Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.046
Core and Pancharatra: Yudhishthira, is a sarcastic way, asks Arjuna, "Have you returned having killed Karna? I am still alive, only becuase of Bhima".
सञ्जय उवाच॥
महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ। हतमाधिरथिं मेने सङ्ख्ये गाण्डीवधन्वना ॥८-४६-१॥
तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना। स्मितपूर्वममित्रघ्नः पूजयन्भरतर्षभ ॥८-४६-२॥
युधिष्ठिर उवाच॥
स्वागतं देवकीपुत्र स्वागतं ते धनञ्जय। प्रियं मे दर्शनं बाढं युवयोरच्युतार्जुनौ ॥८-४६-३॥
अक्षताभ्यामरिष्टाभ्यां कथं युध्य महारथम्। आशीविषसमं युद्धे सर्वशस्त्रविशारदम् ॥८-४६-४॥
अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च। रक्षितं वृषसेनेन सुषेणेन च धन्विना ॥८-४६-५॥
अनुज्ञातं महावीर्यं रमेणास्त्रेषु दुर्जयम्। त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे ॥८-४६-६॥
हन्तारमरिसैन्यानाममित्रगणमर्दनम्। दुर्योधनहिते युक्तमस्मद्युद्धाय चोद्यतम् ॥८-४६-७॥
अप्रधृष्यं महायुद्धे देवैरपि सवासवैः। अनलानिलयोस्तुल्यं तेजसा च बलेन च ॥८-४६-८॥
पातालमिव गम्भीरं सुहृदानन्दवर्धनम्। अन्तकाभममित्राणां कर्णं हत्वा महाहवे ॥ दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ ॥८-४६-९॥
तेन युद्धमदीनेन मया ह्यद्याच्युतार्जुनौ। कुपितेनान्तकेनेव प्रजाः सर्वा जिघांसता ॥८-४६-१०॥
तेन केतुश्च मे छिन्नो हतौ च पार्ष्णिसारथी। हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः ॥८-४६-११॥
धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः। पश्यतां द्रौपदेयानां पाञ्चालानां च सर्वशः ॥८-४६-१२॥
एताञ्जित्वा महावीर्यान्कर्णः शत्रुगणान्बहून्। जितवान्मां महाबाहो यतमानं महारणे ॥८-४६-१३॥
अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु। तत्र तत्र युधां श्रेष्ठः परिभूय न संशयः ॥८-४६-१४॥
भीमसेनप्रभावात्तु यज्जीवामि धनञ्जय। बहुनात्र किमुक्तेन नाहं तत्सोढुमुत्सहे ॥८-४६-१५॥
त्रयोदशाहं वर्षाणि यस्माद्भीतो धनञ्जय। न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् ॥८-४६-१६॥
तस्य द्वेषेण संयुक्तः परिदह्ये धनञ्जय। आत्मनो मरणं जानन्वाध्रीणस इव द्विपः ॥८-४६-१७॥
यस्यायमगमत्कालश्चिन्तयानस्य मे विभो। कथं शक्यो मया कर्णो युद्धे क्षपयितुं भवेत् ॥८-४६-१८॥
जाग्रत्स्वपंश्च कौन्तेय कर्णमेव सदा ह्यहम्। पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत् ॥८-४६-१९॥
यत्र यत्र हि गच्छामि कर्णाद्भीतो धनञ्जय। तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् ॥८-४६-२०॥
सोऽहं तेनैव वीरेण समरेष्वपलायिना। सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः ॥८-४६-२१॥
को नु मे जीवितेनार्थो राज्येनार्थोऽथ वा पुनः। ममैवं धिक्कृतस्येह कर्णेनाहवशोभिना ॥८-४६-२२॥
न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे। तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् ॥८-४६-२३॥
तत्त्वा पृच्छामि कौन्तेय यथा ह्यकुशलस्तथा। तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णस्त्वया हतः ॥८-४६-२४॥
शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमः। रामतुल्यस्तथास्त्रे यः स कथं वै निषूदितः ॥८-४६-२५॥
महारथः समाख्यातः सर्वयुद्धविशारदः। धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः ॥८-४६-२६॥
