Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.013
Pancharatra and Core: Ashwatthama kills Panchala warrior Suratha; as midday approached, Arjuna and Ashwatthama engaged in the battle.
सञ्जय उवाच॥
अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः। तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः ॥ द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः ॥९-१३-१॥
तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनञ्जयः। भूयश्चैव महाबाहुः शरवर्षैरवाकिरत् ॥९-१३-२॥
शरकण्टकितास्ते तु तावका भरतर्षभ। न जहुः समरे पार्थं वध्यमानाः शितैः शरैः ॥९-१३-३॥
तेऽर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः। अयोधयन्त समरे परिवार्य महारथाः ॥९-१३-४॥
तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः। अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा ॥९-१३-५॥
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम्। शरैर्वीक्ष्य वितुन्नाङ्गौ प्रहृष्टौ युद्धदुर्मदौ ॥९-१३-६॥
कूबरं रथचक्राणि ईषा योक्त्राणि चाभिभो। युगं चैवानुकर्षं च शरभूतमभूत्तदा ॥९-१३-७॥
नैतादृशं दृष्टपूर्वं राजन्नैव च नः श्रुतम्। यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे ॥९-१३-८॥
स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः। उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले ॥९-१३-९॥
ततोऽर्जुनो महाराज शरैः संनतपर्वभिः। अवाकिरत्तां पृतनां मेघो वृष्ट्या यथाचलम् ॥९-१३-१०॥
ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः। पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् ॥९-१३-११॥
ततोऽद्भुतशरज्वालो धनुःशब्दानिलो महान्। सेनेन्धनं ददाहाशु तावकं पार्थपावकः ॥९-१३-१२॥
चक्राणां पततां चैव युगानां च धरातले। तूणीराणां पताकानां ध्वजानां च रथैः सह ॥९-१३-१३॥
ईषाणामनुकर्षाणां त्रिवेणूनां च भारत। अक्षाणामथ योक्त्राणां प्रतोदानां च सर्वशः ॥९-१३-१४॥
शिरसां पततां चैव कुण्डलोष्णीषधारिणाम्। भुजानां च महाराज स्कन्धानां च समन्ततः ॥९-१३-१५॥
छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः। समदृश्यन्त पार्थस्य रथमार्गेषु भारत ॥९-१३-१६॥
अगम्यरूपा पृथिवी मांसशोणितकर्दमा। बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा ॥ भीरूणां त्रासजननी शूराणां हर्षवर्धनी ॥९-१३-१७॥
हत्वा तु समरे पार्थः सहस्रे द्वे परन्तप। रथानां सवरूथानां विधूमोऽग्निरिव ज्वलन् ॥९-१३-१८॥
यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम्। विधूमो दृश्यते राजंस्तथा पार्थो महारथः ॥९-१३-१९॥
द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम्। रथेनातिपताकेन पाण्डवं प्रत्यवारयत् ॥९-१३-२०॥
तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ। समीयतुस्तदा तूर्णं परस्परवधैषिणौ ॥९-१३-२१॥
तयोरासीन्महाराज बाणवर्षं सुदारुणम्। जीमूतानां यथा वृष्टिस्तपान्ते भरतर्षभ ॥९-१३-२२॥
अन्योन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः। ततक्षतुर्मृधेऽन्योन्यं शृङ्गाभ्यां वृषभाविव ॥९-१३-२३॥
तयोर्युद्धं महाराज चिरं सममिवाभवत्। अस्त्राणां सङ्गमश्चैव घोरस्तत्राभवन्महान् ॥९-१३-२४॥
ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः। वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत ॥९-१३-२५॥
ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः। मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे ॥९-१३-२६॥
व्यश्वसूतरथं चक्रे सव्यसाची महारथः। मृदुपूर्वं ततश्चैनं त्रिभिर्विव्याध सायकैः ॥९-१३-२७॥
हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम्। मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् ॥९-१३-२८॥
तमापतन्तं सहसा हेमपट्टविभूषितम्। चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः ॥९-१३-२९॥
स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः। आददे परिघं घोरं नगेन्द्रशिखरोपमम् ॥ चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः ॥९-१३-३०॥
तमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः। अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः ॥९-१३-३१॥
स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे। दारयन्पृथिवीन्द्राणां मनः शब्देन भारत ॥९-१३-३२॥
ततोऽपरैस्त्रिभिर्बाणैर्द्रौणिं विव्याध पाण्डवः। सोऽतिविद्धो बलवता पार्थेन सुमहाबलः ॥ न सम्भ्रान्तस्तदा द्रौणिः पौरुषे स्वे व्यवस्थितः ॥९-१३-३३॥
सुधर्मा तु ततो राजन्भारद्वाजं महारथम्। अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः ॥९-१३-३४॥
ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः। रथेन मेघघोषेण द्रौणिमेवाभ्यधावत ॥९-१३-३५॥
विकर्षन्वै धनुः श्रेष्ठं सर्वभारसहं दृढम्। ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् ॥९-१३-३६॥
सुरथं तु ततः क्रुद्धमापतन्तं महारथम्। चुकोप समरे द्रौणिर्दण्डाहत इवोरगः ॥९-१३-३७॥
त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिलेलिहन्। उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च ॥ मुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम् ॥९-१३-३८॥
स तस्य हृदयं भित्त्वा प्रविवेशातिवेगतः। शक्राशनिरिवोत्सृष्टा विदार्य धरणीतलम् ॥९-१३-३९॥
ततस्तं पतितं भूमौ नाराचेन समाहतम्। वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम् ॥९-१३-४०॥
तस्मिंस्तु निहते वीरे द्रोणपुत्रः प्रतापवान्। आरुरोह रथं तूर्णं तमेव रथिनां वरः ॥९-१३-४१॥
ततः सज्जो महाराज द्रौणिराहवदुर्मदः। अर्जुनं योधयामास संशप्तकवृतो रणे ॥९-१३-४२॥
तत्र युद्धं महच्चासीदर्जुनस्य परैः सह। मध्यंदिनगते सूर्ये यमराष्ट्रविवर्धनम् ॥९-१३-४३॥
तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम्। यदेको युगपद्वीरान्समयोधयदर्जुनः ॥९-१३-४४॥
विमर्दस्तु महानासीदर्जुनस्य परैः सह। शतक्रतोर्यथा पूर्वं महत्या दैत्यसेनया ॥९-१३-४५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.