Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.063
Pancharatra and Core: Desirous of witnessing the unparalleled duel between the two lion-hearted warriors, all the gods, demons, and celestial musicians gathered. Desiring battle, the banner of Arjuna, the wielder of the Gandiva bow, approached Karna's banner with a roar and spoke: Today, O Madhusudana, you will console Abhimanyu's mother, and your paternal aunt Kunti.
सञ्जय उवाच॥
वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः। मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः ॥८-६३-१॥
रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपून्। युद्धायामर्षताम्राक्षः समाहूय धनञ्जयम् ॥८-६३-२॥
तौ रथौ सूर्यसङ्काशौ वैयाघ्रपरिवारणौ। समेतौ ददृशुस्तत्र द्वाविवार्कौ समागतौ ॥८-६३-३॥
श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ। शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि ॥८-६३-४॥
तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष। त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव ॥८-६३-५॥
रथज्यातलनिर्ह्रादैर्बाणशङ्खरवैरपि। तौ रथावभिधावन्तौ समालोक्य महीक्षिताम् ॥८-६३-६॥
ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत। हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः ॥८-६३-७॥
तौ रथौ सम्प्रसक्तौ च दृष्ट्वा भारत पार्थिवाः। सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान् ॥८-६३-८॥
श्रुत्वा तु द्वैरथं ताभ्यां तत्र योधाः समन्ततः। चक्रुर्बाहुवलं चैव तथा चेलवलं महत् ॥८-६३-९॥
आजग्मुः कुरवस्तत्र वादित्रानुगतास्तदा। कर्णं प्रहर्षयन्तश्च शङ्खान्दध्मुश्च पुष्कलान् ॥८-६३-१०॥
तथैव पाण्डवाः सर्वे हर्षयन्तो धनञ्जयम्। तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन् ॥८-६३-११॥
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्। बाहुघोषाश्च वीराणां कर्णार्जुनसमागमे ॥८-६३-१२॥
तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ। प्रगृहीतमहाचापौ शरशक्तिगदायुधौ ॥८-६३-१३॥
वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभिनौ। तूणीरवरसम्पन्नौ द्वावपि स्म सुदर्शनौ ॥८-६३-१४॥
रक्तचन्दनदिग्धाङ्गौ समदौ वृषभाविव। आशीविषसमप्रख्यौ यमकालान्तकोपमौ ॥८-६३-१५॥
इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रमसप्रभौ। महाग्रहाविव क्रूरौ युगान्ते समुपस्थितौ ॥८-६३-१६॥
देवगर्भौ देवसमौ देवतुल्यौ च रूपतः। समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जयौ ॥८-६३-१७॥
उभौ वरायुधधरावुभौ रणकृतश्रमौ। उभौ च बाहुशब्देन नादयन्तौ नभस्तलम् ॥८-६३-१८॥
उभौ विश्रुतकर्माणौ पौरुषेण बलेन च। उभौ च सदृशौ युद्धे शम्बरामरराजयोः ॥८-६३-१९॥
कार्तवीर्यसमौ युद्धे तथा दाशरथेः समौ। विष्णुवीर्यसमौ वीर्ये तथा भवसमौ युधि ॥८-६३-२०॥
उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ। सारथी प्रवरौ चैव तयोरास्तां महाबलौ ॥८-६३-२१॥
तौ तु दृष्ट्वा महाराज राजमानौ महारथौ। सिद्धचारणसङ्घानां विस्मयः समपद्यत ॥८-६३-२२॥
धार्तराष्ट्रास्ततः कर्णं सबला भरतर्षभ। परिवव्रुर्महात्मानं क्षिप्रमाहवशोभिनम् ॥८-६३-२३॥
तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः। परिवव्रुर्महात्मानं पार्थमप्रतिमं युधि ॥८-६३-२४॥
तावकानां रणे कर्णो ग्लह आसीद्विशां पते। तथैव पाण्डवेयानां ग्लहः पार्थोऽभवद्युधि ॥८-६३-२५॥
त एव सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्स्म ते। तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ ॥८-६३-२६॥
