08.032
Core and Pancharatra: The Pandava army's military formation and a general overview of the battlefield. Bhima kills Karna's son Satyasena. Satyaki attacks Vṛṣasena who was protecting Karna's rear.
धृतराष्ट्र उवाच॥
तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय। संशप्तकान्कथं पार्थो गतः कर्णश्च पाण्डवान् ॥८-३२-१॥
एतद्विस्तरतो युद्धं प्रब्रूहि कुशलो ह्यसि। न हि तृप्यामि वीराणां शृण्वानो विक्रमान्रणे ॥८-३२-२॥
सञ्जय उवाच॥
तत्स्थाने समवस्थाप्य प्रत्यमित्रं महाबलम्। अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये ॥८-३२-३॥
तत्सादिनागकलिलं पदातिरथसङ्कुलम्। धृष्टद्युम्नमुखैर्व्यूढमशोभत महद्बलम् ॥८-३२-४॥
पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः। पार्षतः प्रबभौ धन्वी कालो विग्रहवानिव ॥८-३२-५॥
पार्षतं त्वभि सन्तस्थुर्द्रौपदेया युयुत्सवः। सानुगा भीमवपुषश्चन्द्रं तारागणा इव ॥८-३२-६॥
अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे। क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः ॥८-३२-७॥
अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः। विजये कृतसङ्कल्पा मृत्युं कृत्वा निवर्तनम् ॥८-३२-८॥
तदश्वसङ्घबहुलं मत्तनागरथाकुलम्। पत्तिमच्छूरवीरौघैर्द्रुतमर्जुनमाद्रवत् ॥८-३२-९॥
स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना। तस्यैव नः श्रुतो यादृङ्निवातकवचैः सह ॥८-३२-१०॥
रथानश्वान्ध्वजान्नागान्पत्तीन्रथपतीनपि। इषून्धनूंषि खड्गांश्च चक्राणि च परश्वधान् ॥८-३२-११॥
सायुधानुद्यतान्बाहूनुद्यतान्यायुधानि च। चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः ॥८-३२-१२॥
तस्मिन्सैन्ये महावर्ते पातालावर्तसंनिभे। निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा ॥८-३२-१३॥
स पुरस्तादरीन्हत्वा पश्चार्धेनोत्तरेण च। दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशूनिव ॥८-३२-१४॥
अथ पाञ्चालचेदीनां सृञ्जयानां च मारिष। त्वदीयैः सह सङ्ग्राम आसीत्परमदारुणः ॥८-३२-१५॥
कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः। हृष्टसेनाः सुसंरब्धा रथानीकैः प्रहारिणः ॥८-३२-१६॥
कोसलैः काशिमत्स्यैश्च कारूषैः केकयैरपि। शूरसेनैः शूरवीरैर्युयुधुर्युद्धदुर्मदाः ॥८-३२-१७॥
तेषामन्तकरं युद्धं देहपाप्मप्रणाशनम्। शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् ॥८-३२-१८॥
दुर्योधनोऽपि सहितो भ्रातृभिर्भरतर्षभ। गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः ॥८-३२-१९॥
पाण्डवैः सहपाञ्चालैश्चेदिभिः सात्यकेन च। युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत् ॥८-३२-२०॥
कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम्। प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत् ॥८-३२-२१॥
विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः। युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत् ॥८-३२-२२॥
धृतराष्ट्र उवाच॥
यत्तत्प्रविश्य पार्थानां सेनां कुर्वञ्जनक्षयम्। कर्णो राजानमभ्यर्च्छत्तन्ममाचक्ष्व सञ्जय ॥८-३२-२३॥
के च प्रवीराः पार्थानां युधि कर्णमवारयन्। कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत् ॥८-३२-२४॥
सञ्जय उवाच॥
धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान्। समभ्यधावत्त्वरितः पाञ्चालाञ्शत्रुकर्शनः ॥८-३२-२५॥
तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः। प्रत्युद्ययुर्महाराज हंसा इव महार्णवम् ॥८-३२-२६॥
ततः शङ्खसहस्राणां निस्वनो हृदयङ्गमः। प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः ॥८-३२-२७॥
नानावादित्रनादश्च द्विपाश्वरथनिस्वनः। सिंहनादश्च वीराणामभवद्दारुणस्तदा ॥८-३२-२८॥
साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम्। सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं व्यघूर्णत ॥८-३२-२९॥
अति भूतानि तं शब्दं मेनिरेऽति च विव्यथुः। यानि चाप्लवसत्त्वानि प्रायस्तानि मृतानि च ॥८-३२-३०॥
अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन्। जघान पाण्डवीं सेनामासुरीं मघवानिव ॥८-३२-३१॥
स पाण्डवरथांस्तूर्णं प्रविश्य विसृजञ्शरान्। प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम् ॥८-३२-३२॥
ततः सुपुङ्खैर्निशितै रथश्रेष्ठो रथेषुभिः। अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम् ॥८-३२-३३॥
सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः। चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः ॥८-३२-३४॥
तं तथा समरे कर्म कुर्वाणमतिमानुषम्। परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः ॥८-३२-३५॥
ततः सन्धाय विशिखान्पञ्च भारत दुःसहान्। पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः ॥८-३२-३६॥
भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत। तपनं शूरसेनं च पाञ्चालानवधीद्रणे ॥८-३२-३७॥
पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः। हाहाकारो महानासीत्पाञ्चालानां महाहवे ॥८-३२-३८॥
तेषां सङ्कीर्यमाणानां हाहाकारकृता दिशः। पुनरेव च तान्कर्णो जघानाशु पतत्रिभिः ॥८-३२-३९॥
चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ। सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम् ॥८-३२-४०॥
पृष्ठगोपस्तु कर्णस्य ज्येष्ठः पुत्रो महारथः। वृषसेनः स्वयं कर्णं पृष्ठतः पर्यपालयत् ॥८-३२-४१॥
धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः। जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः ॥८-३२-४२॥
