Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.062
Pancharatra and Core: Bhima kills the other brothers as well, while Karna watches on as a meek spectator fearing Bhima. Arjuna kills Vṛṣasena.
सञ्जय उवाच॥
दुःशासने तु निहते पुत्रास्तव महारथाः। महाक्रोधविषा वीराः समरेष्वपलायिनः ॥ दश राजन्महावीर्यो भीमं प्राच्छादयञ्शरैः ॥८-६२-१॥
कवची निषङ्गी पाशी दण्डधारो धनुर्धरः। अलोलुपः शलः सन्धो वातवेगसुवर्चसौ ॥८-६२-२॥
एते समेत्य सहिता भ्रातृव्यसनकर्शिताः। भीमसेनं महाबाहुं मार्गणैः समवारयन् ॥८-६२-३॥
स वार्यमाणो विशिखैः समन्तात्तैर्महारथैः। भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ ॥८-६२-४॥
तांस्तु भल्लैर्महावेगैर्दशभिर्दशभिः शितैः। रुक्माङ्गदो रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम् ॥८-६२-५॥
हतेषु तेषु वीरेषु प्रदुद्राव बलं तव। पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम् ॥८-६२-६॥
ततः कर्णो महाराज प्रविवेश महारणम्। दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव ॥८-६२-७॥
तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः। उवाच वचनं कर्णं प्राप्तकालमरिंदम ॥ मा व्यथां कुरु राधेय नैतत्त्वय्युपपद्यते ॥८-६२-८॥
एते द्रवन्ति राजानो भीमसेनभयार्दिताः। दुर्योधनश्च संमूढो भ्रातृव्यसनदुःखितः ॥८-६२-९॥
दुःशासनस्य रुधिरे पीयमाने महात्मना। व्यापन्नचेतसश्चैव शोकोपहतमन्यवः ॥८-६२-१०॥
दुर्योधनमुपासन्ते परिवार्य समन्ततः। कृपप्रभृतयः कर्ण हतशेषाश्च सोदराः ॥८-६२-११॥
पाण्डवा लब्धलक्षाश्च धनञ्जयपुरोगमाः। त्वामेवाभिमुखाः शूरा युद्धाय समुपास्थिताः ॥८-६२-१२॥
स त्वं पुरुषशार्दूल पौरुषे महति स्थितः। क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम् ॥८-६२-१३॥
भारो हि धार्तराष्ट्रेण त्वयि सर्वः समर्पितः। तमुद्वह महाबाहो यथाशक्ति यथाबलम् ॥ जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये ॥८-६२-१४॥
वृषसेनश्च राधेय सङ्क्रुद्धस्तनयस्तव। त्वयि मोहसमापन्ने पाण्डवानभिधावति ॥८-६२-१५॥
एतच्छ्रुत्वा तु वचनं शल्यस्यामिततेजसः। हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम् ॥८-६२-१६॥
ततः क्रुद्धो वृषसेनोऽभ्यधाव; दातस्थिवांसं स्वरथं हतारिम्। वृकोदरं कालमिवात्तदण्डं; गदाहस्तं पोथमानं त्वदीयान् ॥८-६२-१७॥
तमभ्यधावन्नकुलः प्रवीरो; रोषादमित्रं प्रतुदन्पृषत्कैः। कर्णस्य पुत्रं समरे प्रहृष्टं; जिष्णुर्जिघांसुर्मघवेव जम्भम् ॥८-६२-१८॥
ततो ध्वजं स्फाटिकचित्रकम्बुं; चिच्छेद वीरो नकुलः क्षुरेण। कर्णात्मजस्येष्वसनं च चित्रं; भल्लेन जाम्बूनदपट्टनद्धम् ॥८-६२-१९॥
अथान्यदादाय धनुः सुशीघ्रं; कर्णात्मजः पाण्डवमभ्यविध्यत्। दिव्यैर्महास्त्रैर्नकुलं महास्त्रो; दुःशासनस्यापचितिं यियासुः ॥८-६२-२०॥
ततः क्रुद्धो नकुलस्तं महात्मा; शरैर्महोल्काप्रतिमैरविध्यत्। दिव्यैरस्त्रैरभ्यविध्यच्च सोऽपि; कर्णस्य पुत्रो नकुलं कृतास्त्रः ॥८-६२-२१॥
कर्णस्य पुत्रो नकुलस्य राज; न्सर्वानश्वानक्षिणोदुत्तमास्त्रैः। वनायुजान्सुकुमारस्य शुभ्रा; नलङ्कृताञ्जातरूपेण शीघ्रान् ॥८-६२-२२॥
