु युद्धं; पार्थेन सार्धं मतिमान्विमृश्य। जानञ्जयं नियतं वृष्णिवीरे; धनञ्जये चाङ्गिरसां वरिष्ठः ॥८-१२-६९॥
प्रतीपकाये तु रणादश्वत्थाम्नि हृते हयैः। मन्त्रौषधिक्रियादानैर्व्याधौ देहादिवाहृते ॥८-१२-७०॥
संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ। वातोद्धूतपताकेन स्यन्दनेनौघनादिना ॥८-१२-७१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.