Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.047
Core and Pancharatra: Arjuna gives the excuse of how he was engaged with Ashwatthama and then promises to kill Karna the very day.
सञ्जय उवाच॥
तद्धर्मशीलस्य वचो निशम्य; राज्ञः क्रुद्धस्याधिरथौ महात्मा। उवाच दुर्धर्षमदीनसत्त्वं; युधिष्ठिरं जिष्णुरनन्तवीर्यः ॥८- ४७-१॥
संशप्तकैर्युध्यमानस्य मेऽद्य; सेनाग्रयायी कुरुसैन्यस्य राजन्। आशीविषाभान्खगमान्प्रमुञ्च; न्द्रौणिः पुरस्तात्सहसा व्यतिष्ठत् ॥८- ४७-२॥
दृष्ट्वा रथं मेघनिभं ममेम; मम्बष्ठसेना मरणे व्यतिष्ठत्। तेषामहं पञ्च शतानि हत्वा; ततो द्रौणिमगमं पार्थिवाग्र्य ॥८- ४७-३॥
ततोऽपरान्बाणसङ्घाननेका; नाकर्णपूर्णायतविप्रमुक्तान्। ससर्ज शिक्षास्त्रबलप्रयत्नै; स्तथा यथा प्रावृषि कालमेघः ॥८- ४७-४॥
नैवाददानं न च संदधानं; जानीमहे कतरेणास्यतीति। वामेन वा यदि वा दक्षिणेन; स द्रोणपुत्रः समरे पर्यवर्तत् ॥८- ४७-५॥
अविध्यन्मां पञ्चभिर्द्रोणपुत्रः; शितैः शरैः पञ्चभिर्वासुदेवम्। अहं तु तं त्रिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण ॥८- ४७-६॥
स विक्षरन्रुधिरं सर्वगात्रै; रथानीकं सूतसूनोर्विवेश। मयाभिभूतः सैनिकानां प्रबर्हा; नसावपश्यन्रुधिरेण प्रदिग्धान् ॥८- ४७-७॥
ततोऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयोधं द्रुतवाजिनागम्। पञ्चाशता रथमुख्यैः समेतः; कर्णस्त्वरन्मामुपायात्प्रमाथी ॥८- ४७-८॥
तान्सूदयित्वाहमपास्य कर्णं; द्रष्टुं भवन्तं त्वरयाभियातः। सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णा; द्गन्धाद्गावः केसरिणो यथैव ॥८- ४७-९॥
महाझषस्येव मुखं प्रपन्नाः; प्रभद्रकाः कर्णमभि द्रवन्ति। मृत्योरास्यं व्यात्तमिवान्वपद्य; न्प्रभद्रकाः कर्णमासाद्य राजन् ॥८- ४७-१०॥
आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय। षट्साहस्रा भारत राजपुत्राः; स्वर्गाय लोकाय रथा निमग्नाः ॥८- ४७-११॥
समेत्याहं सूतपुत्रेण सङ्ख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य। योत्स्ये भृशं भारत सूतपुत्र; मस्मिन्सङ्ग्रामे यदि वै दृश्यतेऽद्य ॥८- ४७-१२॥
कर्णं न चेदद्य निहन्मि राज; न्सबान्धवं युध्यमानं प्रसह्य। प्रतिश्रुत्याकुर्वतां वै गतिर्या; कष्टां गच्छेयं तामहं राजसिंह ॥८- ४७-१३॥
आमन्त्रये त्वां ब्रूहि जयं रणे मे; पुरा भीमं धार्तराष्ट्रा ग्रसन्ते। सौतिं हनिष्यामि नरेन्द्रसिंह; सैन्यं तथा शत्रुगणांश्च सर्वान् ॥८- ४७-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.