09.030
Core and Pancharatra: Yudhishthira asks the hiding Duryodhana to leave cowardice and fight; but Duryodhana want's to gift the kingdom to the Pandavas and wants to retire himself to the forest.
सञ्जय उवाच॥
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः। तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् ॥९-३०-१॥
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनह्रदम्। स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् ॥ वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः ॥९-३०-२॥
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम्। विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् ॥९-३०-३॥
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम्। निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते ॥९-३०-४॥
यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम्। तथाप्येनं हतं युद्धे लोको द्रक्ष्यति माधव ॥९-३०-५॥
श्रीवासुदेव उवाच॥
मायाविन इमां मायां मायया जहि भारत। मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर ॥९-३०-६॥
क्रियाभ्युपायैर्बहुलैर्मायामप्सु प्रयोज्य ह। जहि त्वं भरतश्रेष्ठ पापात्मानं सुयोधनम् ॥९-३०-७॥
क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः। क्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना ॥९-३०-८॥
क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरः। हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ ॥ वृत्रश्च निहतो राजन्क्रिययैव न संशयः ॥९-३०-९॥
तथा पौलस्त्यतनयो रावणो नाम राक्षसः। रामेण निहतो राजन्सानुबन्धः सहानुगः ॥ क्रियया योगमास्थाय तथा त्वमपि विक्रम ॥९-३०-१०॥
क्रियाभ्युपायैर्निहतो मया राजन्पुरातने। तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् ॥९-३०-११॥
वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो। सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ ॥९-३०-१२॥
क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो। क्रिया बलवती राजन्नान्यत्किञ्चिद्युधिष्ठिर ॥९-३०-१३॥
दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा। क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर ॥९-३०-१४॥
सञ्जय उवाच॥
इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः। जलस्थं तं महाराज तव पुत्रं महाबलम् ॥ अभ्यभाषत कौन्तेयः प्रहसन्निव भारत ॥९-३०-१५॥
सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया। सर्वं क्षत्रं घातयित्वा स्वकुलं च विशां पते ॥९-३०-१६॥
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः। उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन ॥९-३०-१७॥
स च दर्पो नरश्रेष्ठ स च मानः क्व ते गतः। यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः ॥९-३०-१८॥
सर्वे त्वां शूर इत्येव जना जल्पन्ति संसदि। व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः ॥९-३०-१९॥
उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः। कौरवेयो विशेषेण कुले जन्म च संस्मर ॥९-३०-२०॥
स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः। युद्धाद्भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि ॥९-३०-२१॥
अयुद्धमव्यवस्थानं नैष धर्मः सनातनः। अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् ॥९-३०-२२॥
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः। इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा ॥९-३०-२३॥
सम्बन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा। घातयित्वा कथं तात ह्रदे तिष्ठसि साम्प्रतम् ॥९-३०-२४॥
शूरमानी न शूरस्त्वं मिथ्या वदसि भारत। शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः ॥९-३०-२५॥
न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथञ्चन। ब्रूहि वा त्वं यया धृत्या शूर त्यजसि सङ्गरम् ॥९-३०-२६॥
स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनः। घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन ॥९-३०-२७॥
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया। क्षत्रधर्ममपाश्रित्य त्वद्विधेन सुयोधन ॥९-३०-२८॥
यत्तत्कर्णमुपाश्रित्य शकुनिं चापि सौबलम्। अमर्त्य इव संमोहात्त्वमात्मानं न बुद्धवान् ॥९-३०-२९॥
तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत। कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम् ॥९-३०-३०॥
क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन। क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् ॥९-३०-३१॥
क्व ते कृतास्त्रता याता किं च शेषे जलाशये। स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत ॥९-३०-३२॥
