08.031
Pancharatra and Core: The Kaurava army military formation. Shalya praises the strength of the Pandavas as they approach Arjuna and Krishna.
सञ्जय उवाच॥
ततः परानीकभिदं व्यूहमप्रतिमं परैः। समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम् ॥८-३१-१॥
प्रययौ रथघोषेण सिंहनादरवेण च। वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् ॥८-३१-२॥
वेपमान इव क्रोधाद्युद्धशौण्डः परन्तपः। पतिव्यूह्य महातेजा यथावद्भरतर्षभ ॥८-३१-३॥
व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव। युधिष्ठिरं चाभिभवन्नसपव्यं चकार ह ॥८-३१-४॥
धृतराष्ट्र उवाच॥
कथं सञ्जय राधेयः प्रत्यव्यूहत पाण्डवान्। धृष्टद्युम्नमुखान्वीरान्भीमसेनाभिरक्षितान् ॥८-३१-५॥
के च प्रपक्षौ पक्षौ वा मम सैन्यस्य सञ्जय। प्रविभज्य यथान्यायं कथं वा समवस्थिताः ॥८-३१-६॥
कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान्। कथं चैतन्महायुद्धं प्रावर्तत सुदारुणम् ॥८-३१-७॥
क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम्। को ह्यर्जुनस्य सांनिध्ये शक्तोऽभ्येतुं युधिष्ठिरम् ॥८-३१-८॥
सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा। कस्तमन्यत्र राधेयात्प्रतियुध्येज्जिजीविषुः ॥८-३१-९॥
सञ्जय उवाच॥
शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः। परिदाय नृपं तेभ्यः सङ्ग्रामश्चाभवद्यथा ॥८-३१-१०॥
कृपः शारद्वतो राजन्मागधश्च तरस्विनः। सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः ॥८-३१-११॥
तेषां प्रपक्षे शकुनिरुलूकश्च महारथः। सादिभिर्विमलप्रासैस्तवानीकमरक्षताम् ॥८-३१-१२॥
गान्धारिभिरसम्भ्रान्तैः पार्वतीयैश्च दुर्जयैः। शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः ॥८-३१-१३॥
चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम्। संशप्तका युद्धशौण्डा वामं पार्श्वमपालयन् ॥८-३१-१४॥
समुच्चितास्तव सुतैः कृष्णार्जुनजिघांसवः। तेषां प्रपक्षः काम्बोजाः शकाश्च यवनैः सह ॥८-३१-१५॥
निदेशात्सूतपुत्रस्य सरथाः साश्वपत्तयः। आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम् ॥८-३१-१६॥
मध्येसेनामुखं कर्णो व्यवातिष्ठत दंशितः। चित्रवर्माङ्गदः स्रग्वी पालयन्ध्वजिनीमुखम् ॥८-३१-१७॥
रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः। वाहिनीप्रमुखं वीरः सम्प्रकर्षन्नशोभत ॥८-३१-१८॥
अयोरत्निर्महाबाहुः सूर्यवैश्वानरद्युतिः। महाद्विपस्कन्धगतः पिङ्गलः प्रियदर्शनः ॥ दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः ॥८-३१-१९॥
तमन्वयान्महाराज स्वयं दुर्योधनो नृपः। चित्राश्वैश्चित्रसंनाहैः सोदर्यैरभिरक्षितः ॥८-३१-२०॥
रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः। अशोभत महाराज देवैरिव शतक्रतुः ॥८-३१-२१॥
अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः। नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैरधिष्ठिताः ॥ अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः ॥८-३१-२२॥
ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः। सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः ॥८-३१-२३॥
तेषां पदातिनागानां पादरक्षाः सहस्रशः। पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः ॥८-३१-२४॥
सादिभिः स्यन्दनैर्नागैरधिकं समलङ्कृतैः। स व्यूहराजो विबभौ देवासुरचमूपमः ॥८-३१-२५॥
बार्हस्पत्यः सुविहितो नायकेन विपश्चिता। नृत्यतीव महाव्यूहः परेषामादधद्भयम् ॥८-३१-२६॥
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः। पत्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः ॥८-३१-२७॥
ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः। धनञ्जयममित्रघ्नमेकवीरमुवाच ह ॥८-३१-२८॥
पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे। युक्तं पक्षैः प्रपक्षैश्च सेनानीकं प्रकाशते ॥८-३१-२९॥
तदेतद्वै समालोक्य प्रत्यमित्रं महद्बलम्। यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम् ॥८-३१-३०॥
एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत्। यथा भवानाह तथा तत्सर्वं न तदन्यथा ॥८-३१-३१॥
यस्त्वस्य विहितो घातस्तं करिष्यामि भारत। प्रधानवध एवास्य विनाशस्तं करोम्यहम् ॥८-३१-३२॥
युधिष्ठिर उवाच॥
तस्मात्त्वमेव राधेयं भीमसेनः सुयोधनम्। वृषसेनं च नकुलः सहदेवोऽपि सौबलम् ॥८-३१-३३॥
दुःशासनं शतानीको हार्दिक्यं शिनिपुङ्गवः। धृष्टद्युम्नस्तथा द्रौणिं स्वयं यास्याम्यहं कृपम् ॥८-३१-३४॥
