Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.014
सञ्जय उवाच॥
प्रत्यागत्य पुनर्जिष्णुरहन्संशप्तकान्बहून्। वक्रानुवक्रगमनादङ्गारक इव ग्रहः ॥८-१४-१॥
पार्थबाणहता राजन्नराश्वरथकुञ्जराः। विचेलुर्बभ्रमुर्नेदुः पेतुर्मम्लुश्च मारिष ॥८-१४-२॥
धुर्यं धुर्यतरान्सूतान्रथांश्च परिसङ्क्षिपन्। पाणीन्पाणिगतं शस्त्रं बाहूनपि शिरांसि च ॥८-१४-३॥
भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः। चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम् ॥८-१४-४॥
वाशितार्थे युयुत्सन्तो वृषभा वृषभं यथा। आपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः ॥८-१४-५॥
तेषां तस्य च तद्युद्धमभवल्लोमहर्षणम्। त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ॥८-१४-६॥
तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः। उग्रायुधस्ततस्तस्य शिरः कायादपाहरत् ॥८-१४-७॥
तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन्। मरुद्भिः प्रेषिता मेघा हिमवन्तमिवोष्णगे ॥८-१४-८॥
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः। सम्यगस्तैः शरैः सर्वान्सहितानहनद्बहून् ॥८-१४-९॥
छिन्नत्रिवेणुजङ्घेषान्निहतपार्ष्णिसारथीन्। सञ्छिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान् ॥ विध्वस्तसर्वसंनाहान्बाणैश्चक्रेऽर्जुनस्त्वरन् ॥८-१४-१०॥
ते रथास्तत्र विध्वस्ताः परार्ध्या भान्त्यनेकशः। धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः ॥८-१४-११॥
द्विपाः सम्भिन्नमर्माणो वज्राशनिसमैः शरैः। पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा ॥८-१४-१२॥
सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः। निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः ॥८-१४-१३॥
नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना। बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष ॥८-१४-१४॥
अणकैश्च शिलाधौतैर्वज्राशनिविषोपमैः। शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान् ॥८-१४-१५॥
महार्हवर्माभरणा नानारूपाम्बरायुधाः। सरथाः सध्वजा वीरा हताः पार्थेन शेरते ॥८-१४-१६॥
विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः। गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम् ॥८-१४-१७॥
अथार्जुनरथं वीरास्त्वदीयाः समुपाद्रवन्। नानाजनपदाध्यक्षाः सगणा जातमन्यवः ॥८-१४-१८॥
उह्यमाना रथाश्वैस्ते पत्तयश्च जिघांसवः। समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम् ॥८-१४-१९॥
तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः। व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः ॥८-१४-२०॥
साश्वपत्तिद्विपरथं महाशस्त्रौघमप्लवम्। सहसा सन्तितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना ॥८-१४-२१॥
अथाब्रवीद्वासुदेवः पार्थं किं क्रीडसेऽनघ। संशप्तकान्प्रमथ्यैतांस्ततः कर्णवधे त्वर ॥८-१४-२२॥
तथेत्युक्त्वार्जुनः क्षिप्रं शिष्टान्संशप्तकांस्तदा। आक्षिप्य शस्त्रेण बलाद्दैत्यानिन्द्र इवावधीत् ॥८-१४-२३॥
आदधत्संदधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः। विमुञ्चन्वा शराञ्शीघ्रं दृश्यते स्म हि कैरपि ॥८-१४-२४॥
आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत्। हंसांसगौरास्ते सेनां हंसाः सर इवाविशन् ॥८-१४-२५॥
ततः सङ्ग्रामभूमिं तां वर्तमाने जनक्षये। अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत् ॥८-१४-२६॥
एष पार्थ महारौद्रो वर्तते भरतक्षयः। पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् ॥८-१४-२७॥
पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम्। महतामपविद्धानि कलापानिषुधीस्तथा ॥८-१४-२८॥
जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः। तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान् ॥८-१४-२९॥
हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान्। आकीर्णांस्तोमरांश्चापांश्चित्रान्हेमविभूषितान् ॥८-१४-३०॥
वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत। सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः ॥८-१४-३१॥
जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः। जातरूपमयीश्चर्ष्टीः पट्टिशान्हेमभूषितान् ॥८-१४-३२॥
दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान्। अयस्कुशान्तान्पतितान्मुसलानि गुरूणि च ॥८-१४-३३॥
शतघ्नीः पश्य चित्राश्च विपुलान्परिघांस्तथा। चक्राणि चापविद्धानि मुद्गरांश्च बहून्रणे ॥८-१४-३४॥
नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः। जीवन्त इव लक्ष्यन्ते गतसत्त्वास्तरस्विनः ॥८-१४-३५॥
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान्। गजवाजिरथक्षुण्णान्पश्य योधान्सहस्रशः ॥८-१४-३६॥
मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः। निस्त्रिंशैः पट्टिशैः प्रासैर्नखरैर्लगुडैरपि ॥८-१४-३७॥
शरीरैर्बहुधा भिन्नैः शोणितौघपरिप्लुतैः। गतासुभिरमित्रघ्न संवृता रणभूमयः ॥८-१४-३८॥
बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः। सतलत्रैः सकेयूरैर्भाति भारत मेदिनी ॥८-१४-३९॥
साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलङ्कृतैः। हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥८-१४-४०॥
बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः। निकृत्तैर्वृषभाक्षाणां विराजति वसुन्धरा ॥८-१४-४१॥
कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः। भूर्भाति भरतश्रेष्ठ शान्तार्चिर्भिरिवाग्निभिः ॥८-१४-४२॥
रथान्बहुविधान्भग्नान्हेमकिङ्किणिनः शुभान्। अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान् ॥८-१४-४३॥
योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान्। निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान् ॥८-१४-४४॥
वैजयन्तीविचित्रांश्च हतांश्च गजयोधिनः। वारणानां परिस्तोमान्सुयुक्ताम्बरकम्बलान् ॥८-१४-४५॥
विपाटिता विचित्राश्च रूपचित्राः कुथास्तथा। भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः ॥८-१४-४६॥
वैडूर्यमणिदण्डांश्च पतितानङ्कुशान्भुवि। बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः ॥८-१४-४७॥
विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान्। अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि ॥८-१४-४८॥
चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः। छत्राणि चापविद्धानि चामरव्यजनानि च ॥८-१४-४९॥
चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः। कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ॥ वदनैः पश्य सञ्छन्नां महीं शोणितकर्दमाम् ॥८-१४-५०॥
सजीवांश्च नरान्पश्य कूजमानान्समन्ततः। उपास्यमानान्बहुभिर्न्यस्तशस्त्रैर्विशां पते ॥८-१४-५१॥
ज्ञातिभिः सहितैस्तत्र रोदमानैर्मुहुर्मुहुः। व्युत्क्रान्तानपरान्योधांश्छादयित्वा तरस्विनः ॥ पुनर्युद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः ॥८-१४-५२॥
अपरे तत्र तत्रैव परिधावन्ति मानिनः। ज्ञातिभिः पतितैः शूरैर्याच्यमानास्तथोदकम् ॥८-१४-५३॥
जलार्थं च गताः केचिन्निष्प्राणा बहवोऽर्जुन। संनिवृत्ताश्च ते शूरास्तान्दृष्ट्वैव विचेतसः ॥८-१४-५४॥
जलं दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम्। जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत ॥८-१४-५५॥
परित्यज्य प्रियानन्ये बान्धवान्बान्धवप्रिय। व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे ॥८-१४-५६॥
पश्यापरान्नरश्रेष्ठ संदष्टौष्ठपुटान्पुनः। भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्समन्ततः ॥८-१४-५७॥
एतत्तवैवानुरूपं कर्मार्जुन महाहवे। दिवि वा देवराजस्य त्वया यत्कृतमाहवे ॥८-१४-५८॥
एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने। गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत् ॥८-१४-५९॥
शङ्खदुन्दुभिनिर्घोषान्भेरीपणवमिश्रितान्। रथाश्वगजनादांश्च शस्त्रशब्दांश्च दारुणान् ॥८-१४-६०॥
प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगिभिः। पाण्ड्येनाभ्यर्दितां सेनां त्वदीयां वीक्ष्य धिष्ठितः ॥८-१४-६१॥
स हि नानाविधैर्बाणैरिष्वासप्रवरो युधि। न्यहनद्द्विषतां व्रातान्गतासूनन्तको यथा ॥८-१४-६२॥
गजवाजिमनुष्याणां शरीराणि शितैः शरैः। भित्त्वा प्रहरतां श्रेष्ठो विदेहासूंश्चकार सः ॥८-१४-६३॥
शत्रुप्रवीरैरस्तानि नानाशस्त्राणि सायकैः। भित्त्वा तानहनत्पाण्ड्यः शत्रूञ्शक्र इवासुरान् ॥८-१४-६४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.