08.064
Pancharatra and Core: Duryodhana rejects the last-minute advice by Ashwatthama to broker peace, remembering with hate Duḥśāsana's demise and believing Karna will kill Arjuna.
सञ्जय उवाच॥
तद्देवनागासुरसिद्धसङ्घै; र्गन्धर्वयक्षाप्सरसां च सङ्घैः। ब्रह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद्विस्मयनीयरूपम् ॥८-६४-१॥
नानद्यमानं निनदैर्मनोज्ञै; र्वादित्रगीतस्तुतिभिश्च नृत्तैः। सर्वेऽन्तरिक्षे ददृशुर्मनुष्याः; खस्थांश्च तान्विस्मयनीयरूपान् ॥८-६४-२॥
ततः प्रहृष्टाः कुरुपाण्डुयोधा; वादित्रपत्रायुधसिंहनादैः। निनादयन्तो वसुधां दिशश्च; स्वनेन सर्वे द्विषतो निजघ्नुः ॥८-६४-३॥
नानाश्वमातङ्गरथायुताकुलं; वरासिशक्त्यृष्टिनिपातदुःसहम्। अभीरुजुष्टं हतदेहसङ्कुलं; रणाजिरं लोहितरक्तमाबभौ ॥८-६४-४॥
तथा प्रवृत्तेऽस्त्रभृतां पराभवे; धनञ्जयश्चाधिरथिश्च सायकैः। दिशश्च सैन्यं च शितैरजिह्मगैः; परस्परं प्रोर्णुवतुः स्म दंशितौ ॥८-६४-५॥
ततस्त्वदीयाश्च परे च सायकैः; कृतेऽन्धकारे विविदुर्न किञ्चन। भयात्तु तावेव रथौ समाश्रयं; स्तमोनुदौ खे प्रसृता इवांशवः ॥८-६४-६॥
ततोऽस्त्रमस्त्रेण परस्परस्य तौ; विधूय वाताविव पूर्वपश्चिमौ। घनान्धकारे वितते तमोनुदौ; यथोदितौ तद्वदतीव रेजतुः ॥८-६४-७॥
न चाभिमन्तव्यमिति प्रचोदिताः; परे त्वदीयाश्च तदावतस्थिरे। महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासवशम्बराविव ॥८-६४-८॥
मृदङ्गभेरीपणवानकस्वनै; र्निनादिते भारत शङ्खनिस्वनैः। ससिंहनादौ बभतुर्नरोत्तमौ; शशाङ्कसूर्याविव मेघसम्प्लवे ॥८-६४-९॥
महाधनुर्मण्डलमध्यगावुभौ; सुवर्चसौ बाणसहस्ररश्मिनौ। दिधक्षमाणौ सचराचरं जग; द्युगास्तसूर्याविव दुःसहौ रणे ॥८-६४-१०॥
उभावजेयावहितान्तकावुभौ; जिघांसतुस्तौ कृतिनौ परस्परम्। महाहवे वीरवरौ समीयतु; र्यथेन्द्रजम्भाविव कर्णपाण्डवौ ॥८-६४-११॥
ततो महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाविषुभिर्भयानकैः। नराश्वनागानमितौ निजघ्नतुः; परस्परं जघ्नतुरुत्तमेषुभिः ॥८-६४-१२॥
ततो विसस्रुः पुनरर्दिताः शरै; र्नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः। सनागपत्त्यश्वरथा दिशो गता; स्तथा यथा सिंहभयाद्वनौकसः ॥८-६४-१३॥
ततस्तु दुर्योधनभोजसौबलाः; कृपश्च शारद्वतसूनुना सह। महारथाः पञ्च धनञ्जयाच्युतौ; शरैः शरीरान्तकरैरताडयन् ॥८-६४-१४॥
धनूंषि तेषामिषुधीन्हयान्ध्वजा; न्रथांश्च सूतांश्च धनञ्जयः शरैः। समं च चिच्छेद पराभिनच्च ता; ञ्शरोत्तमैर्द्वादशभिश्च सूतजम् ॥८-६४-१५॥
अथाभ्यधावंस्त्वरिताः शतं रथाः; शतं च नागार्जुनमाततायिनः। शकास्तुखारा यवनाश्च सादिनः; सहैव काम्बोजवरैर्जिघांसवः ॥८-६४-१६॥