ताभ्यां द्यूतं समायत्तं विजयायेतराय वा। अस्माकं पण्डवानां च स्थितानां रणमूर्धनि ॥८-६३-२७॥
तौ तु स्थितौ महाराज समरे युद्धशालिनौ। अन्योन्यं प्रतिसंरब्धावन्योन्यस्य जयैषिणौ ॥८-६३-२८॥
तावुभौ प्रजिहीर्षेतामिन्द्रवृत्राविवाभितः। भीमरूपधरावास्तां महाधूमाविव ग्रहौ ॥८-६३-२९॥
ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ। मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे ॥ व्याश्रयन्त दिशो भिन्नाः सर्वलोकाश्च मारिष ॥८-६३-३०॥
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः। प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे ॥८-६३-३१॥
द्यौरासीत्कर्णतो व्यग्रा सनक्षत्रा विशां पते। भूमिर्विशाला पार्थस्य माता पुत्रस्य भारत ॥८-६३-३२॥
सरितः सागराश्चैव गिरयश्च नरोत्तम। वृक्षाश्चौषधयस्तत्र व्याश्रयन्त किरीटिनम् ॥८-६३-३३॥
असुरा यातुधानाश्च गुह्यकाश्च परन्तप। कर्णतः समपद्यन्त खेचराणि वयांसि च ॥८-६३-३४॥
रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः। सोपवेदोपनिषदः सरहस्याः ससङ्ग्रहाः ॥८-६३-३५॥
वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः। पर्वताश्च तथा सर्वे काद्रवेयाश्च सान्वयाः ॥ विषवन्तो महारोषा नागाश्चार्जुनतोऽभवन् ॥८-६३-३६॥
ऐरावताः सौरभेया वैशालेयाश्च भोगिनः। एतेऽभवन्नर्जुनतः क्षुद्रसर्पास्तु कर्णतः ॥८-६३-३७॥
ईहामृगा व्याडमृगा मङ्गल्याश्च मृगद्विजाः। पार्थस्य विजयं राजन्सर्व एवाभिसंश्रिताः ॥८-६३-३८॥
वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा। अग्निरिन्द्रश्च सोमश्च पवनश्च दिशो दश ॥ धनञ्जयमुपाजग्मुरादित्याः कर्णतोऽभवन् ॥८-६३-३९॥
देवास्तु पितृभिः सार्धं सगणार्जुनतोऽभवन्। यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः ॥८-६३-४०॥
देवब्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन्। तुम्बुरुप्रमुखा राजन्गन्धर्वाश्च यतोऽर्जुनः ॥८-६३-४१॥
प्रावेयाः सह मौनेयैर्गन्धर्वाप्सरसां गणाः। ईहामृगव्याडमृगैर्द्विपाश्च रथपत्तिभिः ॥८-६३-४२॥
उह्यमानास्तथा मेघैर्वायुना च मनीषिणः। दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् ॥८-६३-४३॥
देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः। महर्षयो वेदविदः पितरश्च स्वधाभुजः ॥८-६३-४४॥
तपो विद्यास्तथौषध्यो नानारूपाम्बरत्विषः। अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे ॥८-६३-४५॥
ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च। भवेनावस्थितो यानं दिव्यं तं देशमभ्ययात् ॥८-६३-४६॥
दृष्ट्वा प्रजापतिं देवाः स्वयम्भुवमुपागमन्। समोऽस्तु देव विजय एतयोर्नरसिंहयोः ॥८-६३-४७॥
तदुपश्रुत्य मघवा प्रणिपत्य पितामहम्। कर्णार्जुनविनाशेन मा नश्यत्वखिलं जगत् ॥८-६३-४८॥
स्वयम्भो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः। तत्तथास्तु नमस्तेऽस्तु प्रसीद भगवन्मम ॥८-६३-४९॥
ब्रह्मेशानावथो वाक्यमूचतुस्त्रिदशेश्वरम्। विजयो ध्रुव एवास्तु विजयस्य महात्मनः ॥८-६३-५०॥
मनस्वी बलवाञ्शूरः कृतास्त्रश्च तपोधनः। बिभर्ति च महातेजा धनुर्वेदमशेषतः ॥८-६३-५१॥
अतिक्रमेच्च माहात्म्याद्दिष्टमेतस्य पर्ययात्। अतिक्रान्ते च लोकानामभावो नियतो भवेत् ॥८-६३-५२॥
न विद्यते व्यवस्थानं कृष्णयोः क्रुद्धयोः क्वचित्। स्रष्टारौ ह्यसतश्चोभौ सतश्च पुरुषर्षभौ ॥८-६३-५३॥
नरनारायणावेतौ पुराणावृषिसत्तमौ। अनियत्तौ नियन्तारावभीतौ स्म परन्तपौ ॥८-६३-५४॥
कर्णो लोकानयं मुख्यान्प्राप्नोतु पुरुषर्षभः। वीरो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः ॥८-६३-५५॥
वसूनां च सलोकत्वं मरुतां वा समाप्नुयात्। सहितो द्रोणभीष्माभ्यां नाकलोके महीयताम् ॥८-६३-५६॥
इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः। आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात् ॥८-६३-५७॥
श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम्। तत्तथा नान्यथा तद्धि तिष्ठध्वं गतमन्यवः ॥८-६३-५८॥
इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष। विस्मितान्यभवन्राजन्पूजयां चक्रिरे च तत् ॥८-६३-५९॥
वयसृजंश्च सुगन्धीनि नानारूपाणि खात्तथा। पुष्पवर्षाणि विबुधा देवतूर्याण्यवादयन् ॥८-६३-६०॥
दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः। देवदानवगन्धर्वाः सर्व एवावतस्थिरे ॥ रथौ च तौ श्वेतहयौ युक्तकेतू महास्वनौ ॥८-६३-६१॥
समागता लोकवीराः शङ्खान्दध्मुः पृथक्पृथक्। वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत ॥८-६३-६२॥
तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा। अन्योन्यस्पर्धिनोर्वीर्ये शक्रशम्बरयोरिव ॥८-६३-६३॥
तयोर्ध्वजौ वीतमालौ शुशुभाते रथस्थितौ। पृथग्रूपौ समार्छन्तौ क्रोधं युद्धे परस्परम् ॥८-६३-६४॥
कर्णस्याशीविषनिभा रत्नसारवती दृढा। पुरंदरधनुःप्रख्या हस्तिकक्ष्या व्यराजत ॥८-६३-६५॥
कपिश्रेष्ठस्तु पार्थस्य व्यादितास्यो भयङ्करः। भीषयन्नेव दंष्ट्राभिर्दुर्निरीक्ष्यो रविर्यथा ॥८-६३-६६॥
युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः। कर्णध्वजमुपातिष्ठत्सोऽवदीदभिनर्दयन् ॥८-६३-६७॥
उत्पत्य च महावेगः कक्ष्यामभ्यहनत्कपिः। नखैश्च दशनैश्चैव गरुडः पन्नगं यथा ॥८-६३-६८॥
सुकिङ्किणीकाभरणा कालपाशोपमायसी। अभ्यद्रवत्सुसङ्क्रुद्धा नागकक्ष्या महाकपिम् ॥८-६३-६९॥
उभयोरुत्तमे युद्धे द्वैरथे द्यूत आहृते। प्रकुर्वाते ध्वजौ युद्धं प्रत्यहेषन्हयान्हयाः ॥८-६३-७०॥
अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः। स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत ॥८-६३-७१॥
तत्राजयद्वासुदेवः शल्यं नयनसायकैः। कर्णं चाप्यजयद्दृष्ट्या कुन्तीपुत्रो धनञ्जयः ॥८-६३-७२॥
अथाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम्। यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् ॥ किमुत्तरं तदा ते स्यात्सखे सत्यं ब्रवीहि मे ॥८-६३-७३॥
शल्य उवाच॥
यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः। उभावेकरथेनाहं हन्यां माधवपाण्डवौ ॥८-६३-७४॥
सञ्जय उवाच॥
एवमेव तु गोविंदमर्जुनः प्रत्यभाषत। तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः ॥८-६३-७५॥
पतेद्दिवाकरः स्थानाच्छीर्येतानेकधा क्षितिः। शैत्यमग्निरियान्न त्वा कर्णो हन्याद्धनञ्जयम् ॥८-६३-७६॥
यदि त्वेवं कथञ्चित्स्याल्लोकपर्यसनं यथा। हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे ॥८-६३-७७॥
इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः। अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् ॥ ममाप्येतावपर्याप्तौ कर्णशल्यौ जनार्दन ॥८-६३-७८॥
सपताकाध्वजं कर्णं सशल्यरथवाजिनम्। सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् ॥८-६३-७९॥
द्रष्टास्यद्य शरैः कर्णं रणे कृत्तमनेकधा। अद्यैनं सरथं साश्वं सशक्तिकवचायुधम् ॥ न हि मे शाम्यते वैरं कृष्णां यत्प्राहसत्पुरा ॥८-६३-८०॥
अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया। वारणेनेव मत्तेन पुष्पितं जगतीरुहम् ॥८-६३-८१॥
अद्य ता मधुरा वाचः श्रोतासि मधुसूदन। अद्याभिमन्युजननीमनृणः सान्त्वयिष्यसि ॥ कुन्तीं पितृष्वसारं च सम्प्रहृष्टो जनार्दन ॥८-६३-८२॥
अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव। वाग्भिश्चामृतकल्पाभिर्धर्मराजं युधिष्ठिरम् ॥८-६३-८३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.