08.065
Pancharatra and Core: The duet starts between Karna and Arjuna, with initial hesitation displayed by Arjuna. Bhima, in anger, instils rage in Arjuna, resulting in the remaining Kurus fleeing, leaving Karna behind.
सञ्जय उवाच॥
तौ शङ्खभेरीनिनदे समृद्धे; समीयतुः श्वेतहयौ नराग्र्यौ। वैकर्तनः सूतपुत्रोऽर्जुनश्च; दुर्मन्त्रिते तव पुत्रस्य राजन् ॥८-६५-१॥
यथा गजौ हैमवतौ प्रभिन्नौ; प्रगृह्य दन्ताविव वाशितार्थे। तथा समाजग्मतुरुग्रवेगौ; धनञ्जयश्चाधिरथिश्च वीरौ ॥८-६५-२॥
बलाहकेनेव यथा बलाहको; यदृच्छया वा गिरिणा गिरिर्यथा। तथा धनुर्ज्यातलनेमिनिस्वनौ; समीयतुस्ताविषुवर्षवर्षिणौ ॥८-६५-३॥
प्रवृद्धशृङ्गद्रुमवीरुदोषधी; प्रवृद्धनानाविधपर्वतौकसौ। यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैरितरेतरं घ्नतः ॥८-६५-४॥
स संनिपातस्तु तयोर्महानभू; त्सुरेशवैरोचनयोर्यथा पुरा। शरैर्विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहोऽन्यैः पटुशोणितोदकः ॥८-६५-५॥
प्रभूतपद्मोत्पलमत्स्यकच्छपौ; महाह्रदौ पक्षिगणानुनादितौ। सुसंनिकृष्टावनिलोद्धतौ यथा; तथा रथौ तौ ध्वजिनौ समीयतुः ॥८-६५-६॥
उभौ महेन्द्रस्य समानविक्रमा; वुभौ महेन्द्रप्रतिमौ महारथौ। महेन्द्रवज्रप्रतिमैश्च सायकै; र्महेन्द्रवृत्राविव सम्प्रजह्रतुः ॥८-६५-७॥
सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बरस्रजे। चकम्पतुश्चोन्नमतः स्म विस्मया; द्वियद्गताश्चार्जुनकर्णसंयुगे ॥८-६५-८॥
भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंहनादा हृषितैर्दिदृक्षुभिः। यदार्जुनं मत्तमिव द्विपो द्विपं; समभ्ययादाधिरथिर्जिघांसया ॥८-६५-९॥
अभ्यक्रोशन्सोमकास्तत्र पार्थं; त्वरस्व याह्यर्जुन विध्य कर्णम्। छिन्ध्यस्य मूर्धानमलं चिरेण; श्रद्धां च राज्याद्धृतराष्ट्रसूनोः ॥८-६५-१०॥
तथास्माकं बहवस्तत्र योधाः; कर्णं तदा याहि याहीत्यवोचन्। जह्यर्जुनं कर्ण ततः सचीराः; पुनर्वनं यान्तु चिराय पार्थाः ॥८-६५-११॥
ततः कर्णः प्रथमं तत्र पार्थं; महेषुभिर्दशभिः पर्यविध्यत्। तमर्जुनः प्रत्यविध्यच्छिताग्रैः; कक्षान्तरे दशभिरतीव क्रुद्धः ॥८-६५-१२॥
परस्परं तौ विशिखैः सुतीक्ष्णै; स्ततक्षतुः सूतपुत्रोऽर्जुनश्च। परस्परस्यान्तरेप्सू विमर्दे; सुभीममभ्याययतुः प्रहृष्टौ ॥८-६५-१३॥
अमृष्यमाणश्च महाविमर्दे; तत्राक्रुध्यद्भीमसेनो महात्मा। अथाब्रवीत्पाणिना पाणिमाघ्न; न्संदष्टौष्ठो नृत्यति वादयन्निव ॥ कथं नु त्वां सूतपुत्रः किरीटि; न्महेषुभिर्दशभिरविध्यदग्रे ॥८-६५-१४॥
