Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.013
सञ्जय उवाच॥
अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः। रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् ॥८-१३-१॥
निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत्। वाहयन्नेव तुरगान्गरुडानिलरंहसः ॥८-१३-२॥
मागधोऽथाप्यतिक्रान्तो द्विरदेन प्रमाथिना। भगदत्तादनवरः शिक्षया च बलेन च ॥८-१३-३॥
एनं हत्वा निहन्तासि पुनः संशप्तकानिति। वाक्यान्ते प्रापयत्पार्थं दण्डधारान्तिकं प्रति ॥८-१३-४॥
स मागधानां प्रवरोऽङ्कुशग्रहो; ग्रहेष्वसह्यो विकचो यथा ग्रहः। सपत्नसेनां प्रममाथ दारुणो; महीं समग्रां विकचो यथा ग्रहः ॥८-१३-५॥
सुकल्पितं दानवनागसंनिभं; महाभ्रसंह्रादममित्रमर्दनम्। रथाश्वमातङ्गगणान्सहस्रशः; समास्थितो हन्ति शरैर्द्विपानपि ॥८-१३-६॥
रथानधिष्ठाय सवाजिसारथी; न्रथांश्च पद्भिस्त्वरितो व्यपोथयत्। द्विपांश्च पद्भ्यां चरणैः करेण च; द्विपास्थितो हन्ति स कालचक्रवत् ॥८-१३-७॥
नरांश्च कार्ष्णायसवर्मभूषणा; न्निपात्य साश्वानपि पत्तिभिः सह। व्यपोथयद्दन्तिवरेण शुष्मिणा; सशब्दवत्स्थूलनडान्यथा तथा ॥८-१३-८॥
अथार्जुनो ज्यातलनेमिनिस्वने; मृदङ्गभेरीबहुशङ्खनादिते। नराश्वमातङ्गसहस्रनादितै; रथोत्तमेनाभ्यपतद्द्विपोत्तमम् ॥८-१३-९॥
ततोऽर्जुनं द्वादशभिः शरोत्तमै; र्जनार्दनं षोडशभिः समार्दयत्। स दण्डधारस्तुरगांस्त्रिभिस्त्रिभि; स्ततो ननाद प्रजहास चासकृत् ॥८-१३-१०॥
ततोऽस्य पार्थः सगुणेषुकार्मुकं; चकर्त भल्लैर्ध्वजमप्यलङ्कृतम्। पुनर्नियन्तॄन्सह पादगोप्तृभि; स्ततस्तु चुक्रोध गिरिव्रजेश्वरः ॥८-१३-११॥
ततोऽर्जुनं भिन्नकटेन दन्तिना; घनाघनेनानिलतुल्यरंहसा। अतीव चुक्षोभयिषुर्जनार्दनं; धनञ्जयं चाभिजघान तोमरैः ॥८-१३-१२॥
अथास्य बाहू द्विपहस्तसंनिभौ; शिरश्च पूर्णेन्दुनिभाननं त्रिभिः। क्षुरैः प्रचिच्छेद सहैव पाण्डव; स्ततो द्विपं बाणशतैः समार्दयत् ॥८-१३-१३॥
स पार्थबाणैस्तपनीयभूषणैः; समारुचत्काञ्चनवर्मभृद्द्विपः। तथा चकाशे निशि पर्वतो यथा; दवाग्निना प्रज्वलितौषधिद्रुमः ॥८-१३-१४॥
स वेदनार्तोऽम्बुदनिस्वनो नदं; श्चलन्भ्रमन्प्रस्खलितोऽऽतुरो द्रवन्। पपात रुग्णः सनियन्तृकस्तथा; यथा गिरिर्वज्रनिपातचूर्णितः ॥८-१३-१५॥
हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिना। हते रणे भ्रातरि दण्ड आव्रज; ज्जिघांसुरिन्द्रावरजं धनञ्जयम् ॥८-१३-१६॥
स तोमरैरर्ककरप्रभैस्त्रिभि; र्जनार्दनं पञ्चभिरेव चार्जुनम्। समर्पयित्वा विननाद चार्दयं; स्ततोऽस्य बाहू विचकर्त पाण्डवः ॥८-१३-१७॥
क्षुरप्रकृत्तौ सुभृशं सतोमरौ; च्युताङ्गदौ चन्दनरूषितौ भुजौ। गजात्पतन्तौ युगपद्विरेजतु; र्यथाद्रिशृङ्गात्पतितौ महोरगौ ॥८-१३-१८॥
अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः क्षितिं द्विपात्। तच्छोणिताभं निपतद्विरेजे; दिवाकरोऽस्तादिव पश्चिमां दिशम् ॥८-१३-१९॥
अथ द्विपं श्वेतनगाग्रसंनिभं; दिवाकरांशुप्रतिमैः शरोत्तमैः। बिभेद पार्थः स पपात नानद; न्हिमाद्रिकूटः कुलिशाहतो यथा ॥८-१३-२०॥
ततोऽपरे तत्प्रतिमा गजोत्तमा; जिगीषवः संयति सव्यसाचिनम्। तथा कृतास्तेन यथैव तौ द्विपौ; ततः प्रभग्नं सुमहद्रिपोर्बलम् ॥८-१३-२१॥
गजा रथाश्वाः पुरुषाश्च सङ्घशः; परस्परघ्नाः परिपेतुराहवे। परस्परप्रस्खलिताः समाहता; भृशं च तत्तत्कुलभाषिणो हताः ॥८-१३-२२॥
अथार्जुनं स्वे परिवार्य सैनिकाः; पुरंदरं देवगणा इवाब्रुवन्। अभैष्म यस्मान्मरणादिव प्रजाः; स वीर दिष्ट्या निहतस्त्वया रिपुः ॥८-१३-२३॥
न चेत्परित्रास्य इमाञ्जनान्भया; द्द्विषद्भिरेवं बलिभिः प्रपीडितान्। तथाभविष्यद्द्विषतां प्रमोदनं; यथा हतेष्वेष्विह नोऽरिषु त्वया ॥८-१३-२४॥
इतीव भूयश्च सुहृद्भिरीरिता; निशम्य वाचः सुमनास्ततोऽर्जुनः। यथानुरूपं प्रतिपूज्य तं जनं; जगाम संशप्तकसङ्घहा पुनः ॥८-१३-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.