ततो हताश्वादवरुह्य याना; दादाय चर्म रुचिरं चाष्टचन्द्रम्। आकाशसङ्काशमसिं गृहीत्वा; पोप्लूयमानः खगवच्चचार ॥८-६२-२३॥
ततोऽन्तरिक्षे नृवराश्वनागां; श्चिच्छेद मार्गान्विचरन्विचित्रान्। ते प्रापतन्नसिना गां विशस्ता; यथाश्वमेधे पशवः शमित्रा ॥८-६२-२४॥
द्विसाहस्रा विदिता युद्धशौण्डा; नानादेश्याः सुभृताः सत्यसन्धाः। एकेन शीघ्रं नकुलेन कृत्ताः; सारेप्सुनेवोत्तमचन्दनास्ते ॥८-६२-२५॥
तमापतन्तं नकुलं सोऽभिपत्य; समन्ततः सायकैरभ्यविध्यत्। स तुद्यमानो नकुलः पृषत्कै; र्विव्याध वीरं स चुकोप विद्धः ॥८-६२-२६॥
तं कर्णपुत्रो विधमन्तमेकं; नराश्वमातङ्गरथप्रवेकान्। क्रीडन्तमष्टादशभिः पृषत्कै; र्विव्याध वीरं स चुकोप विद्धः ॥८-६२-२७॥
ततोऽभ्यधावत्समरे जिघांसुः; कर्णात्मजं पाण्डुसुतो नृवीरः। तस्येषुभिर्व्यधमत्कर्णपुत्रो; महारणे चर्म सहस्रतारम् ॥८-६२-२८॥
तस्यायसं निशितं तीक्ष्णधार; मसिं विकोशं गुरुभारसाहम्। द्विषच्छरीरापहरं सुघोर; माधुन्वतः सर्पमिवोग्ररूपम् ॥८-६२-२९॥
क्षिप्रं शरैः षड्भिरमित्रसाह; श्चकर्त खड्गं निशितैः सुधारैः। पुनश्च पीतैर्निशितैः पृषत्कैः; स्तनान्तरे गाढमथाभ्यविध्यत् ॥८-६२-३०॥
स भीमसेनस्य रथं हताश्वो; माद्रीसुतः कर्णसुताभितप्तः। आपुप्लुवे सिंह इवाचलाग्रं; सम्प्रेक्षमाणस्य धनञ्जयस्य ॥८-६२-३१॥
नकुलमथ विदित्वा छिन्नबाणासनासिं; विरथमरिशरार्तं कर्णपुत्रास्त्रभग्नम्। पवनधुतपताका ह्रादिनो वल्गिताश्वा; वरपुरुषनियत्तास्ते रथाः शीघ्रमीयुः ॥८-६२-३२॥
द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा; द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः। द्विरदरथनराश्वान्सूदयन्तस्त्वदीया; न्भुजगपतिनिकाशैर्मार्गणैरात्तशस्त्राः ॥८-६२-३३॥
अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तो; हृदिकसुतकृपौ च द्रौणिदुर्योधनौ च। शकुनिशुकवृकाश्च क्राथदेवावृधौ च; द्विरदजलदघोषैः स्यन्दनैः कार्मुकैश्च ॥८-६२-३४॥
तव नरवरवर्यास्तान्दशैकं च वीरा; न्प्रवरशरवराग्र्यैस्ताडयन्तोऽभ्यरुन्धन्। नवजलदसवर्णैर्हस्तिभिस्तानुदीयु; र्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः ॥८-६२-३५॥
सुकल्पिता हैमवता मदोत्कटा; रणाभिकामैः कृतिभिः समास्थिताः। सुवर्णजालावतता बभुर्गजा; स्तथा यथा वै जलदाः सविद्युतः ॥८-६२-३६॥
कुणिन्दपुत्रो दशभिर्महायसैः; कृपं ससूताश्वमपीडयद्भृशम्। ततः शरद्वत्सुतसायकैर्हतः; सहैव नागेन पपात भूतले ॥८-६२-३७॥
कुणिन्दपुत्रावरजस्तु तोमरै; र्दिवाकरांशुप्रतिमैरयस्मयैः। रथं च विक्षोभ्य ननाद नर्दत; स्ततोऽस्य गान्धारपतिः शिरोऽहरत् ॥८-६२-३८॥
ततः कुणिन्देषु हतेषु तेष्वथ; प्रहृष्टरूपास्तव ते महारथाः। भृशं प्रदध्मुर्लवणाम्बुसम्भवा; न्परांश्च बाणासनपाणयोऽभ्ययुः ॥८-६२-३९॥
अथाभवद्युद्धमतीव दारुणं; पुनः कुरूणां सह पाण्डुसृञ्जयैः। शरासिशक्त्यृष्टिगदापरश्वधै; र्नराश्वनागासुहरं भृशाकुलम् ॥८-६२-४०॥
रथाश्वमातङ्गपदातिभिस्ततः; परस्परं विप्रहतापतन्क्षितौ। यथा सविद्युत्स्तनिता बलाहकाः; समास्थिता दिग्भ्य इवोग्रमारुतैः ॥८-६२-४१॥
