Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.033
Core and Pancharatra: When Karna forces Yudhisthira to retreat in the direct attack, King Yudhisthira orders a counterattack. In the counterattack led by Bhimasena, Kaurava army starts retreating.
सञ्जय उवाच॥
विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत्। रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ॥८-३३-१॥
नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः। छित्त्वा बाणशतैरुग्रैस्तानविध्यदसम्भ्रमः ॥८-३३-२॥
निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः। ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः ॥८-३३-३॥
द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः। अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे ॥८-३३-४॥
ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः। पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा ॥८-३३-५॥
एवं योधशतान्याजौ सहस्राण्ययुतानि च। हतानीयुर्महीं देहैर्यशसापूरयन्दिशः ॥८-३३-६॥
अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम्। रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव ॥८-३३-७॥
स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम्। मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा ॥८-३३-८॥
स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः। नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा ॥८-३३-९॥
ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम्। अब्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः ॥८-३३-१०॥
कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु। सदा स्पर्धसि सङ्ग्रामे फल्गुनेन यशस्विना ॥ तथास्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः ॥८-३३-११॥
यद्बलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु। तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः ॥ युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे ॥८-३३-१२॥
एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा। सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शितैः ॥८-३३-१३॥
तं सूतपुत्रो नवभिः प्रत्यविध्यदरिंदमः। वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत ॥८-३३-१४॥
ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः। जघान समरे शूरः शरैः संनतपर्वभिः ॥८-३३-१५॥
तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः। रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू ॥८-३३-१६॥
युधिष्ठिरः पुनः कर्णमविध्यत्त्रिंशता शरैः। सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् ॥८-३३-१७॥
शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम्। तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः ॥८-३३-१८॥
ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम्। भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा ॥८-३३-१९॥
ततः प्रवीराः पाण्डूनामभ्यधावन्युधिष्ठिरम्। सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दयञ्शरैः ॥८-३३-२०॥
सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च। धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥८-३३-२१॥
यमौ च भीमसेनश्च शिशुपालस्य चात्मजः। कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः ॥ एते च त्वरिता वीरा वसुषेणमवारयन् ॥८-३३-२२॥
जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः। वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः ॥ वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः ॥८-३३-२३॥
नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिनः। सर्वतोऽभ्याद्रवन्कर्णं परिवार्य जिघांसया ॥८-३३-२४॥
स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः। उदैरयद्ब्राह्ममस्त्रं शरैः सम्पूरयन्दिशः ॥८-३३-२५॥
ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः। निर्दहन्पाण्डववनं चारु पर्यचरद्रणे ॥८-३३-२६॥
स संवार्य महास्त्राणि महेष्वासो महात्मनाम्। प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम् ॥८-३३-२७॥
ततः सन्धाय नवतिं निमेषान्नतपर्वणाम्। बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः ॥८-३३-२८॥
तद्वर्म हेमविकृतं रराज निपतत्तदा। सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा ॥८-३३-२९॥
तदङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत। रत्नैरलङ्कृतं दिव्यैर्व्यभ्रं निशि यथा नभः ॥८-३३-३०॥
स विवर्मा शरैः पार्थो रुधिरेण समुक्षितः। क्रुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति ॥८-३३-३१॥
तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः। सा छिन्ना भूमिमपतन्महेष्वासस्य सायकैः ॥८-३३-३२॥
ततो बाह्वोर्ललाटे च हृदि चैव युधिष्ठिरः। चतुर्भिस्तोमरैः कर्णं ताडयित्वा मुदानदत् ॥८-३३-३३॥
उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन्। ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम् ॥ इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् ॥८-३३-३४॥
एवं पार्थो व्यपायात्स निहतप्रार्ष्टिसारथिः। अशक्नुवन्प्रमुखतः स्थातुं कर्णस्य दुर्मनाः ॥८-३३-३५॥
तमभिद्रुत्य राधेयः स्कन्धं संस्पृश्य पाणिना। अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम् ॥८-३३-३६॥
कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः। प्रजह्यात्समरे शत्रून्प्राणान्रक्षन्महाहवे ॥८-३३-३७॥
न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः। ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि ॥८-३३-३८॥
मा स्म युध्यस्व कौन्तेय मा च वीरान्समासदः। मा चैनानप्रियं ब्रूहि मा च व्रज महारणम् ॥८-३३-३९॥
एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः। न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् ॥ ततः प्रायाद्द्रुतं राजन्व्रीडन्निव जनेश्वरः ॥८-३३-४०॥
अथ प्रयान्तं राजानमन्वयुस्ते तदाच्युतम्। चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः ॥ द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ ॥८-३३-४१॥
ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम्। कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठमन्वयात् ॥८-३३-४२॥
शङ्खभेरीनिनादैश्च कार्मुकाणां च निस्वनैः। बभूव धार्तराष्ट्राणां सिंहनादरवस्तदा ॥८-३३-४३॥
युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरः। श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम् ॥८-३३-४४॥
काल्यमानं बलं दृष्ट्वा धर्मराजो युधिष्ठिरः। तान्योधानब्रवीत्क्रुद्धो हतैनं वै सहस्रशः ॥८-३३-४५॥
ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः। भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् ॥८-३३-४६॥
अभवत्तुमुलः शब्दो योधानां तत्र भारत। हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस्ततः ॥८-३३-४७॥
उत्तिष्ठत प्रहरत प्रैताभिपततेति च। इति ब्रुवाणा अन्योन्यं जघ्नुर्योधा रणाजिरे ॥८-३३-४८॥
अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे। समावृत्तैर्नरवरैर्निघ्नद्भिरितरेतरम् ॥८-३३-४९॥
विपताकाध्वजच्छत्रा व्यश्वसूतायुधा रणे। व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा हतेश्वराः ॥८-३३-५०॥
प्रवराणीव शैलानां शिखराणि द्विपोत्तमाः। सारोहा निहताः पेतुर्वज्रभिन्ना इवाद्रयः ॥८-३३-५१॥
छिन्नभिन्नविपर्यस्तैर्वर्मालङ्कारविग्रहैः। सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः ॥८-३३-५२॥
विप्रविद्धायुधाङ्गाश्च द्विरदाश्वरथैर्हताः। प्रतिवीरैश्च संमर्दे पत्तिसङ्घाः सहस्रशः ॥८-३३-५३॥
विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः। शिरोभिर्युद्धशौण्डानां सर्वतः संस्तृता मही ॥८-३३-५४॥
तथा तु वितते व्योम्नि निस्वनं शुश्रुवुर्जनाः। विमानैरप्सरःसङ्घैर्गीतवादित्रनिस्वनैः ॥८-३३-५५॥
हतान्कृत्तानभिमुखान्वीरान्वीरैः सहस्रशः। आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः ॥८-३३-५६॥
तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया। प्रहृष्टमनसः शूराः क्षिप्रं जग्मुः परस्परम् ॥८-३३-५७॥
रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे। पत्तयः पत्तिभिर्नागा नागैः सह हयैर्हयाः ॥८-३३-५८॥
एवं प्रवृत्ते सङ्ग्रामे गजवाजिजनक्षये। सैन्ये च रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान् ॥८-३३-५९॥
कचाकचि बभौ युद्धं दन्तादन्ति नखानखि। मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम् ॥८-३३-६०॥
तथा वर्तति सङ्ग्रामे गजवाजिजनक्षये। नराश्वगजदेहेभ्यः प्रसृता लोहितापगा ॥ नराश्वगजदेहान्सा व्युवाह पतितान्बहून् ॥८-३३-६१॥
नराश्वगजसम्बाधे नराश्वगजसादिनाम्। लोहितोदा महाघोरा नदी लोहितकर्दमा ॥ नराश्वगजदेहान्सा वहन्ती भीरुभीषणी ॥८-३३-६२॥
तस्याः परमपारं च व्रजन्ति विजयैषिणः। गाधेन च प्लवन्तश्च निमज्ज्योन्मज्ज्य चापरे ॥८-३३-६३॥
ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः। सस्नुस्तस्यां पपुश्चासृङ्मम्लुश्च भरतर्षभ ॥८-३३-६४॥
रथानश्वान्नरान्नागानायुधाभरणानि च। वसनान्यथ वर्माणि हन्यमानान्हतानपि ॥ भूमिं खं द्यां दिशश्चैव प्रायः पश्याम लोहितम् ॥८-३३-६५॥
लोहितस्य तु गन्धेन स्पर्शेन च रसेन च। रूपेण चातिरिक्तेन शब्देन च विसर्पता ॥ विषादः सुमहानासीत्प्रायः सैन्यस्य भारत ॥८-३३-६६॥
तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव। भूयः समाद्रवन्वीराः सात्यकिप्रमुखा रथाः ॥८-३३-६७॥
तेषामापततां वेगमविषह्य महात्मनाम्। पुत्राणां ते महत्सैन्यमासीद्राजन्पराङ्मुखम् ॥८-३३-६८॥
तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम्। विध्वस्तचर्मकवचं प्रविद्धायुधकार्मुकम् ॥८-३३-६९॥
व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः। सिंहार्दितं महारण्ये यथा गजकुलं तथा ॥८-३३-७०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.