यया धृत्या सर्वभूतान्यजैषी; र्ग्रासं ददद्वह्नये खाण्डवे त्वम्। तया धृत्या सूतपुत्रं जहि त्व; महं वैनं गदया पोथयिष्ये ॥८-६५-१५॥
अथाब्रवीद्वासुदेवोऽपि पार्थं; दृष्ट्वा रथेषून्प्रतिहन्यमानान्। अमीमृदत्सर्वथा तेऽद्य कर्णो; ह्यस्त्रैरस्त्राणि किमिदं किरीटिन् ॥८-६५-१६॥
स वीर किं मुह्यसि नावधीयसे; नदन्त्येते कुरवः सम्प्रहृष्टाः। कर्णं पुरस्कृत्य विदुर्हि सर्वे; त्वदस्त्रमस्त्रैर्विनिपात्यमानम् ॥८-६५-१७॥
यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश्चापि घोराः। दम्भोद्भवाश्चासुराश्चाहवेषु; तया धृत्या त्वं जहि सूतपुत्रम् ॥८-६५-१८॥
अनेन वास्य क्षुरनेमिनाद्य; सञ्छिन्द्धि मूर्धानमरेः प्रसह्य। मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रो नमुचेरिवारेः ॥८-६५-१९॥
किरातरूपी भगवान्यया च; त्वया महत्या परितोषितोऽभूत्। तां त्वं धृतिं वीर पुनर्गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम् ॥८-६५-२०॥
ततो महीं सागरमेखलां त्वं; सपत्तनां ग्रामवतीं समृद्धाम्। प्रयच्छ राज्ञे निहतारिसङ्घां; यशश्च पार्थातुलमाप्नुहि त्वम् ॥८-६५-२१॥
सञ्चोदितो भीमजनार्दनाभ्यां; स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम्। महात्मनश्चागमने विदित्वा; प्रयोजनं केशवमित्युवाच ॥८-६५-२२॥
प्रादुष्करोम्येष महास्त्रमुग्रं; शिवाय लोकस्य वधाय सौतेः। तन्मेऽनुजानातु भवान्सुराश्च; ब्रह्मा भवो ब्रह्मविदश्च सर्वे ॥८-६५-२३॥
ित्यूचिवान्ब्राह्ममसह्यमस्त्रं; प्रादुश्चक्रे मनसा संविधेयम्। ततो दिशश्च प्रदिशश्च सर्वाः; समावृणोत्सायकैर्भूरितेजाः ॥ ससर्ज बाणान्भरतर्षभोऽपि; शतंशतानेकवदाशुवेगान् ॥८-६५-२४॥
वैकर्तनेनापि तथाजिमध्ये; सहस्रशो बाणगणा विसृष्टाः। ते घोषिणः पाण्डवमभ्युपेयुः; पर्जन्यमुक्ता इव वारिधाराः ॥८-६५-२५॥
स भीमसेनं च जनार्दनं च; किरीटिनं चाप्यमनुष्यकर्मा। त्रिभिस्त्रिभिर्भीमबलो निहत्य; ननाद घोरं महता स्वरेण ॥८-६५-२६॥
स कर्णबाणाभिहतः किरीटी; भीमं तथा प्रेक्ष्य जनार्दनं च। अमृष्यमाणः पुनरेव पार्थः; शरान्दशाष्टौ च समुद्बबर्ह ॥८-६५-२७॥
सुषेणमेकेन शरेण विद्ध्वा; शल्यं चतुर्भिस्त्रिभिरेव कर्णम्। ततः सुमुक्तैर्दशभिर्जघान; सभापतिं काञ्चनवर्मनद्धम् ॥८-६५-२८॥
स राजपुत्रो विशिरा विबाहु; र्विवाजिसूतो विधनुर्विकेतुः। ततो रथाग्रादपतत्प्रभग्नः; परश्वधैः शाल इवाभिकृत्तः ॥८-६५-२९॥
पुनश्च कर्णं त्रिभिरष्टभिश्च; द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा। चतुःशतान्द्विरदान्सायुधीया; न्हत्वा रथानष्टशतं जघान ॥ सहस्रमश्वांश्च पुनश्च सादी; नष्टौ सहस्राणि च पत्तिवीरान् ॥८-६५-३०॥
