08.066
Pancharatra and Core: Karna's special snake arrow misses the mark, helped by Krishna's manoeuvre, and hits Arjuna's crown. Arjuna dislodges Karna's armour, and Karna's chariot wheel gets stuck in a pit. Karna asks for a moment of time for him to dislodge his chariot, taking dharma's shelter.
सञ्जय उवाच॥
ततोऽपयाताः शरपातमात्र; मवस्थिताः कुरवो भिन्नसेनाः। विद्युत्प्रकाशं ददृशुः समन्ता; द्धनञ्जयास्त्रं समुदीर्यमाणम् ॥८-६६-१॥
तदर्जुनास्त्रं ग्रसते स्म वीरा; न्वियत्तथाकाशमनन्तघोषम्। क्रुद्धेन पार्थेन तदाशु सृष्टं; वधाय कर्णस्य महाविमर्दे ॥८-६६-२॥
रामादुपात्तेन महामहिम्ना; आथर्वणेनारिविनाशनेन। तदर्जुनास्त्रं व्यधमद्दहन्तं; पार्थं च बाणैर्निशितैर्निजघ्ने ॥८-६६-३॥
ततो विमर्दः सुमहान्बभूव; तस्यार्जुनस्याधिरथेश्च राजन्। अन्योन्यमासादयतोः पृषत्कै; र्विषाणघातैर्द्विपयोरिवोग्रैः ॥८-६६-४॥
ततो रिपुघ्नं समधत्त कर्णः; सुसंशितं सर्पमुखं ज्वलन्तम्। रौद्रं शरं संयति सुप्रधौतं; पार्थार्थमत्यर्थचिराय गुप्तम् ॥८-६६-५॥
सदार्चितं चन्दनचूर्णशायिनं; सुवर्णनालीशयनं महाविषम्। प्रदीप्तमैरावतवंशसम्भवं; शिरो जिहीर्षुर्युधि फल्गुनस्य ॥८-६६-६॥
तमब्रवीन्मद्रराजो महात्मा; वैकर्तनं प्रेक्ष्य हि संहितेषुम्। न कर्ण ग्रीवामिषुरेष प्राप्स्यते; संलक्ष्य सन्धत्स्व शरं शिरोघ्नम् ॥८-६६-७॥
अथाब्रवीत्क्रोधसंरक्तनेत्रः; कर्णः शल्यं सन्धितेषुः प्रसह्य। न सन्धत्ते द्विः शरं शल्य कर्णो; न मादृशाः शाठ्ययुक्ता भवन्ति ॥८-६६-८॥
तथैवमुक्त्वा विससर्ज तं शरं; बलाहकं वर्षघनाभिपूजितम्। हतोऽसि वै फल्गुन इत्यवोच; त्ततस्त्वरन्नूर्जितमुत्ससर्ज ॥८-६६-९॥
सन्धीयमानं भुजगं दृष्ट्वा कर्णेन माधवः। आक्रम्य स्यन्दनं पद्भ्यां बलेन बलिनां वरः ॥८-६६-१०॥
अवगाढे रथे भूमौ जानुभ्यामगमन्हयाः। ततः शरः सोऽभ्यहनत्किरीटं तस्य धीमतः ॥८-६६-११॥
अथार्जुनस्योत्तमगात्रभूषणं; धरावियद्द्योसलिलेषु विश्रुतम्। बलास्त्रसर्गोत्तमयत्नमन्युभिः; शरेण मूर्ध्नः स जहार सूतजः ॥८-६६-१२॥
दिवाकरेन्दुज्वलनग्रहत्विषं; सुवर्णमुक्तामणिजालभूषितम्। पुरंदरार्थं तपसा प्रयत्नतः; स्वयं कृतं यद्भुवनस्य सूनुना ॥८-६६-१३॥
महार्हरूपं द्विषतां भयङ्करं; विभाति चात्यर्थसुखं सुगन्धि तत्। निजघ्नुषे देवरिपून्सुरेश्वरः; स्वयं ददौ यत्सुमनाः किरीटिने ॥८-६६-१४॥