पूजितो धृतराष्ट्रेण सपुत्रेण विशां पते। सदा त्वदर्थं राधेयः स कथं निहतस्त्वया ॥८-४६-२७॥
धृतराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन। तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः ॥८-४६-२८॥
स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः। तं ममाचक्ष्व बीभत्सो यथा कर्णो हतस्त्वया ॥८-४६-२९॥
सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम्। त्वया पुरुषशार्दूल शार्दूलेन यथा रुरोः ॥८-४६-३०॥
यः पर्युपासीत्प्रदिशो दिशश्च; त्वां सूतपुत्रः समरे परीप्सन्। दित्सुः कर्णः समरे हस्तिपूगं; स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः ॥८-४६-३१॥
त्वया रणे निहतः सूतपुत्रः; कच्चिच्छेते भूमितले दुरात्मा। कच्चित्प्रियं मे परमं त्वयाद्य; कृतं रणे सूतपुत्रं निहत्य ॥८-४६-३२॥
यः सर्वतः पर्यपतत्त्वदर्थे; मदान्वितो गर्वितः सूतपुत्रः। स शूरमानी समरे समेत्य; कच्चित्त्वया निहतः संयुगेऽद्य ॥८-४६-३३॥
रौक्मं रथं हस्तिवरैश्च युक्तं; रथं दित्सुर्यः परेभ्यस्त्वदर्थे। सदा रणे स्पर्धते यः स पापः; कच्चित्त्वया निहतस्तात युद्धे ॥८-४६-३४॥
योऽसौ नित्यं शूरमदेन मत्तो; विकत्थते संसदि कौरवाणाम्। प्रियोऽत्यर्थं तस्य सुयोधनस्य; कच्चित्स पापो निहतस्त्वयाद्य ॥८-४६-३५॥
कच्चित्समागम्य धनुःप्रमुक्तै; स्त्वत्प्रेषितैर्लोहितार्थैर्विहङ्गैः। शेतेऽद्य पापः स विभिन्नगात्रः; कच्चिद्भग्नो धार्तराष्ट्रस्य बाहुः ॥८-४६-३६॥
योऽसौ सदा श्लाघते राजमध्ये; दुर्योधनं हर्षयन्दर्पपूर्णः। अहं हन्ता फल्गुनस्येति मोहा; त्कच्चिद्धतस्तस्य न वै तथा रथः ॥८-४६-३७॥
नाहं पादौ धावयिष्ये कदा चि; द्यावत्स्थितः पार्थ इत्यल्पबुद्धिः। व्रतं तस्यैतत्सर्वदा शक्रसूनो; कच्चित्त्वया निहतः सोऽद्य कर्णः ॥८-४६-३८॥
योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः; कर्णः सभायां कुरुवीरमध्ये। किं पाण्डवांस्त्वं न जहासि कृष्णे; सुदुर्बलान्पतितान्हीनसत्त्वान् ॥८-४६-३९॥
यत्तत्कर्णः प्रत्यजानात्त्वदर्थे; नाहत्वाहं सह कृष्णेन पार्थम्। इहोपयातेति स पापबुद्धिः; कच्चिच्छेते शरसम्भिन्नगात्रः ॥८-४६-४०॥
कच्चित्सङ्ग्रामे विदितो वा तदायं; समागमः सृञ्जयकौरवाणाम्। यत्रावस्थामीदृशीं प्रापितोऽहं; कच्चित्त्वया सोऽद्य हतः समेत्य ॥८-४६-४१॥
कच्चित्त्वया तस्य सुमन्दबुद्धे; र्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः। सकुण्डलं भानुमदुत्तमाङ्गं; कायात्प्रकृत्तं युधि सव्यसाचिन् ॥८-४६-४२॥
यत्तन्मया बाणसमर्पितेन; ध्यातोऽसि कर्णस्य वधाय वीर। तन्मे त्वया कच्चिदमोघमद्य; ध्यातं कृतं कर्णनिपातनेन ॥८-४६-४३॥
यद्दर्पपूर्णः स सुयोधनोऽस्मा; नवेक्षते कर्णसमाश्रयेण। कच्चित्त्वया सोऽद्य समाश्रयोऽस्य; भग्नः पराक्रम्य सुयोधनस्य ॥८-४६-४४॥
यो नः पुरा षण्ढतिलानवोच; त्सभामध्ये पार्थिवानां समक्षम्। स दुर्मतिः कच्चिदुपेत्य सङ्ख्ये; त्वया हतः सूतपुत्रोऽत्यमर्षी ॥८-४६-४५॥
यः सूतपुत्रः प्रहसन्दुरात्मा; पुराब्रवीन्निर्जितां सौबलेन। स्वयं प्रसह्यानय याज्ञसेनी; मपीह कच्चित्स हतस्त्वयाद्य ॥८-४६-४६॥
यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां; पितामहं व्याक्षिपदल्पचेताः। सङ्ख्यायमानोऽर्धरथः स कच्चि; त्त्वया हतोऽद्याधिरथिर्दुरात्मा ॥८-४६-४७॥
अमर्षणं निकृतिसमीरणेरितं; हृदि श्रितं ज्वलनमिमं सदा मम। हतो मया सोऽद्य समेत्य पापधी; रिति ब्रुवन्प्रशमय मेऽद्य फल्गुन ॥८-४६-४८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.