वरायुधान्पाणिगतान्करैः सह; क्षुरैर्न्यकृन्तंस्त्वरिताः शिरांसि च। हयांश्च नागांश्च रथांश्च युध्यतां; धनञ्जयः शत्रुगणं तमक्षिणोत् ॥८-६४-१७॥
ततोऽन्तरिक्षे सुरतूर्यनिस्वनाः; ससाधुवादा हृषितैः समीरिताः। निपेतुरप्युत्तमपुष्पवृष्टयः; सुरूपगन्धाः पवनेरिताः शिवाः ॥८-६४-१८॥
तदद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मियुर्नृप। तवात्मजः सूतसुतश्च न व्यथां; न विस्मयं जग्मतुरेकनिश्चयौ ॥८-६४-१९॥
अथाब्रवीद्द्रोणसुतस्तवात्मजं; करं करेण प्रतिपीड्य सान्त्वयन्। प्रसीद दुर्योधन शाम्य पाण्डवै; रलं विरोधेन धिगस्तु विग्रहम् ॥८-६४-२०॥
हतो गुरुर्ब्रह्मसमो महास्त्रवि; त्तथैव भीष्मप्रमुखा नरर्षभाः। अहं त्ववध्यो मम चापि मातुलः; प्रशाधि राज्यं सह पाण्डवैश्चिरम् ॥८-६४-२१॥
धनञ्जयः स्थास्यति वारितो मया; जनार्दनो नैव विरोधमिच्छति। युधिष्ठिरो भूतहिते सदा रतो; वृकोदरस्तद्वशगस्तथा यमौ ॥८-६४-२२॥
त्वया च पार्थैश्च परस्परेण; प्रजाः शिवं प्राप्नुयुरिच्छति त्वयि। व्रजन्तु शेषाः स्वपुराणि पार्थिवा; निवृत्तवैराश्च भवन्तु सैनिकाः ॥८-६४-२३॥
न चेद्वचः श्रोष्यसि मे नराधिप; ध्रुवं प्रतप्तासि हतोऽरिभिर्युधि। इदं च दृष्टं जगता सह त्वया; कृतं यदेकेन किरीटमालिना ॥ यथा न कुर्याद्बलभिन्न चान्तको; न च प्रचेता भगवान्न यक्षराट् ॥८-६४-२४॥
अतोऽपि भूयांश्च गुणैर्धनञ्जयः; स चाभिपत्स्यत्यखिलं वचो मम। तवानुयात्रां च तथा करिष्यति; प्रसीद राजञ्जगतः शमाय वै ॥८-६४-२५॥
ममापि मानः परमः सदा त्वयि; ब्रवीम्यतस्त्वां परमाच्च सौहृदात्। निवारयिष्यामि हि कर्णमप्यहं; यदा भवान्सप्रणयो भविष्यति ॥८-६४-२६॥
वदन्ति मित्रं सहजं विचक्षणा; स्तथैव साम्ना च धनेन चार्जितम्। प्रतापतश्चोपनतं चतुर्विधं; तदस्ति सर्वं त्वयि पाण्डवेषु च ॥८-६४-२७॥
निसर्गतस्ते तव वीर बान्धवाः; पुनश्च साम्ना च समाप्नुहि स्थिरम्। त्वयि प्रसन्ने यदि मित्रतामियु; र्ध्रुवं नरेन्द्रेन्द्र तथा त्वमाचर ॥८-६४-२८॥
स एवमुक्तः सुहृदा वचो हितं; विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत्। यथा भवानाह सखे तथैव त; न्ममापि च ज्ञापयतो वचः शृणु ॥८-६४-२९॥
निहत्य दुःशासनमुक्तवान्बहु; प्रसह्य शार्दूलवदेष दुर्मतिः। वृकोदरस्तद्धृदये मम स्थितं; न तत्परोक्षं भवतः कुतः शमः ॥८-६४-३०॥
न चापि कर्णं गुरुपुत्र संस्तवा; दुपारमेत्यर्हसि वक्तुमच्युत। श्रमेण युक्तो महताद्य फल्गुन; स्तमेष कर्णः प्रसभं हनिष्यति ॥८-६४-३१॥
तमेवमुक्त्वाभ्यनुनीय चासकृ; त्तवात्मजः स्वाननुशास्ति सैनिकान्। समाघ्नताभिद्रवताहितानिमा; न्सबाणशब्दान्किमु जोषमास्यते ॥८-६४-३२॥