Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.014
Core and Pancharatra: King Yudhishthira along with Bhimasena, Satyaki, and Sahadeva launched an attack on the Madra king. Shalya performed an extraordinary feat by single-handedly taking on numerous opponents.
सञ्जय उवाच॥
दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः। चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् ॥९-१४-१॥
तयोरासन्महाराज शरधाराः सहस्रशः। अम्बुदानां यथा काले जलधाराः समन्ततः ॥९-१४-२॥
राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिरायसैः। द्रोणहन्तारमुग्रेषुः पुनर्विव्याध सप्तभिः ॥९-१४-३॥
धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः। सप्तत्या विशिखानां वै दुर्योधनमपीडयत् ॥९-१४-४॥
पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ। महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् ॥९-१४-५॥
स तैः परिवृतः शूरैः सर्वतोऽतिरथैर्भृशम्। व्यचरत्समरे राजन्दर्शयन्हस्तलाघवम् ॥९-१४-६॥
शिखण्डी कृतवर्माणं गौतमं च महारथम्। प्रभद्रकैः समायुक्तो योधयामास धन्विनौ ॥९-१४-७॥
तत्रापि सुमहद्युद्धं घोररूपं विशां पते। प्राणान्सन्त्यजतां युद्धे प्राणद्यूताभिदेवने ॥९-१४-८॥
शल्यस्तु शरवर्षाणि विमुञ्चन्सर्वतोदिशम्। पाण्डवान्पीडयामास ससात्यकिवृकोदरान् ॥९-१४-९॥
तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ। योधयामास राजेन्द्र वीर्येण च बलेन च ॥९-१४-१०॥
शल्यसायकनुन्नानां पाण्डवानां महामृधे। त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः ॥९-१४-११॥
ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते। अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः ॥९-१४-१२॥
सञ्छाद्य समरे शल्यं नकुलः परवीरहा। विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे ॥९-१४-१३॥
सर्वपारशवैर्बाणैः कर्मारपरिमार्जितैः। स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः ॥९-१४-१४॥
शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना। नकुलं पीडयामास पत्रिभिर्नतपर्वभिः ॥९-१४-१५॥
ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः। सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन् ॥९-१४-१६॥
तानापतत एवाशु पूरयानान्रथस्वनैः। दिशश्च प्रदिशश्चैव कम्पयानांश्च मेदिनीम् ॥ प्रतिजग्राह समरे सेनापतिरमित्रजित् ॥९-१४-१७॥
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च सप्तभिः। सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः ॥९-१४-१८॥
ततस्तु सशरं चापं नकुलस्य महात्मनः। मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष ॥ तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः ॥९-१४-१९॥
अथान्यद्धनुरादाय माद्रीपुत्रो महारथः। मद्रराजरथं तूर्णं पूरयामास पत्रिभिः ॥९-१४-२०॥
युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष। दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् ॥९-१४-२१॥
भीमसेनस्ततः षष्ट्या सात्यकिर्नवभिः शरैः। मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः ॥९-१४-२२॥
मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः। विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् ॥९-१४-२३॥
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष। हयांश्च चतुरः सङ्ख्ये प्रेषयामास मृत्यवे ॥९-१४-२४॥
विरथं सात्यकिं कृत्वा मद्रराजो महाबलः। विशिखानां शतेनैनमाजघान समन्ततः ॥९-१४-२५॥
माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम्। युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः ॥९-१४-२६॥
तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम्। यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे ॥९-१४-२७॥
अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः। पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् ॥ अभिदुद्राव वेगेन मद्राणामधिपं बली ॥९-१४-२८॥
आपतन्तं रथं तस्य शल्यः समितिशोभनः। प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् ॥९-१४-२९॥
स संनिपातस्तुमुलो बभूवाद्भुतदर्शनः। सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च ॥ यादृशो वै पुरा वृत्तः शम्बरामरराजयोः ॥९-१४-३०॥
सात्यकिः प्रेक्ष्य समरे मद्रराजं व्यवस्थितम्। विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत् ॥९-१४-३१॥
मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना। सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः ॥९-१४-३२॥
ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम्। अभ्यद्रवन्रथैस्तूर्णं मातुलं वधकाम्यया ॥९-१४-३३॥
तत आसीत्परामर्दस्तुमुलः शोणितोदकः। शूराणां युध्यमानानां सिंहानामिव नर्दताम् ॥९-१४-३४॥
तेषामासीन्महाराज व्यतिक्षेपः परस्परम्। सिंहानामामिषेप्सूनां कूजतामिव संयुगे ॥९-१४-३५॥
तेषां बाणसहस्रौघैराकीर्णा वसुधाभवत्। अन्तरिक्षं च सहसा बाणभूतमभूत्तदा ॥९-१४-३६॥
शरान्धकारं बहुधा कृतं तत्र समन्ततः। अभ्रच्छायेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः ॥९-१४-३७॥
तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः। स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तथा ॥९-१४-३८॥
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः। यदेकः समरे शूरो योधयामास वै बहून् ॥९-१४-३९॥
मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः। सम्पतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी ॥९-१४-४०॥
तत्र शल्यरथं राजन्विचरन्तं महाहवे। अपश्याम यथा पूर्वं शक्रस्यासुरसङ्क्षये ॥९-१४-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.