द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना। ते ते च तांस्तानहितानस्माकं घ्नन्तु मामकाः ॥८-३१-३५॥
सञ्जय उवाच॥
इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनञ्जयः। व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम् ॥८-३१-३६॥
अथ तं रथमायान्तं दृष्ट्वात्यद्भुतदर्शनम्। उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम् ॥८-३१-३७॥
अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः। निघ्नन्नमित्रान्कौन्तेयो यं यं त्वं परिपृच्छसि ॥८-३१-३८॥
श्रूयते तुमुलः शब्दो रथनेमिस्वनो महान्। एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति ॥८-३१-३९॥
चक्रनेमिप्रणुन्ना च कम्पते कर्ण मेदिनी। प्रवात्येष महावायुरभितस्तव वाहिनीम् ॥ क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम् ॥८-३१-४०॥
पश्य कर्ण महाघोरं भयदं लोमहर्षणम्। कबन्धं मेघसङ्काशं भानुमावृत्य संस्थितम् ॥८-३१-४१॥
पश्य यूथैर्बहुविधैर्मृगाणां सर्वतोदिशम्। बलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते ॥८-३१-४२॥
पश्य कङ्कांश्च गृध्रांश्च समवेतान्सहस्रशः। स्थितानभिमुखान्घोरानन्योन्यमभिभाषतः ॥८-३१-४३॥
सिताश्चाश्वाः समायुक्तास्तव कर्ण महारथे। प्रदराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते ॥८-३१-४४॥
उदीर्यतो हयान्पश्य महाकायान्महाजवान्। प्लवमानान्दर्शनीयानाकाशे गरुडानिव ॥८-३१-४५॥
ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः। स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः ॥८-३१-४६॥
शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः। आनकानां च राधेय मृदङ्गानां च सर्वशः ॥८-३१-४७॥
बाणशब्दान्बहुविधान्नराश्वरथनिस्वनान्। ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम् ॥८-३१-४८॥
हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः। नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः ॥८-३१-४९॥
सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः। पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे ॥८-३१-५०॥
ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः। सपताका रथाश्चापि पाञ्चालानां महात्मनाम् ॥८-३१-५१॥
नागाश्वरथपत्त्यौघांस्तावकान्समभिघ्नतः। ध्वजाग्रं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते ॥८-३१-५२॥
अद्य द्रष्टासि तं वीरं श्वेताश्वं कृष्णसारथिम्। निघ्नन्तं शात्रवान्सङ्ख्ये यं कर्ण परिपृच्छसि ॥८-३१-५३॥
अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परन्तपौ। वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथस्थितौ ॥८-३१-५४॥
सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम्। तं चेद्धन्तासि राधेय त्वं नो राजा भविष्यसि ॥८-३१-५५॥
एष संशप्तकाहूतस्तानेवाभिमुखो गतः। करोति कदनं चैषां सङ्ग्रामे द्विषतां बली ॥ इति ब्रुवाणं मद्रेशं कर्णः प्राहातिमन्युमान् ॥८-३१-५६॥
पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः। एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते ॥ एतदन्तोऽर्जुनः शल्य निमग्नः शोकसागरे ॥८-३१-५७॥
शल्य उवाच॥
वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम्। को वानिलं निगृह्णीयात्पिबेद्वा को महार्णवम् ॥८-३१-५८॥
ईदृग्रूपमहं मन्ये पार्थस्य युधि निग्रहम्। न हि शक्योऽर्जुनो जेतुं सेन्द्रैः सर्वैः सुरासुरैः ॥८-३१-५९॥
अथैवं परितोषस्ते वाचोक्त्वा सुमना भव। न स शक्यो युधा जेतुमन्यं कुरु मनोरथम् ॥८-३१-६०॥
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः। पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥८-३१-६१॥
पश्य कुन्तीसुतं वीरं भीममक्लिष्टकारिणम्। प्रभासन्तं महाबाहुं स्थितं मेरुमिवाचलम् ॥८-३१-६२॥
अमर्षी नित्यसंरब्धश्चिरं वैरमनुस्मरन्। एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान् ॥८-३१-६३॥
एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः। तिष्ठत्यसुकरः सङ्ख्ये परैः परपुरञ्जयः ॥८-३१-६४॥
एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ। नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ ॥८-३१-६५॥
दृश्यन्त एते कार्ष्णेयाः पञ्च पञ्चाचला इव। व्यवस्थिता योत्स्यमानाः सर्वेऽर्जुनसमा युधि ॥८-३१-६६॥
एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः। हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः ॥८-३१-६७॥
इति संवदतोरेव तयोः पुरुषसिंहयोः। ते सेने समसज्जेतां गङ्गायमुनवद्भृशम् ॥८-३१-६८॥