Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.042
Library: Significance of Aruna and how river Sarasvati was freed from Vishwamitra's curse. Storey of Namuchi and how Indra overcame the sin of killing a Brahmin.
वैशम्पायन उवाच॥
सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता। तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत् ॥९-४२-१॥
अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत। तत्र ते शोणितं सर्वे पिबन्तः सुखमासते ॥९-४२-२॥
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः। नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ॥९-४२-३॥
कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः। तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते ॥९-४२-४॥
तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुङ्गवाः। प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः ॥ प्रययुर्हि ततो राजन्येन तीर्थं हि तत्तथा ॥९-४२-५॥
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा। दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् ॥ पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम ॥९-४२-६॥
तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः। परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ॥९-४२-७॥
ते तु सर्वे महाभागाः समागम्य महाव्रताः। आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् ॥९-४२-८॥
कारणं ब्रूहि कल्याणि किमर्थं ते ह्रदो ह्ययम्। एवमाकुलतां यातः श्रुत्वा पास्यामहे वयम् ॥९-४२-९॥
ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती। दुःखितामथ तां दृष्ट्वा त ऊचुर्वै तपोधनाः ॥९-४२-१०॥
कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे। करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः ॥९-४२-११॥
एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम्। विमोचयामहे सर्वे शापादेतां सरस्वतीम् ॥९-४२-१२॥
तेषां तु वचनादेव प्रकृतिस्था सरस्वती। प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि ॥ विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा ॥९-४२-१३॥
दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम्। कृताञ्जलीस्ततो राजन्राक्षसाः क्षुधयार्दिताः ॥ ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनः पुनः ॥९-४२-१४॥
वयं हि क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात्। न च नः कामकारोऽयं यद्वयं पापकारिणः ॥९-४२-१५॥
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा। पक्षोऽयं वर्धतेऽस्माकं यतः स्म ब्रह्मराक्षसाः ॥९-४२-१६॥
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च। ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः ॥९-४२-१७॥
आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा। प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः ॥ योषितां चैव पापानां योनिदोषेण वर्धते ॥९-४२-१८॥
तत्कुरुध्वमिहास्माकं कारुण्यं द्विजसत्तमाः। शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ॥९-४२-१९॥
तेषां ते मुनयः श्रुत्वा तुष्टुवुस्तां महानदीम्। मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः ॥
क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत्। केशावपन्नमाधूतमारुग्णमपि यद्भवेत् ॥ श्वभिः संस्पृष्टमन्नं च भागोऽसौ रक्षसामिह ॥९-४२-२१॥
तस्माज्ज्ञात्वा सदा विद्वानेतान्यन्नानि वर्जयेत्। राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् ॥९-४२-२२॥
शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः। मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् ॥९-४२-२३॥
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा। अरुणामानयामास स्वां तनुं पुरुषर्षभ ॥९-४२-२४॥
तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः। अरुणायां महाराज ब्रह्महत्यापहा हि सा ॥९-४२-२५॥
एतमर्थमभिज्ञाय देवराजः शतक्रतुः। तस्मिंस्तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल ॥९-४२-२६॥
जनमेजय उवाच॥
किमर्थं भगवाञ्शक्रो ब्रह्महत्यामवाप्तवान्। कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् ॥९-४२-२७॥
वैशम्पायन उवाच॥
शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर। यथा बिभेद समयं नमुचेर्वासवः पुरा ॥९-४२-२८॥
नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत्। तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत् ॥९-४२-२९॥
नार्द्रेण त्वा न शुष्केण न रात्रौ नापि वाहनि। वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे ॥९-४२-३०॥
एवं स कृत्वा समयं सृष्ट्वा नीहारमीश्वरः। चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः ॥९-४२-३१॥
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वयात्। हे मित्रहन्पाप इति ब्रुवाणं शक्रमन्तिकात् ॥९-४२-३२॥
एवं स शिरसा तेन चोद्यमानः पुनः पुनः। पितामहाय सन्तप्त एवमर्थं न्यवेदयत् ॥९-४२-३३॥
तमब्रवील्लोकगुरुररुणायां यथाविधि। इष्ट्वोपस्पृश देवेन्द्र ब्रह्महत्यापहा हि सा ॥९-४२-३४॥
इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय। इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत् ॥९-४२-३५॥
स मुक्तः पाप्मना तेन ब्रह्महत्याकृतेन ह। जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः ॥९-४२-३६॥
शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत। लोकान्कामदुघान्प्राप्तमक्षयान्राजसत्तम ॥९-४२-३७॥
तत्राप्युपस्पृश्य बलो महात्मा; दत्त्वा च दानानि पृथग्विधानि। अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम् ॥९-४२-३८॥
यत्रायजद्राजसूयेन सोमः; साक्षात्पुरा विधिवत्पार्थिवेन्द्र। अत्रिर्धीमान्विप्रमुख्यो बभूव; होता यस्मिन्क्रतुमुख्ये महात्मा ॥९-४२-३९॥
यस्यान्तेऽभूत्सुमहान्दानवानां; दैतेयानां राक्षसानां च देवैः। स सङ्ग्रामस्तारकाख्यः सुतीव्रो; यत्र स्कन्दस्तारकाख्यं जघान ॥९-४२-४०॥
सेनापत्यं लब्धवान्देवतानां; महासेनो यत्र दैत्यान्तकर्ता। साक्षाच्चात्र न्यवसत्कार्त्तिकेयः; सदा कुमारो यत्र स प्लक्षराजः ॥९-४२-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.