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्। अथ वा निहतोऽस्माभिर्भूमौ स्वप्स्यसि भारत ॥९-३०-३३॥
एष ते प्रथमो धर्मः सृष्टो धात्रा महात्मना। तं कुरुष्व यथातथ्यं राजा भव महारथ ॥९-३०-३४॥
दुर्योधन उवाच॥
नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत्। न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत ॥९-३०-३५॥
अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः। एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम् ॥९-३०-३६॥
न प्राणहेतोर्न भयान्न विषादाद्विशां पते। इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम् ॥९-३०-३७॥
त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव। अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे ॥९-३०-३८॥
युधिष्ठिर उवाच॥
आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे। तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन ॥९-३०-३९॥
हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि। निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि ॥९-३०-४०॥
दुर्योधन उवाच॥
यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन। त इमे निहताः सर्वे भ्रातरो मे जनेश्वर ॥९-३०-४१॥
क्षीणरत्नां च पृथिवीं हतक्षत्रियपुङ्गवाम्। नाभ्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् ॥९-३०-४२॥
अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर। भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ ॥९-३०-४३॥
न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित्। द्रोणे कर्णे च संशान्ते निहते च पितामहे ॥९-३०-४४॥
अस्त्विदानीमियं राजन्केवला पृथिवी तव। असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् ॥९-३०-४५॥
सुहृदस्तादृशान्हित्वा पुत्रान्भ्रातॄन्पितॄनपि। भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः ॥९-३०-४६॥
अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः। रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत ॥९-३०-४७॥
हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा। एषा ते पृथिवी राजन्भुङ्क्ष्वैनां विगतज्वरः ॥९-३०-४८॥
वनमेव गमिष्यामि वसानो मृगचर्मणी। न हि मे निर्जितस्यास्ति जीवितेऽद्य स्पृहा विभो ॥९-३०-४९॥
गच्छ त्वं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम्। हतयोधां नष्टरत्नां क्षीणवप्रां यथासुखम् ॥९-३०-५०॥
युधिष्ठिर उवाच॥
आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः। नैतन्मनसि मे राजन्वाशितं शकुनेरिव ॥९-३०-५१॥
यदि चापि समर्थः स्यास्त्वं दानाय सुयोधन। नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् ॥९-३०-५२॥
अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम्। न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः ॥९-३०-५३॥
त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम्। त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम् ॥९-३०-५४॥
अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि। त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि ॥९-३०-५५॥
धर्मतो याचमानानां शमार्थं च कुलस्य नः। वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबलम् ॥९-३०-५६॥
किमिदानीं ददासि त्वं को हि ते चित्तविभ्रमः। अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम् ॥९-३०-५७॥
न त्वमद्य महीं दातुमीशः कौरवनन्दन। आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि ॥ मां तु निर्जित्य सङ्ग्रामे पालयेमां वसुन्धराम् ॥९-३०-५८॥
सूच्यग्रेणापि यद्भूमेरपि ध्रीयेत भारत। तन्मात्रमपि नो मह्यं न ददाति पुरा भवान् ॥९-३०-५९॥
स कथं पृथिवीमेतां प्रददासि विशां पते। सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् ॥९-३०-६०॥
एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम्। को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम् ॥९-३०-६१॥
त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे। पृथिवीं दातुकामोऽपि जीवितेनाद्य मोक्ष्यसे ॥९-३०-६२॥
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्। अथ वा निहतोऽस्माभिर्व्रज लोकाननुत्तमान् ॥९-३०-६३॥
आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम्। संशयः सर्वभूतानां विजये नो भविष्यति ॥९-३०-६४॥
जीवितं तव दुष्प्रज्ञ मयि सम्प्रति वर्तते। जीवयेयं त्वहं कामं न तु त्वं जीवितुं क्षमः ॥९-३०-६५॥
दहने हि कृतो यत्नस्त्वयास्मासु विशेषतः। आशीविषैर्विषैश्चापि जले चापि प्रवेशनैः ॥
एतस्मात्कारणात्पाप जीवितं ते न विद्यते। उत्तिष्ठोत्तिष्ठ युध्यस्व तत्ते श्रेयो भविष्यति ॥९-३०-६७॥
सञ्जय उवाच॥
एवं तु विविधा वाचो जययुक्ताः पुनः पुनः। कीर्तयन्ति स्म ते वीरास्तत्र तत्र जनाधिप ॥९-३०-६८॥