Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.031
Core and Pancharatra: Wounded Duryodhana comes out of the water, unable to bear the harsh words of Yudhisthira, and asks one of the Pandavas to fight him with a mace. Yudhisthira asks, where was his Dharma, whem he attacked Abhimanyu with many, when he was single?
धृतराष्ट्र उवाच॥
एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः। प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः ॥९-३१-१॥
न हि सन्तर्जना तेन श्रुतपूर्वा कदाचन। राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् ॥९-३१-२॥
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्। प्रसादाद्ध्रियते यस्य प्रत्यक्षं तव सञ्जय ॥९-३१-३॥
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः। विहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम् ॥९-३१-४॥
श्रुत्वा स कटुका वाचो जययुक्ताः पुनः पुनः। किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व सञ्जय ॥९-३१-५॥
सञ्जय उवाच॥
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः। युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह ॥९-३१-६॥
श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपः। दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः ॥९-३१-७॥
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनः पुनः। मनश्चकार युद्धाय राजानं चाभ्यभाषत ॥९-३१-८॥
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः। अहमेकः परिद्यूनो विरथो हतवाहनः ॥९-३१-९॥
आत्तशस्त्रै रथगतैर्बहुभिः परिवारितः। कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सहे ॥९-३१-१०॥
एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर। न ह्येको बहुभिर्वीरैर्न्याय्यं योधयितुं युधि ॥९-३१-११॥
विशेषतो विकवचः श्रान्तश्चापः समाश्रितः। भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः ॥९-३१-१२॥
न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात्। फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथ वा पुनः ॥९-३१-१३॥
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः। एकः सर्वानहं क्रुद्धो न तान्योद्धुमिहोत्सहे ॥९-३१-१४॥
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप। धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम् ॥९-३१-१५॥
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे। अन्वंशाभ्यागतान्सर्वानृतून्संवत्सरो यथा ॥९-३१-१६॥
अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन्। नक्षत्राणीव सर्वाणि सविता रात्रिसङ्क्षये ॥ तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः ॥९-३१-१७॥
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम्। बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः ॥९-३१-१८॥
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः। मद्रराजस्य शल्यस्य भूरिश्रवस एव च ॥९-३१-१९॥
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च। मित्राणां सुहृदां चैव बान्धवानां तथैव च ॥९-३१-२०॥
आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह। एतावदुक्त्वा वचनं विरराम जनाधिपः ॥९-३१-२१॥
युधिष्ठिर उवाच॥
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन। दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज ॥९-३१-२२॥
दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि सङ्गरम्। यस्त्वमेको हि नः सर्वान्संयुगे योद्धुमिच्छसि ॥९-३१-२३॥
एक एकेन सङ्गम्य यत्ते संमतमायुधम्। तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः ॥९-३१-२४॥
अयमिष्टं च ते कामं वीर भूयो ददाम्यहम्। हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि ॥९-३१-२५॥
दुर्योधन उवाच॥
एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीयते। आयुधानामियं चापि वृता त्वत्संमते गदा ॥९-३१-२६॥
भ्रातॄणां भवतामेकः शक्यं मां योऽभिमन्यते। पदातिर्गदया सङ्ख्ये स युध्यतु मया सह ॥९-३१-२७॥
वृत्तानि रथयुद्धानि विचित्राणि पदे पदे। इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत् ॥९-३१-२८॥
अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः। युद्धानामपि पर्यायो भवत्वनुमते तव ॥९-३१-२९॥
गदया त्वां महाबाहो विजेष्यामि सहानुजम्। पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः ॥९-३१-३०॥
युधिष्ठिर उवाच॥
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन। एक एकेन सङ्गम्य संयुगे गदया बली ॥९-३१-३१॥
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः। अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः ॥९-३१-३२॥
सञ्जय उवाच॥
एतत्स नरशार्दूलो नामृष्यत तवात्मजः। सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् ॥९-३१-३३॥
तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः। वाचं न ममृषे धीमानुत्तमाश्वः कशामिव ॥९-३१-३४॥
सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान्। अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम् ॥ अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् ॥९-३१-३५॥
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम्। उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिमानिव ॥९-३१-३६॥
ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम्। गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः ॥९-३१-३७॥
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम्। प्रजानामिव सङ्क्रुद्धं शूलपाणिमवस्थितम् ॥ सगदो भारतो भाति प्रतपन्भास्करो यथा ॥९-३१-३८॥
तमुत्तीर्णं महाबाहुं गदाहस्तमरिंदमम्। मेनिरे सर्वभूतानि दण्डहस्तमिवान्तकम् ॥९-३१-३९॥
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम्। ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप ॥९-३१-४०॥
तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः। पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः ॥९-३१-४१॥
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव। उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् ॥९-३१-४२॥
त्रिशिखां भ्रुकुटीं कृत्वा संदष्टदशनच्छदः। प्रत्युवाच ततस्तान्वै पाण्डवान्सहकेशवान् ॥९-३१-४३॥
अवहासस्य वोऽस्याद्य प्रतिवक्तास्मि पाण्डवाः। गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम् ॥९-३१-४४॥
उत्थितस्तु जलात्तस्मात्पुत्रो दुर्योधनस्तव। अतिष्ठत गदापाणी रुधिरेण समुक्षितः ॥९-३१-४५॥
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम्। शरीरं स्म तदा भाति स्रवन्निव महीधरः ॥९-३१-४६॥
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः। वैवस्वतमिव क्रुद्धं किङ्करोद्यतपाणिनम् ॥९-३१-४७॥
स मेघनिनदो हर्षान्नदन्निव च गोवृषः। आजुहाव ततः पार्थान्गदया युधि वीर्यवान् ॥९-३१-४८॥
दुर्योधन उवाच॥
एकैकेन च मां यूयमासीदत युधिष्ठिर। न ह्येको बहुभिर्न्याय्यो वीर योधयितुं युधि ॥९-३१-४९॥
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः। भृशं विक्षतगात्रश्च हतवाहनसैनिकः ॥९-३१-५०॥
युधिष्ठिर उवाच॥
नाभूदियं तव प्रज्ञा कथमेवं सुयोधन। यदाभिमन्युं बहवो जघ्नुर्युधि महारथाः ॥९-३१-५१॥
आमुञ्च कवचं वीर मूर्धजान्यमयस्व च। यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत ॥ इममेकं च ते कामं वीर भूयो ददाम्यहम् ॥९-३१-५२॥
पञ्चानां पाण्डवेयानां येन योद्धुमिहेच्छसि। तं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहि ॥ ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् ॥९-३१-५३॥
सञ्जय उवाच॥
ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम्। विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् ॥९-३१-५४॥
सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत्। रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥९-३१-५५॥
संनद्धः स गदी राजन्सज्जः सङ्ग्राममूर्धनि। अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव ॥९-३१-५६॥
भ्रातॄणां भवतामेको युध्यतां गदया मया। सहदेवेन वा योत्स्ये भीमेन नकुलेन वा ॥९-३१-५७॥
अथ वा फल्गुनेनाद्य त्वया वा भरतर्षभ। योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे ॥९-३१-५८॥
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम्। गदया पुरुषव्याघ्र हेमपट्टविनद्धया ॥९-३१-५९॥
गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तय। गदया वो हनिष्यामि सर्वानेव समागतान् ॥ गृह्णातु स गदां यो वै युध्यतेऽद्य मया सह ॥९-३१-६०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.