08.034
Core and Pancharatra: Karna encounters Bhima, who is destroying the Kaurava army. Shalya takes unconscious Karna away, hit by Bhima.
सञ्जय उवाच॥
तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम्। क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत ॥८-३४-१॥
ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात्। उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे ॥८-३४-२॥
कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान्। हंसवर्णान्हयाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम् ॥८-३४-३॥
ते प्रेषिता महाराज शल्येनाहवशोभिना। भीमसेनरथं प्राप्य समसज्जन्त वाजिनः ॥८-३४-४॥
दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः। मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ ॥८-३४-५॥
सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम्। एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम् ॥ संशयान्महतो मुक्तं कथञ्चित्प्रेक्षतो मम ॥८-३४-६॥
अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः। दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना ॥८-३४-७॥
अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षत। हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति ॥ सङ्ग्रामेण सुघोरेण सत्यमेतद्ब्रवीमि वः ॥८-३४-८॥
राजानमद्य भवतां न्यासभूतं ददामि वै। अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः ॥८-३४-९॥
एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति। सिंहनादेन महता सर्वाः संनादयन्दिशः ॥८-३४-१०॥
दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम्। सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः ॥८-३४-११॥
पश्य कर्ण महाबाहुं क्रुद्धं पाण्डवनन्दनम्। दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम् ॥८-३४-१२॥
ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन। अभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे ॥८-३४-१३॥
त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे। बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम् ॥८-३४-१४॥
इति ब्रुवति राधेयं मद्राणामीश्वरे नृप। अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः ॥८-३४-१५॥
तथागतं तु सम्प्रेक्ष्य भीमं युद्धाभिनन्दिनम्। अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव ॥८-३४-१६॥
यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर। भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः ॥८-३४-१७॥
एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः। निरपेक्षः शरीरे च प्राणतश्च बलाधिकः ॥८-३४-१८॥
अज्ञातवासं वसता विराटनगरे तदा। द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात् ॥ गूढभावं समाश्रित्य कीचकः सगणो हतः ॥८-३४-१९॥
सोऽद्य सङ्ग्रामशिरसि संनद्धः क्रोधमूर्च्छितः। किङ्करोद्यतदण्डेन मृत्युनापि व्रजेद्रणम् ॥८-३४-२०॥
चिरकालाभिलषितो ममायं तु मनोरथः। अर्जुनं समरे हन्यां मां वा हन्याद्धनञ्जयः ॥ स मे कदाचिदद्यैव भवेद्भीमसमागमात् ॥८-३४-२१॥
निहते भीमसेने तु यदि वा विरथीकृते। अभियास्यति मां पार्थस्तन्मे साधु भविष्यति ॥ अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं सम्प्रधारय ॥८-३४-२२॥
एतच्छ्रुत्वा तु वचनं राधेयस्य महात्मनः। उवाच वचनं शल्यः सूतपुत्रं तथागतम् ॥८-३४-२३॥
अभियासि महाबाहो भीमसेनं महाबलम्। निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम् ॥८-३४-२४॥
यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः। स वै सम्पत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते ॥८-३४-२५॥
एवमुक्ते ततः कर्णः शल्यं पुनरभाषत। हन्ताहमर्जुनं सङ्ख्ये मां वा हन्ता धनञ्जयः ॥ युद्धे मनः समाधाय याहि याहीत्यचोदयत् ॥८-३४-२६॥
ततः प्रायाद्रथेनाशु शल्यस्तत्र विशां पते। यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् ॥८-३४-२७॥
ततस्तूर्यनिनादश्च भेरीणां च महास्वनः। उदतिष्ठत राजेन्द्र कर्णभीमसमागमे ॥८-३४-२८॥
भीमसेनोऽथ सङ्क्रुद्धस्तव सैन्यं दुरासदम्। नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली ॥८-३४-२९॥
स संनिपातस्तुमुलो भीमरूपो विशां पते। आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ॥ ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत् ॥८-३४-३०॥
तमापतन्तं सम्प्रेक्ष्य कर्णो वैकर्तनो वृषः। आजघानोरसि क्रुद्धो नाराचेन स्तनान्तरे ॥ पुनश्चैनममेयात्मा शरवर्षैरवाकिरत् ॥८-३४-३१॥
स विद्धः सूतपुत्रेण छादयामास पत्रिभिः। विव्याध निशितैः कर्ण नवभिर्नतपर्वभिः ॥८-३४-३२॥
तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा। अथ तं छिन्नधन्वानमभ्यविध्यत्स्तनान्तरे ॥ नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना ॥८-३४-३३॥
सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरः। राजन्मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैः ॥ ननाद बलवन्नादं कम्पयन्निव रोदसी ॥८-३४-३४॥
तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत्। मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम् ॥८-३४-३५॥
ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः। संरम्भामर्षताम्राक्षः सूतपुत्रवधेच्छया ॥८-३४-३६॥
स कार्मुके महावेगं भारसाधनमुत्तमम्। गिरीणामपि भेत्तारं सायकं समयोजयत् ॥८-३४-३७॥
विकृष्य बलवच्चापमा कर्णादतिमारुतिः। तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया ॥८-३४-३८॥
स विसृष्टो बलवता बाणो वज्राशनिस्वनः। अदारयद्रणे कर्णं वज्रवेग इवाचलम् ॥८-३४-३९॥
स भीमसेनाभिहतो सूतपुत्रः कुरूद्वह। निषसाद रथोपस्थे विसञ्ज्ञः पृतनापतिः ॥८-३४-४०॥
ततो मद्राधिपो दृष्ट्वा विसञ्ज्ञं सूतनन्दनम्। अपोवाह रथेनाजौ कर्णमाहवशोभिनम् ॥८-३४-४१॥
ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम्। व्यद्रावयद्भीमसेनो यथेन्द्रो दानवीं चमूम् ॥८-३४-४२॥