08.058
Pancharatra and Core: Arjuna's valour and destruction of the Kaurava forces. Arjuna takes permission from Bhima and Yudhisthira.
सञ्जय उवाच॥
राजन्कुरूणां प्रवरैर्बलैर्भीममभिद्रुतम्। मज्जन्तमिव कौन्तेयमुज्जिहीर्षुर्धनञ्जयः ॥८-५८-१॥
विमृद्य सूतपुत्रस्य सेनां भारत सायकैः। प्राहिणोन्मृत्युलोकाय परवीरान्धनञ्जयः ॥८-५८-२॥
ततोऽस्याम्बरमावृत्य शरजालानि भागशः। अदृश्यन्त तथान्ये च निघ्नन्तस्तव वाहिनीम् ॥८-५८-३॥
स पक्षिसङ्घाचरितमाकाशं पूरयञ्शरैः। धनञ्जयो महाराज कुरूणामन्तकोऽभवत् ॥८-५८-४॥
ततो भल्लैः क्षुरप्रैश्च नाराचैर्निर्मलैरपि। गात्राणि प्राक्षिणोत्पार्थः शिरांसि च चकर्त ह ॥८-५८-५॥
छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः। पतितैश्च पतद्भिश्च योधैरासीत्समावृतम् ॥८-५८-६॥
धनञ्जयशराभ्यस्तैः स्यन्दनाश्वनरद्विपैः। रणभूमिरभूद्राजन्महावैतरणी यथा ॥८-५८-७॥
ईषाचक्राक्षभङ्गैश्च व्यश्वैः साश्वैश्च युध्यताम्। ससूतैर्हतसूतैश्च रथैः स्तीर्णाभवन्मही ॥८-५८-८॥
सुवर्णवर्मसंनाहैर्योधैः कनकभूषणैः। आस्थिताः कृतवर्माणो भद्रा नित्यमदा द्विपाः ॥ क्रुद्धाः क्रुद्धैर्महामात्रैः प्रेषितार्जुनमभ्ययुः ॥८-५८-९॥
चतुःशताः शरवर्षैर्हताः पेतुः किरीटिना। पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः ॥८-५८-१०॥
धनञ्जयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः। अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान् ॥८-५८-११॥
हतैर्गजमनुष्याश्वैर्भग्नैश्च बहुधा रथैः। विशस्त्रपत्रकवचैर्युद्धशौण्डैर्गतासुभिः ॥ अपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै ॥८-५८-१२॥
व्यास्फूर्जयच्च गाण्डीवं सुमहद्भैरवस्वनम्। घोरो वज्रविनिष्पेषः स्तनयित्नोरिवाम्बरे ॥८-५८-१३॥
ततः प्रादीर्यत चमूर्धनञ्जयशराहता। महावातसमाविद्धा महानौरिव सागरे ॥८-५८-१४॥
नानारूपाः प्रहरणाः शरा गाण्डीवचोदिताः। अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन् ॥८-५८-१५॥
महागिरौ वेणुवनं निशि प्रज्वलितं यथा। तथा तव महत्सैन्यं प्रास्फुरच्छरपीडितम् ॥८-५८-१६॥
सम्पिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना। हतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः ॥८-५८-१७॥
महावने मृगगणा दावाग्निग्रसिता यथा। कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना ॥८-५८-१८॥
उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे। बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम् ॥८-५८-१९॥
ततः कुरुषु भग्नेषु बीभत्सुरपराजितः। भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत ॥८-५८-२०॥
समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः। विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम् ॥८-५८-२१॥
भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनञ्जयः। नादयन्रथघोषेण पृथिवीं द्यां च भारत ॥८-५८-२२॥
ततः परिवृतो भीमैर्दशभिः शत्रुपुङ्गवैः। दुःशासनादवरजैस्तव पुत्रैर्धनञ्जयः ॥८-५८-२३॥
ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम्। आततेष्वसनाः क्रूरा नृत्यन्त इव भारत ॥८-५८-२४॥
अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः। ततस्ते प्राद्रवञ्शूराः पराङ्मुखरथेऽर्जुने ॥८-५८-२५॥
तेषामापततां केतून्रथांश्चापानि सायकान्। नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यपातयत् ॥८-५८-२६॥
अथान्यैर्दशभिर्भल्लैः शिरांस्येषां न्यपातयत्। रोषसंरक्तनेत्राणि संदष्टौष्ठानि भूतले ॥ तानि वक्त्राणि विबभुर्व्योम्नि तारागणा इव ॥८-५८-२७॥
तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान्। रुक्माङ्गदान्रुक्मपुङ्खैर्विद्ध्वा प्रायादमित्रहा ॥८-५८-२८॥