Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.011
Core and Pancharatra: Intense encounter between Bhima and Ashwatthama, where both fought equally well, and both became unconscious and were taken away.
सञ्जय उवाच॥
भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा। त्वरया परया युक्तो दर्शयन्नस्त्रलाघवम् ॥८-११-१॥
अथैनं पुनराजघ्ने नवत्या निशितैः शरैः। सर्वमर्माणि सम्प्रेक्ष्य मर्मज्ञो लघुहस्तवत् ॥८-११-२॥
भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः। रराज समरे राजन्रश्मिवानिव भास्करः ॥८-११-३॥
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः। द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत ॥८-११-४॥
शरैः शरांस्ततो द्रौणिः संवार्य युधि पाण्डवम्। ललाटेऽभ्यहनद्राजन्नाराचेन स्मयन्निव ॥८-११-५॥
ललाटस्थं ततो बाणं धारयामास पाण्डवः। यथा शृङ्गं वने दृप्तः खड्गो धारयते नृप ॥८-११-६॥
ततो द्रौणिं रणे भीमो यतमानं पराक्रमी। त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव ॥८-११-७॥
ललाटस्थैस्ततो बाणैर्ब्राह्मणः स व्यरोचत। प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः ॥८-११-८॥
ततः शरशतैर्द्रौणिमर्दयामास पाण्डवः। न चैनं कम्पयामास मातरिश्वेव पर्वतम् ॥८-११-९॥
तथैव पाण्डवं युद्धे द्रौणिः शरशतैः शितैः। नाकम्पयत संहृष्टो वार्योघ इव पर्वतम् ॥८-११-१०॥
तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ। रथचर्यागतौ शूरौ शुशुभाते रणोत्कटौ ॥८-११-११॥
आदित्याविव संदीप्तौ लोकक्षयकरावुभौ। स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः ॥८-११-१२॥
कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे। कृतप्रतिकृते यत्नं चक्राते तावभीतवत् ॥८-११-१३॥
व्याघ्राविव च सङ्ग्रामे चेरतुस्तौ महारथौ। शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ ॥८-११-१४॥
अभूतां तावदृश्यौ च शरजालैः समन्ततः। मेघजालैरिव च्छन्नौ गगने चन्द्रभास्करौ ॥८-११-१५॥
प्रकाशौ च मुहूर्तेन तत्रैवास्तामरिंदमौ। विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि ॥८-११-१६॥
अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम्। किरञ्शरशतैरुग्रैर्धाराभिरिव पर्वतम् ॥८-११-१७॥
न तु तन्ममृषे भीमः शत्रोर्विजयलक्षणम्। प्रतिचक्रे च तं राजन्पाण्डवोऽप्यपसव्यतः ॥८-११-१८॥
मण्डलानां विभागेषु गतप्रत्यागतेषु च। बभूव तुमुलं युद्धं तयोस्तत्र महामृधे ॥८-११-१९॥
चरित्वा विविधान्मार्गान्मण्डलं स्थानमेव च। शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥८-११-२०॥
अन्योन्यस्य वधे यत्नं चक्रतुस्तौ महारथौ। ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे ॥८-११-२१॥
ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः। तान्यस्त्रैरेव समरे प्रतिजघ्नेऽस्य पाण्डवः ॥८-११-२२॥
ततो घोरं महाराज अस्त्रयुद्धमवर्तत। ग्रहयुद्धं यथा घोरं प्रजासंहरणे अभूत् ॥८-११-२३॥
ते बाणाः समसज्जन्त क्षिप्तास्ताभ्यां तु भारत। द्योतयन्तो दिशः सर्वास्तच्च सैन्यं समन्ततः ॥८-११-२४॥
बाणसङ्घावृतं घोरमाकाशं समपद्यत। उक्लापातकृतं यद्वत्प्रजानां सङ्क्षये नृप ॥८-११-२५॥
बाणाभिघातात्सञ्जज्ञे तत्र भारत पावकः। सविस्फुलिङ्गो दीप्तार्चिः सोऽदहद्वाहिनीद्वयम् ॥८-११-२६॥
तत्र सिद्धा महाराज सम्पतन्तोऽब्रुवन्वचः। अति युद्धानि सर्वाणि युद्धमेतत्ततोऽधिकम् ॥८-११-२७॥
सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम्। नैतादृशं पुनर्युद्धं न भूतं न भविष्यति ॥८-११-२८॥
अहो ज्ञानेन संयुक्तावुभौ चोग्रपराक्रमौ। अहो भीमे बलं भीममेतयोश्च कृतास्त्रता ॥८-११-२९॥
अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः। स्थितावेतौ हि समरे कालान्तकयमोपमौ ॥८-११-३०॥
रुद्रौ द्वाविव सम्भूतौ यथा द्वाविव भास्करौ। यमौ वा पुरुषव्याघ्रौ घोररूपाविमौ रणे ॥८-११-३१॥
श्रूयन्ते स्म तदा वाचः सिद्धानां वै मुहुर्मुहुः। सिंहनादश्च सञ्जज्ञे समेतानां दिवौकसाम् ॥ अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयोर्मृधे ॥८-११-३२॥
तौ शूरौ समरे राजन्परस्परकृतागसौ। परस्परमुदैक्षेतां क्रोधादुद्वृत्य चक्षुषी ॥८-११-३३॥
क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ। क्रोधात्संदष्टदशनौ संदष्टदशनच्छदौ ॥८-११-३४॥
अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ। शराम्बुधारौ समरे शस्त्रविद्युत्प्रकाशिनौ ॥८-११-३५॥
तावन्योन्यं ध्वजौ विद्ध्वा सारथी च महारथौ। अन्योन्यस्य हयान्विद्ध्वा बिभिदाते परस्परम् ॥८-११-३६॥
ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे। उभौ चिक्षिपतुस्तूर्णमन्योन्यस्य वधैषिणौ ॥८-११-३७॥
तौ सायकौ महाराज द्योतमानौ चमूमुखे। आजघ्नाते समासाद्य वज्रवेगौ दुरासदौ ॥८-११-३८॥
तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ। निपेततुर्महावीरौ स्वरथोपस्थयोस्तदा ॥८-११-३९॥
ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम्। अपोवाह रणाद्राजन्सर्वक्षत्रस्य पश्यतः ॥८-११-४०॥
तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः। अपोवाह रथेनाजौ सारथिः शत्रुतापनम् ॥८-११-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.