Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.032
Core and Pancharatra: Bhima accepts the challenge of Duryodhana for a mace battle, reminding him of all the wrongs he has done to them.
सञ्जय उवाच॥
एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः। युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽब्रवीदिदम् ॥९-३२-१॥
यदि नाम ह्ययं युद्धे वरयेत्त्वां युधिष्ठिर। अर्जुनं नकुलं वापि सहदेवमथापि वा ॥९-३२-२॥
किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम्। एकमेव निहत्याजौ भव राजा कुरुष्विति ॥९-३२-३॥
एतेन हि कृता योग्या वर्षाणीह त्रयोदश। आयसे पुरुषे राजन्भीमसेनजिघांसया ॥९-३२-४॥
कथं नाम भवेत्कार्यमस्माभिर्भरतर्षभ। साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम ॥९-३२-५॥
नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे। ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः ॥९-३२-६॥
तदिदं द्यूतमारब्धं पुनरेव यथा पुरा। विषमं शकुनेश्चैव तव चैव विशां पते ॥९-३२-७॥
बली भीमः समर्थश्च कृती राजा सुयोधनः। बलवान्वा कृती वेति कृती राजन्विशिष्यते ॥९-३२-८॥
सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः। न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् ॥९-३२-९॥
को नु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा। पणित्वा चैकपाणेन रोचयेदेवमाहवम् ॥९-३२-१०॥
न हि पश्यामि तं लोके गदाहस्तं नरोत्तमम्। युध्येद्दुर्योधनं सङ्ख्ये कृतित्वाद्धि विशेषयेत् ॥९-३२-११॥
फल्गुनं वा भवन्तं वा माद्रीपुत्रावथापि वा। न समर्थानहं मन्ये गदाहस्तस्य संयुगे ॥९-३२-१२॥
स कथं वदसे शत्रुं युध्यस्व गदयेति ह। एकं च नो निहत्याजौ भव राजेति भारत ॥९-३२-१३॥
वृकोदरं समासाद्य संशयो विजये हि नः। न्यायतो युध्यमानानां कृती ह्येष महाबलः ॥९-३२-१४॥
भीम उवाच॥
मधुसूदन मा कार्षीर्विषादं यदुनन्दन। अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् ॥९-३२-१५॥
अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः। विजयो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते ॥९-३२-१६॥
अध्यर्धेन गुणेनेयं गदा गुरुतरी मम। न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम् ॥९-३२-१७॥
सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि। योधयेयं रणे हृष्टः किमुताद्य सुयोधनम् ॥९-३२-१८॥
सञ्जय उवाच॥
तथा सम्भाषमाणं तु वासुदेवो वृकोदरम्। हृष्टः सम्पूजयामास वचनं चेदमब्रवीत् ॥९-३२-१९॥
त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः। निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः ॥९-३२-२०॥
त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे। राजानो राजपुत्राश्च नागाश्च विनिपातिताः ॥९-३२-२१॥
कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा। त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन ॥९-३२-२२॥
हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम्। धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः ॥९-३२-२३॥
त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति। त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारयिष्यसि ॥९-३२-२४॥
यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः। कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा ॥९-३२-२५॥
ततस्तु सात्यकी राजन्पूजयामास पाण्डवम्। विविधाभिश्च तां वाग्भिः पूजयामास माधवः ॥९-३२-२६॥
पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः। तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् ॥९-३२-२७॥
ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत्। सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥९-३२-२८॥
अहमेतेन सङ्गम्य संयुगे योद्धुमुत्सहे। न हि शक्तो रणे जेतुं मामेष पुरुषाधमः ॥९-३२-२९॥
अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम्। सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः ॥९-३२-३०॥
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम्। निहत्य गदया पापमद्य राजन्सुखी भव ॥९-३२-३१॥
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्ये तवानघ। प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः ॥९-३२-३२॥
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम्। स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥९-३२-३३॥
इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान्। उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥९-३२-३४॥
तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम्। निर्यूथमिव मातङ्गं समहृष्यन्त पाण्डवाः ॥९-३२-३५॥
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्। भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् ॥९-३२-३६॥
राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम्। स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ॥९-३२-३७॥
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला। द्यूते यद्विजितो राजा शकुनेर्बुद्धिनिश्चयात् ॥९-३२-३८॥
यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि। अनागःसु च पार्थेषु तस्य पश्य महत्फलम् ॥९-३२-३९॥
त्वत्कृते निहतः शेते शरतल्पे महायशाः। गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः ॥९-३२-४०॥
हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान्। वैरस्य चादिकर्तासौ शकुनिर्निहतो युधि ॥९-३२-४१॥
भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः। राजानश्च हताः शूराः समरेष्वनिवर्तिनः ॥९-३२-४२॥
एते चान्ये च निहता बहवः क्षत्रियर्षभाः। प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ॥९-३२-४३॥
अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः। त्वामप्यद्य हनिष्यामि गदया नात्र संशयः ॥९-३२-४४॥
अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप। राज्याशां विपुलां राजन्पाण्डवेषु च दुष्कृतम् ॥९-३२-४५॥
दुर्योधन उवाच॥
किं कत्थितेन बहुधा युध्यस्वाद्य मया सह। अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर ॥९-३२-४६॥
किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम्। हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् ॥९-३२-४७॥
गदिनं कोऽद्य मां पाप जेतुमुत्सहते रिपुः। न्यायतो युध्यमानस्य देवेष्वपि पुरंदरः ॥९-३२-४८॥
मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम्। दर्शयस्व बलं युद्धे यावत्तत्तेऽद्य विद्यते ॥९-३२-४९॥
तस्य तद्वचनं श्रुत्वा पाञ्चालाः सहसृञ्जयाः। सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः ॥९-३२-५०॥
तं मत्तमिव मातङ्गं तलशब्देन मानवाः। भूयः संहर्षयामासू राजन्दुर्योधनं नृपम् ॥९-३२-५१॥
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत्। शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम् ॥९-३२-५२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.