ततः शतानीकहतान्महागजां; स्तथा रथान्पत्तिगणांश्च तावकान्। जघान भोजश्च हयानथापत; न्विशस्त्रकृत्ताः कृतवर्मणा द्विपाः ॥८-६२-४२॥
अथापरे द्रौणिशराहता द्विपा; स्त्रयः ससर्वायुधयोधकेतवः। निपेतुरुर्व्यां व्यसवः प्रपातिता; स्तथा यथा वज्रहता महाचलाः ॥८-६२-४३॥
कुणिन्दराजावरजादनन्तरः; स्तनान्तरे पत्रिवरैरताडयत्। तवात्मजं तस्य तवात्मजः शरैः; शितैः शरीरं बिभिदे द्विपं च तम् ॥८-६२-४४॥
स नागराजः सह राजसूनुना; पपात रक्तं बहु सर्वतः क्षरन्। शचीशवज्रप्रहतोऽम्बुदागमे; यथा जलं गैरिकपर्वतस्तथा ॥८-६२-४५॥
कुणिन्दपुत्रप्रहितोऽपरद्विपः; शुकं ससूताश्वरथं व्यपोथयत्। ततोऽपतत्क्राथशराभिदारितः; सहेश्वरो वज्रहतो यथा गिरिः ॥८-६२-४६॥
रथी द्विपस्थेन हतोऽपतच्छरैः; क्राथाधिपः पर्वतजेन दुर्जयः। सवाजिसूतेष्वसनस्तथापत; द्यथा महावातहतो महाद्रुमः ॥८-६२-४७॥
वृको द्विपस्थं गिरिराजवासिनं; भृशं शरैर्द्वादशभिः पराभिनत्। ततो वृकं साश्वरथं महाजवं; त्वरंश्चतुर्भिश्चरणे व्यपोथयत् ॥८-६२-४८॥
स नागराजः सनियन्तृकोऽपत; त्पराहतो बभ्रुसुतेषुभिर्भृशम्। स चापि देवावृधसूनुरर्दितः; पपात नुन्नः सहदेवसूनुना ॥८-६२-४९॥
विषाणपोत्रापरगात्रघातिना; गजेन हन्तुं शकुनेः कुणिन्दजः। जगाम वेगेन भृशार्दयंश्च तं; ततोऽस्य गान्धारपतिः शिरोऽहरत् ॥८-६२-५०॥
ततः शतानीकहता महागजा; हया रथाः पत्तिगणाश्च तावकाः। सुपर्णवातप्रहता यथा नगा; स्तथा गता गामवशा विचूर्णिताः ॥८-६२-५१॥
ततोऽभ्यविध्यद्बहुभिः शितैः शरैः; कुणिन्दपुत्रो नकुलात्मजं स्मयन्। ततोऽस्य कायान्निचकर्त नाकुलिः; शिरः क्षुरेणाम्बुजसंनिभाननम् ॥८-६२-५२॥
ततः शतानीकमविध्यदाशुगै; स्त्रिभिः शितैः कर्णसुतोऽर्जुनं त्रिभिः। त्रिभिश्च भीमं नकुलं च सप्तभि; र्जनार्दनं द्वादशभिश्च सायकैः ॥८-६२-५३॥
तदस्य कर्मातिमनुष्यकर्मणः; समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन्। पराक्रमज्ञास्तु धनञ्जयस्य ते; हुतोऽयमग्नाविति तं तु मेनिरे ॥८-६२-५४॥
ततः किरीटी परवीरघाती; हताश्वमालोक्य नरप्रवीरम्। तमभ्यधावद्वृषसेनमाहवे; स सूतजस्य प्रमुखे स्थितं तदा ॥८-६२-५५॥
तमापतन्तं नरवीरमुग्रं; महाहवे बाणसहस्रधारिणम्। अभ्यापतत्कर्णसुतो महारथो; यथैव चेन्द्रं नमुचिः पुरातने ॥८-६२-५६॥
ततोऽद्भुतेनैकशतेन पार्थं; शरैर्विद्ध्वा सूतपुत्रस्य पुत्रः। ननाद नादं सुमहानुभावो; विद्ध्वेव शक्रं नमुचिः पुरा वै ॥८-६२-५७॥
पुनः स पार्थं वृषसेन उग्रै; र्बाणैरविध्यद्भुजमूलमध्ये। तथैव कृष्णं नवभिः समार्दय; त्पुनश्च पार्थं दशभिः शिताग्रैः ॥८-६२-५८॥
ततः किरीटी रणमूर्ध्नि कोपा; त्कृत्वा त्रिशाखां भ्रुकुटिं ललाटे। मुमोच बाणान्विशिखान्महात्मा; वधाय राजन्सूतपुत्रस्य सङ्ख्ये ॥८-६२-५९॥
विव्याध चैनं दशभिः पृषत्कै; र्मर्मस्वसक्तं प्रसभं किरीटी। चिच्छेद चास्येष्वसनं भुजौ च; क्षुरैश्चतुर्भिः शिर एव चोग्रैः ॥८-६२-६०॥
स पार्थबाणाभिहतः पपात; रथाद्विबाहुर्विशिरा धरायाम्। सुपुष्पितः पर्णधरोऽतिकायो; वातेरितः शाल इवाद्रिशृङ्गात् ॥८-६२-६१॥
तं प्रेक्ष्य बाणाभिहतं पतन्तं; रथात्सुतं सूतजः क्षिप्रकारी। रथं रथेनाशु जगाम वेगा; त्किरीटिनः पुत्रवधाभितप्तः ॥८-६२-६२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.