दृष्ट्वाजिमुख्यावथ युध्यमानौ; दिदृक्षवः शूरवरावरिघ्नौ। कर्णं च पार्थं च नियम्य वाहा; न्खस्था महीस्थाश्च जनावतस्थुः ॥८-६५-३१॥
ततो धनुर्ज्या सहसातिकृष्टा; सुघोषमाच्छिद्यत पाण्डवस्य। तस्मिन्क्षणे सूतपुत्रस्तु पार्थं; समाचिनोत्क्षुद्रकाणां शतेन ॥८-६५-३२॥
निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णै; स्तैलप्रधौतैः खगपत्रवाजैः। षष्ट्या नाराचैर्वासुदेवं बिभेद; तदन्तरं सोमकाः प्राद्रवन्त ॥८-६५-३३॥
ततो धनुर्ज्यामवधम्य शीघ्रं; शरानस्तानाधिरथेर्विधम्य। सुसंरब्धः कर्णशरक्षताङ्गो; रणे पार्थः सोमकान्प्रत्यगृह्णात् ॥ न पक्षिणः सम्पतन्त्यन्तरिक्षे; क्षेपीयसास्त्रेण कृतेऽन्धकारे ॥८-६५-३४॥
शल्यं च पार्थो दशभिः पृषत्कै; र्भृशं तनुत्रे प्रहसन्नविध्यत्। ततः कर्णं द्वादशभिः सुमुक्तै; र्विद्ध्वा पुनः सप्तभिरभ्यविध्यत् ॥८-६५-३५॥
स पार्थबाणासनवेगनुन्नै; र्दृढाहतः पत्रिभिरुग्रवेगैः। विभिन्नगात्रः क्षतजोक्षिताङ्गः; कर्णो बभौ रुद्र इवाततेषुः ॥८-६५-३६॥
ततस्त्रिभिश्च त्रिदशाधिपोपमं; शरैर्बिभेदाधिरथिर्धनञ्जयम्। शरांस्तु पञ्च ज्वलितानिवोरगान्प्रवीरयामास जिघांसुरच्युते ॥८-६५-३७॥
ते वर्म भित्त्वा पुरुषोत्तमस्य; सुवर्णचित्रं न्यपतन्सुमुक्ताः। वेगेन गामाविविशुः सुवेगाः; स्नात्वा च कर्णाभिमुखाः प्रतीयुः ॥८-६५-३८॥
तान्पञ्चभल्लैस्त्वरितैः सुमुक्तै; स्त्रिधा त्रिधैकैकमथोच्चकर्त। धनञ्जयस्ते न्यपतन्पृथिव्यां; महाहयस्तक्षकपुत्रपक्षाः ॥८-६५-३९॥
ततः प्रजज्वाल किरीटमाली; क्रोधेन कक्षं प्रदहन्निवाग्निः। स कर्णमाकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर्ज्वलद्भिः ॥ मर्मस्वविध्यत्स चचाल दुःखा; द्धैर्यात्तु तस्थावतिमात्रधैर्यः ॥८-६५-४०॥
ततः शरौघैः प्रदिशो दिशश्च; रविप्रभा कर्णरथश्च राजन्। अदृश्य आसीत्कुपिते धनञ्जये; तुषारनीहारवृतं यथा नभः ॥८-६५-४१॥
स चक्ररक्षानथ पादरक्षा; न्पुरःसरान्पृष्ठगोपांश्च सर्वान्। दुर्योधनेनानुमतानरिघ्ना; न्समुच्चितान्सुरथान्सारभूतान् ॥८-६५-४२॥
द्विसाहस्रान्समरे सव्यसाची; कुरुप्रवीरानृषभः कुरूणाम्। क्षणेन सर्वान्सरथाश्वसूता; न्निनाय राजन्क्षयमेकवीरः ॥८-६५-४३॥
अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश्चावशिष्टाः। हतानवाकीर्य शरक्षतांश्च; लालप्यमानांस्तनयान्पितॄंश्च ॥८-६५-४४॥
स सर्वतः प्रेक्ष्य दिशो विशून्या; भयावदीर्णैः कुरुभिर्विहीनः। न विव्यथे भारत तत्र कर्णः; प्रतीपमेवार्जुनमभ्यधावत् ॥८-६५-४५॥