चेदिकेकयपाञ्चाला यमौ मत्स्याश्च दंशिताः। समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणः ॥८-३२-४३॥
त एनं विविधैः शस्त्रैः शरधाराभिरेव च। अभ्यवर्षन्विमृद्नन्तः प्रावृषीवाम्बुदा गिरिम् ॥८-३२-४४॥
पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः। त्वदीयाश्चापरे राजन्वीरा वीरानवारयन् ॥८-३२-४५॥
सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम्। नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह ॥८-३२-४६॥
अथान्यद्धनुरादाय सुदृढं भीमविक्रमः। सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः ॥८-३२-४७॥
विव्याध चैनं नवभिः क्रुद्धो नृत्यन्निवेषुभिः। कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः ॥८-३२-४८॥
सत्यसेनं च दशभिः साश्वसूतध्वजायुधम्। पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत् ॥८-३२-४९॥
क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम्। शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम् ॥८-३२-५०॥
हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत्। कृपहार्दिक्ययोश्छित्त्वा चापे तावप्यथार्दयत् ॥८-३२-५१॥
दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः। उलूकं च पतत्रिं च चकार विरथावुभौ ॥८-३२-५२॥
हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम्। तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत् ॥८-३२-५३॥
अथान्यमपि जग्राह सुपर्वाणं सुतेजनम्। सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः ॥८-३२-५४॥
पुनः कर्णस्त्रिसप्तत्या भीमसेनं रथेषुभिः। पुत्रं परीप्सन्विव्याध क्रूरं क्रूरैर्जिघांसया ॥८-३२-५५॥
सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम्। नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्दयत् ॥८-३२-५६॥
नकुलस्तं तु विंशत्या विद्ध्वा भारसहैर्दृढैः। ननाद बलवन्नादं कर्णस्य भयमादधत् ॥८-३२-५७॥
तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः। चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः ॥८-३२-५८॥
अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः। सुषेणं बहुभिर्बाणैर्वारयामास संयुगे ॥८-३२-५९॥
स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा। आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः ॥ चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा ॥८-३२-६०॥
अथान्यद्धनुरादाय सुषेणः क्रोधमूर्छितः। अविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः ॥८-३२-६१॥
तद्युद्धं सुमहद्घोरमासीद्देवासुरोपमम्। निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति ॥८-३२-६२॥
सात्यकिर्वृषसेनस्य हत्वा सूतं त्रिभिः शरैः। धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः ॥ ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडयत् ॥८-३२-६३॥
अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः। अथो जिघांसुः शैनेयं खड्गचर्मभृदभ्ययात् ॥८-३२-६४॥
तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः। वराहकर्णैर्दशभिरविध्यदसिचर्मणी ॥८-३२-६५॥
दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम्। आरोप्य स्वरथे तूर्णमपोवाह रथान्तरम् ॥८-३२-६६॥
अथान्यं रथमास्थाय वृषसेनो महारथः। कर्णस्य युधि दुर्धर्षः पुनः पृष्ठमपालयत् ॥८-३२-६७॥
दुःशासनं तु शैनेयो नवैर्नवभिराशुगैः। विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत् ॥८-३२-६८॥
स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः। युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन्बलम् ॥८-३२-६९॥
धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः। द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः ॥८-३२-७०॥
भीमसेनश्चतुःषष्ट्या सहदेवश्च पञ्चभिः। नकुलस्त्रिंशता बाणैः शतानीकश्च सप्तभिः ॥ शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु ॥८-३२-७१॥
एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः। अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे ॥८-३२-७२॥
तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शितैः। रथे चारु चरन्वीरः प्रत्यविध्यदरिंदमः ॥८-३२-७३॥
तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः। अपश्याम महाराज तदद्भुतमिवाभवत् ॥८-३२-७४॥
न ह्याददानं ददृशुः संदधानं च सायकान्। विमुञ्चन्तं च संरम्भाद्ददृशुस्ते महारथम् ॥८-३२-७५॥
द्यौर्वियद्भूर्दिशश्चाशु प्रणुन्ना निशितैः शरैः। अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत् ॥८-३२-७६॥
नृत्यन्निव हि राधेयश्चापहस्तः प्रतापवान्। यैर्विद्धः प्रत्यविध्यत्तानेकैकं त्रिगुणैः शरैः ॥८-३२-७७॥
दशभिर्दशभिश्चैनान्पुनर्विद्ध्वा ननाद ह। साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः ॥८-३२-७८॥
तान्प्रमृद्नन्महेष्वासान्राधेयः शरवृष्टिभिः। राजानीकमसम्बाधं प्राविशच्छत्रुकर्शनः ॥८-३२-७९॥
स रथांस्त्रिशतान्हत्वा चेदीनामनिवर्तिनाम्। राधेयो निशितैर्बाणैस्ततोऽभ्यार्च्छद्युधिष्ठिरम् ॥८-३२-८०॥
ततस्ते पाण्डवा राजञ्शिखण्डी च ससात्यकिः। राधेयात्परिरक्षन्तो राजानं पर्यवारयन् ॥८-३२-८१॥
तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे। यत्ताः सेनामहेष्वासाः पर्यरक्षन्त सर्वशः ॥८-३२-८२॥
नानावादित्रघोषाश्च प्रादुरासन्विशां पते। सिंहनादश्च सञ्जज्ञे शूराणामनिवर्तिनाम् ॥८-३२-८३॥
ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः। युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् ॥८-३२-८४॥