09.043
Library: Story of Skanda and significance of Samantapanchaka.
जनमेजय उवाच॥
सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम। कुमारस्याभिषेकं तु ब्रह्मन्व्याख्यातुमर्हसि ॥९-४३-१॥
यस्मिन्काले च देशे च यथा च वदतां वर। यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः ॥९-४३-२॥
स्कन्दो यथा च दैत्यानामकरोत्कदनं महत्। तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे ॥९-४३-३॥
वैशम्पायन उवाच॥
कुरुवंशस्य सदृशमिदं कौतूहलं तव। हर्षमुत्पादयत्येतद्वचो मे जनमेजय ॥९-४३-४॥
हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप। अभिषेकं कुमारस्य प्रभावं च महात्मनः ॥९-४३-५॥
तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा। तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयम् ॥९-४३-६॥
तेनासीदति तेजस्वी दीप्तिमान्हव्यवाहनः। न चैव धारयामास गर्भं तेजोमयं तदा ॥९-४३-७॥
स गङ्गामभिसङ्गम्य नियोगाद्ब्रह्मणः प्रभुः। गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् ॥९-४३-८॥
अथ गङ्गापि तं गर्भमसहन्ती विधारणे। उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते ॥९-४३-९॥
स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः। ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः ॥९-४३-१०॥
शरस्तम्बे महात्मानमनलात्मजमीश्वरम्। ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचक्रमुः ॥९-४३-११॥
तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः। प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा ॥९-४३-१२॥
तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः। परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः ॥९-४३-१३॥
यत्रोत्सृष्टः स भगवान्गङ्गया गिरिमूर्धनि। स शैलः काञ्चनः सर्वः सम्बभौ कुरुसत्तम ॥९-४३-१४॥
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता। अतश्च सर्वे संवृत्ता गिरयः काञ्चनाकराः ॥९-४३-१५॥
कुमारश्च महावीर्यः कार्त्तिकेय इति स्मृतः। गाङ्गेयः पूर्वमभवन्महायोगबलान्वितः ॥९-४३-१६॥
स देवस्तपसा चैव वीर्येण च समन्वितः। ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः ॥९-४३-१७॥
स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः। स्तूयमानस्तदा शेते गन्धर्वैर्मुनिभिस्तथा ॥९-४३-१८॥
तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः। दिव्यवादित्रनृत्तज्ञाः स्तुवन्त्यश्चारुदर्शनाः ॥९-४३-१९॥
अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा। दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम् ॥९-४३-२०॥
जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः। वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः ॥९-४३-२१॥
धनुर्वेदश्चतुष्पादः शस्त्रग्रामः ससङ्ग्रहः। तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला ॥९-४३-२२॥
स ददर्श महावीर्यं देवदेवमुमापतिम्। शैलपुत्र्या सहासीनं भूतसङ्घशतैर्वृतम् ॥९-४३-२३॥
निकाया भूतसङ्घानां परमाद्भुतदर्शनाः। विकृता विकृताकारा विकृताभरणध्वजाः ॥९-४३-२४॥
व्याघ्रसिंहर्क्षवदना बिडालमकराननाः। वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा ॥९-४३-२५॥
उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः। क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि ॥९-४३-२६॥
श्वाविच्छल्यकगोधानां खरैडकगवां तथा। सदृशानि वपूंष्यन्ये तत्र तत्र व्यधारयन् ॥९-४३-२७॥
केचिच्छैलाम्बुदप्रख्याश्चक्रालातगदायुधाः। केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः ॥९-४३-२८॥
सप्तमातृगणाश्चैव समाजग्मुर्विशां पते। साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा ॥९-४३-२९॥
रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः। ब्रह्मा स्वयम्भूर्भगवान्सपुत्रः सह विष्णुना ॥९-४३-३०॥
शक्रस्तथाभ्ययाद्द्रष्टुं कुमारवरमच्युतम्। नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः ॥९-४३-३१॥
देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः। ऋभवो नाम वरदा देवानामपि देवताः ॥ तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः ॥९-४३-३२॥
स तु बालोऽपि भगवान्महायोगबलान्वितः। अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् ॥९-४३-३३॥
तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम्। युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च ॥९-४३-३४॥
किं नु पूर्वमयं बालो गौरवादभ्युपैष्यति। अपि मामिति सर्वेषां तेषामासीन्मनोगतम् ॥९-४३-३५॥
तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः। युगपद्योगमास्थाय ससर्ज विविधास्तनूः ॥९-४३-३६॥
ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः। स्कन्दः शाखो विशाखश्च नैगमेषश्च पृष्ठतः ॥९-४३-३७॥
एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः। यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः ॥९-४३-३८॥
विशाखस्तु ययौ येन देवी गिरिवरात्मजा। शाखो ययौ च भगवान्वायुमूर्तिर्विभावसुम् ॥ नैगमेषोऽगमद्गङ्गां कुमारः पावकप्रभः ॥९-४३-३९॥
सर्वे भास्वरदेहास्ते चत्वारः समरूपिणः। तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् ॥९-४३-४०॥
हाहाकारो महानासीद्देवदानवरक्षसाम्। तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् ॥९-४३-४१॥
ततो रुद्रश्च देवी च पावकश्च पितामहम्। गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् ॥९-४३-४२॥
प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव। इदमूचुर्वचो राजन्कार्त्तिकेयप्रियेप्सया ॥९-४३-४३॥
अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम्। अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि ॥९-४३-४४॥
ततः स भगवान्धीमान्सर्वलोकपितामहः। मनसा चिन्तयामास किमयं लभतामिति ॥९-४३-४५॥
ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम्। भूतयक्षविहङ्गानां पन्नगानां च सर्वशः ॥९-४३-४६॥
पूर्वमेवादिदेशासौ निकायेषु महात्मनाम्। समर्थं च तमैश्वर्ये महामतिरमन्यत ॥९-४३-४७॥
ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः। सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत ॥९-४३-४८॥
सर्वदेवनिकायानां ये राजानः परिश्रुताः। तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः ॥९-४३-४९॥
ततः कुमारमादाय देवा ब्रह्मपुरोगमाः। अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः ॥९-४३-५०॥
पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम्। समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता ॥९-४३-५१॥
तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते। निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः ॥९-४३-५२॥