हराम्बुपाखण्डलवित्तगोप्तृभिः; पिनाकपाशाशनिसायकोत्तमैः। सुरोत्तमैरप्यविषह्यमर्दितुं; प्रसह्य नागेन जहार यद्वृषः ॥८-६६-१५॥
तदुत्तमेषून्मथितं विषाग्निना; प्रदीप्तमर्चिष्मदभिक्षिति प्रियम्। पपात पार्थस्य किरीटमुत्तमं; दिवाकरोऽस्तादिव पर्वताज्ज्वलन् ॥८-६६-१६॥
ततः किरीटं बहुरत्नमण्डितं; जहार नागोऽर्जुनमूर्धतो बलात्। गिरेः सुजाताङ्कुरपुष्पितद्रुमं; महेन्द्रवज्रः शिखरं यथोत्तमम् ॥८-६६-१७॥
मही वियद्द्यौः सलिलानि वायुना; यथा विभिन्नानि विभान्ति भारत। तथैव शब्दो भुवनेष्वभूत्तदा; जना व्यवस्यन्व्यथिताश्च चस्खलुः ॥८-६६-१८॥
ततः समुद्ग्रथ्य सितेन वाससा; स्वमूर्धजानव्यथितः स्थितोऽर्जुनः। विभाति सम्पूर्णमरीचिभास्वता; शिरोगतेनोदयपर्वतो यथा ॥८-६६-१९॥
बलाहकः कर्णभुजेरितस्ततो; हुताशनार्कप्रतिमद्युतिर्महान्। महोरगः कृतवैरोऽर्जुनेन; किरीटमासाद्य समुत्पपात ॥८-६६-२०॥
तमब्रवीद्विद्धि कृतागसं मे; कृष्णाद्य मातुर्वधजातवैरम्। ततः कृष्णः पार्थमुवाच सङ्ख्ये; महोरगं कृतवैरं जहि त्वम् ॥८-६६-२१॥
स एवमुक्तो मधुसूदनेन; गाण्डीवधन्वा रिपुषूग्रधन्वा। उवाच को न्वेष ममाद्य नागः; स्वयं य आगाद्गरुडस्य वक्त्रम् ॥८-६६-२२॥
कृष्ण उवाच॥
योऽसौ त्वया खाण्डवे चित्रभानुं; सन्तर्पयानेन धनुर्धरेण। वियद्गतो बाणनिकृत्तदेहो; ह्यनेकरूपो निहतास्य माता ॥८-६६-२३॥
ततस्तु जिष्णुः परिहृत्य शेषां; श्चिच्छेद षड्भिर्निशितैः सुधारैः। नागं वियत्तिर्यगिवोत्पतन्तं; स छिन्नगात्रो निपपात भूमौ ॥८-६६-२४॥
तस्मिन्मुहूर्ते दशभिः पृषत्कैः; शिलाशितैर्बर्हिणवाजितैश्च। विव्याध कर्णः पुरुषप्रवीरं; धनञ्जयं तिर्यगवेक्षमाणम् ॥८-६६-२५॥
ततोऽर्जुनो द्वादशभिर्विमुक्तै; राकर्णमुक्तैर्निशितैः समर्प्य। नाराचमाशीविषतुल्यवेग; माकर्णपूर्णायतमुत्ससर्ज ॥८-६६-२६॥
स चित्रवर्मेषुवरो विदार्य; प्राणान्निरस्यन्निव साधु मुक्तः। कर्णस्य पीत्वा रुधिरं विवेश; वसुन्धरां शोणितवाजदिग्धः ॥८-६६-२७॥
ततो वृषो बाणनिपातकोपितो; महोरगो दण्डविघट्टितो यथा। तथाशुकारी व्यसृजच्छरोत्तमा; न्महाविषः सर्प इवोत्तमं विषम् ॥८-६६-२८॥
जनार्दनं द्वादशभिः पराभिन; न्नवैर्नवत्या च शरैस्तथार्जुनम्। शरेण घोरेण पुनश्च पाण्डवं; विभिद्य कर्णोऽभ्यनदज्जहास च ॥८-६६-२९॥
तमस्य हर्षं ममृषे न पाण्डवो; बिभेद मर्माणि ततोऽस्य मर्मवित्। परं शरैः पत्रिभिरिन्द्रविक्रम; स्तथा यथेन्द्रो बलमोजसाहनत् ॥८-६६-३०॥
