Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.048
Core and Pancharatra: Arjuna gets further scolding from Yudhishthira for retreating from the battle without facing Karna.
सञ्जय उवाच॥
श्रुत्वा कर्णं कल्यमुदारवीर्यं; क्रुद्धः पार्थः फल्गुनस्यामितौजाः। धनञ्जयं वाक्यमुवाच चेदं; युधिष्ठिरः कर्णशराभितप्तः ॥८-४८-१॥
इदं यदि द्वैतवने ह्यवक्ष्यः; कर्णं योद्धुं न प्रसहे नृपेति। वयं तदा प्राप्तकालानि सर्वे; वृत्तान्युपैष्याम तदैव पार्थ ॥८-४८-२॥
मयि प्रतिश्रुत्य वधं हि तस्य; बलस्य चाप्तस्य तथैव वीर। आनीय नः शत्रुमध्यं स कस्मा; त्समुत्क्षिप्य स्थण्डिले प्रत्यपिंष्ठाः ॥८-४८-३॥
अन्वाशिष्म वयमर्जुन त्वयि; यियासवो बहु कल्याणमिष्टम्। तन्नः सर्वं विफलं राजपुत्र; फलार्थिनां निचुल इवातिपुष्पः ॥८-४८-४॥
प्रच्छादितं बडिशमिवामिषेण; प्रच्छादितो गवय इवापवाचा। अनर्थकं मे दर्शितवानसि त्वं; राज्यार्थिनो राज्यरूपं विनाशम् ॥८-४८-५॥
यत्तत्पृथां वागुवाचान्तरिक्षे; सप्ताहजाते त्वयि मन्दबुद्धौ। जातः पुत्रो वासवविक्रमोऽयं; सर्वाञ्शूराञ्शात्रवाञ्जेष्यतीति ॥८-४८-६॥
अयं जेता खाण्डवे देवसङ्घा; न्सर्वाणि भूतान्यपि चोत्तमौजाः। अयं जेता मद्रकलिङ्गकेकया; नयं कुरून्हन्ति च राजमध्ये ॥८-४८-७॥
अस्मात्परो न भविता धनुर्धरो; न वै भूतः कश्चन जातु जेता। इच्छन्नार्यः सर्वभूतानि कुर्या; द्वशे वशी सर्वसमाप्तविद्यः ॥८-४८-८॥
कान्त्या शशाङ्कस्य जवेन वायोः; स्थैर्येण मेरोः क्षमया पृथिव्याः। सूर्यस्य भासा धनदस्य लक्ष्म्या; शौर्येण शक्रस्य बलेन विष्णोः ॥८-४८-९॥
तुल्यो महात्मा तव कुन्ति पुत्रो; जातोऽदितेर्विष्णुरिवारिहन्ता। स्वेषां जयाय द्विषतां वधाय; ख्यातोऽमितौजाः कुलतन्तुकर्ता ॥८-४८-१०॥
इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि; तपस्विनां शृण्वतां वागुवाच। एवंविधं त्वां तच्च नाभूत्तवाद्य; देवा हि नूनमनृतं वदन्ति ॥८-४८-११॥
तथापरेषामृषिसत्तमानां; श्रुत्वा गिरं पूजयतां सदैव। न संनतिं प्रैमि सुयोधनस्य; न त्वा जानाम्याधिरथेर्भयार्तम् ॥८-४८-१२॥
त्वष्ट्रा कृतं वाहमकूजनाक्षं; शुभं समास्थाय कपिध्वजं त्वम्। खड्गं गृहीत्वा हेमचित्रं समिद्धं; धनुश्चेदं गाण्डिवं तालमात्रम् ॥ स केशवेनोह्यमानः कथं नु; कर्णाद्भीतो व्यपयातोऽसि पार्थ ॥८-४८-१३॥
धनुश्चैतत्केशवाय प्रदाय; यन्ताभविष्यस्त्वं रणे चेद्दुरात्मन्। ततोऽहनिष्यत्केशवः कर्णमुग्रं; मरुत्पतिर्वृत्रमिवात्तवज्रः ॥८-४८-१४॥
मासेऽपतिष्यः पञ्चमे त्वं प्रकृच्छ्रे; न वा गर्भोऽप्यभविष्यः पृथायाः। तत्ते श्रमो राजपुत्राभविष्य; न सङ्ग्रामादपयातुं दुरात्मन् ॥८-४८-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.