ततः शराणां नवतीर्नवार्जुनः; ससर्ज कर्णेऽन्तकदण्डसंनिभाः। शरैर्भृशायस्ततनुः प्रविव्यथे; तथा यथा वज्रविदारितोऽचलः ॥८-६६-३१॥
मणिप्रवेकोत्तमवज्रहाटकै; रलङ्कृतं चास्य वराङ्गभूषणम्। प्रविद्धमुर्व्यां निपपात पत्रिभि; र्धनञ्जयेनोत्तमकुण्डलेऽपि च ॥८-६६-३२॥
महाधनं शिल्पिवरैः प्रयत्नतः; कृतं यदस्योत्तमवर्म भास्वरम्। सुदीर्घकालेन तदस्य पाण्डवः; क्षणेन बाणैर्बहुधा व्यशातयत् ॥८-६६-३३॥
स तं विवर्माणमथोत्तमेषुभिः; शरैश्चतुर्भिः कुपितः पराभिनत्। स विव्यथेऽत्यर्थमरिप्रहारितो; यथातुरः पित्तकफानिलव्रणैः ॥८-६६-३४॥
महाधनुर्मण्डलनिःसृतैः शितैः; क्रियाप्रयत्नप्रहितैर्बलेन च। ततक्ष कर्णं बहुभिः शरोत्तमै; र्बिभेद मर्मस्वपि चार्जुनस्त्वरन् ॥८-६६-३५॥
दृढाहतः पत्रिभिरुग्रवेगैः; पार्थेन कर्णो विविधैः शिताग्रैः। बभौ गिरिर्गैरिकधातुरक्तः; क्षरन्प्रपातैरिव रक्तमम्भः ॥८-६६-३६॥
साश्वं तु कर्णं सरथं किरीटी; समाचिनोद्भारत वत्सदन्तैः। प्रच्छादयामास दिशश्च बाणैः; सर्वप्रयत्नात्तपनीयपुङ्खैः ॥८-६६-३७॥
स वत्सदन्तैः पृथुपीनवक्षाः; समाचितः स्माधिरथिर्विभाति। सुपुष्पिताशोकपलाशशाल्मलि; र्यथाचलः स्पन्दनचन्दनायुतः ॥८-६६-३८॥
शरैः शरीरे बहुधा समर्पितै; र्विभाति कर्णः समरे विशां पते। महीरुहैराचितसानुकन्दरो; यथा महेन्द्रः शुभकर्णिकारवान् ॥८-६६-३९॥
स बाणसङ्घान्धनुषा व्यवासृज; न्विभाति कर्णः शरजालरश्मिवान्। सलोहितो रक्तगभस्तिमण्डलो; दिवाकरोऽस्ताभिमुखो यथा तथा ॥८-६६-४०॥
बाह्वन्तरादाधिरथेर्विमुक्ता; न्बाणान्महाहीनिव दीप्यमानान्। व्यध्वंसयन्नर्जुनबाहुमुक्ताः; शराः समासाद्य दिशः शिताग्राः ॥८-६६-४१॥
ततश्चक्रमपतत्तस्य भूमौ; स विह्वलः समरे सूतपुत्रः। घूर्णे रथे ब्राह्मणस्याभिशापा; द्रामादुपात्तेऽप्रतिभाति चास्त्रे ॥८-६६-४२॥
अमृष्यमाणो व्यसनानि तानि; हस्तौ विधुन्वन्स विगर्हमाणः। धर्मप्रधानानभिपाति धर्म; इत्यब्रुवन्धर्मविदः सदैव ॥ ममापि निम्नोऽद्य न पाति भक्ता; न्मन्ये न नित्यं परिपाति धर्मः ॥८-६६-४३॥
एवं ब्रुवन्प्रस्खलिताश्वसूतो; विचाल्यमानोऽर्जुनशस्त्रपातैः। मर्माभिघाताच्चलितः क्रियासु; पुनः पुनर्धर्ममगर्हदाजौ ॥८-६६-४४॥
ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे। हस्ते कर्णस्तदा पार्थमभ्यविध्यच्च सप्तभिः ॥८-६६-४५॥
ततोऽर्जुनः सप्तदश तिग्मतेजानजिह्मगान्। इन्द्राशनिसमान्घोरानसृजत्पावकोपमान् ॥८-६६-४६॥
निर्भिद्य ते भीमवेगा न्यपतन्पृथिवीतले। कम्पितात्मा तथा कर्णः शक्त्या चेष्टामदर्शयत् ॥८-६६-४७॥
बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत्। ऐन्द्रास्त्रमर्जुनश्चापि तद्दृष्ट्वाभिन्यमन्त्रयत् ॥८-६६-४८॥
गाण्डीवं ज्यां च बाणांश्च अनुमन्त्र्य धनञ्जयः। असृजच्छरवर्षाणि वर्षाणीव पुरंदरः ॥८-६६-४९॥
ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः। प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात् ॥८-६६-५०॥
तान्कर्णस्त्वग्रतोऽभ्यस्तान्मोघांश्चक्रे महारथः। ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते ॥८-६६-५१॥
विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान्। ब्रह्मास्त्रमर्जुनश्चापि संमन्त्र्याथ प्रयोजयत् ॥८-६६-५२॥
छादयित्वा ततो बाणैः कर्णं प्रभ्राम्य चार्जुनः। तस्य कर्णः शरैः क्रुद्धश्चिच्छेद ज्यां सुतेजनैः ॥८-६६-५३॥
ततो ज्यामवधायान्यामनुमृज्य च पाण्डवः। शरैरवाकिरत्कर्णं दीप्यमानैः सहस्रशः ॥८-६६-५४॥
तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे। नान्वबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत् ॥८-६६-५५॥
अस्त्रैरस्त्राणि राधेयः प्रत्यहन्सव्यसाचिनः। चक्रे चाभ्यधिकं पार्थात्स्ववीर्यं प्रतिदर्शयन् ॥८-६६-५६॥
ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेणाभिपीडितम्। अभ्यस्येत्यब्रवीत्पार्थमातिष्ठास्त्रमनुत्तमम् ॥८-६६-५७॥
ततोऽन्यमग्निसदृशं शरं सर्पविषोपमम्। अश्मसारमयं दिव्यमनुमन्त्र्य धनञ्जयः ॥८-६६-५८॥
रौद्रमस्त्रं समादाय क्षेप्तुकामः किरीटवान्। ततोऽग्रसन्मही चक्रं राधेयस्य महामृधे ॥८-६६-५९॥
ग्रस्तचक्रस्तु राधेयः कोपादश्रूण्यवर्तयत्। सोऽब्रवीदर्जुनं चापि मुहूर्तं क्षम पाण्डव ॥८-६६-६०॥
मध्ये चक्रमवग्रस्तं दृष्ट्वा दैवादिदं मम। पार्थ कापुरुषाचीर्णमभिसन्धिं विवर्जय ॥८-६६-६१॥
प्रकीर्णकेशे विमुखे ब्राह्मणे च कृताञ्जलौ। शरणागते न्यस्तशस्त्रे तथा व्यसनगेऽर्जुन ॥८-६६-६२॥
अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा। न शूराः प्रहरन्त्याजौ न राज्ञे पार्थिवास्तथा ॥ त्वं च शूरोऽसि कौन्तेय तस्मात्क्षम मुहूर्तकम् ॥८-६६-६३॥
यावच्चक्रमिदं भूमेरुद्धरामि धनञ्जय। न मां रथस्थो भूमिष्ठमसज्जं हन्तुमर्हसि ॥ न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम् ॥८-६६-६४॥
त्वं हि क्षत्रियदायादो महाकुलविवर्धनः। स्मृत्वा धर्मोपदेशं त्वं मुहूर्तं क्षम पाण्डव ॥८-६६-६५॥