09.044
Library: Consecration of Kumāra. Various gods gift Skanda with various weapons. Description of the army assembled around Skanda.
वैशम्पायन उवाच॥
ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः। बृहस्पतिः समिद्धेऽग्नौ जुहावाज्यं यथाविधि ॥९-४४-१॥
ततो हिमवता दत्ते मणिप्रवरशोभिते। दिव्यरत्नाचिते दिव्ये निषण्णः परमासने ॥९-४४-२॥
सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम्। आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥९-४४-३॥
इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा। धाता चैव विधाता च तथा चैवानिलानलौ ॥९-४४-४॥
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता। रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च ॥९-४४-५॥
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः। विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥९-४४-६॥
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः। देवर्षिभिरसङ्ख्येयैस्तथा ब्रह्मर्षिभिर्वरैः ॥९-४४-७॥
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः। भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः ॥ सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः ॥९-४४-८॥
पितामहः पुलस्त्यश्च पुलहश्च महातपाः। अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च ॥९-४४-९॥
क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च। ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशां पते ॥९-४४-१०॥
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः। समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च ॥ पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप ॥९-४४-११॥
अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती। उमा शची सिनीवाली तथा चानुमतिः कुहूः ॥ राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् ॥९-४४-१२॥
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान्। ऐरावतः सानुचरः कलाः काष्ठास्तथैव च ॥ मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप ॥९-४४-१३॥
उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः। अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ॥९-४४-१४॥
धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः। कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥९-४४-१५॥
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः। ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः ॥९-४४-१६॥
जगृहुस्ते तदा राजन्सर्व एव दिवौकसः। आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः ॥९-४४-१७॥
दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप। सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु ॥९-४४-१८॥
अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः। सेनापतिं महात्मानमसुराणां भयावहम् ॥९-४४-१९॥
पुरा यथा महाराज वरुणं वै जलेश्वरम्। तथाभ्यषिञ्चद्भगवान्ब्रह्मा लोकपितामहः ॥ कश्यपश्च महातेजा ये चान्ये नानुकीर्तिताः ॥९-४४-२०॥
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः। कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः ॥९-४४-२१॥
नन्दिषेणं लोहिताक्षं घण्टाकर्णं च संमतम्। चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् ॥९-४४-२२॥
ततः स्थाणुं महावेगं महापारिषदं क्रतुम्। मायाशतधरं कामं कामवीर्यबलान्वितम् ॥ ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् ॥९-४४-२३॥
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्। जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश ॥९-४४-२४॥
तथा देवा ददुस्तस्मै सेनां नैरृतसङ्कुलाम्। देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् ॥९-४४-२५॥
जयशब्दं ततश्चक्रुर्देवाः सर्वे सवासवाः। गन्धर्वयक्षरक्षांसि मुनयः पितरस्तथा ॥९-४४-२६॥
यमः प्रादादनुचरौ यमकालोपमावुभौ। उन्माथं च प्रमाथं च महावीर्यौ महाद्युती ॥९-४४-२७॥
सुभ्राजो भास्करश्चैव यौ तौ सूर्यानुयायिनौ। तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् ॥९-४४-२८॥
कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ। सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च ॥९-४४-२९॥
ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः। ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ ॥९-४४-३०॥
परिघं च वटं चैव भीमं च सुमहाबलम्। दहतिं दहनं चैव प्रचण्डौ वीर्यसंमतौ ॥ अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते ॥९-४४-३१॥
उत्क्रोशं पङ्कजं चैव वज्रदण्डधरावुभौ। ददावनलपुत्राय वासवः परवीरहा ॥ तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून् ॥९-४४-३२॥
चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम्। स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः ॥९-४४-३३॥
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ। स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ ॥९-४४-३४॥
कुन्दनं कुसुमं चैव कुमुदं च महायशाः। डम्बराडम्बरौ चैव ददौ धाता महात्मने ॥९-४४-३५॥
वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ। ददौ त्वष्टा महामायौ स्कन्दायानुचरौ वरौ ॥९-४४-३६॥
सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने। कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः ॥९-४४-३७॥
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ। सुप्रभं च महात्मानं शुभकर्माणमेव च ॥ कार्त्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ ॥९-४४-३८॥
पालितकं कालिकं च महामायाविनावुभौ। पूषा च पार्षदौ प्रादात्कार्त्तिकेयाय भारत ॥९-४४-३९॥
बलं चातिबलं चैव महावक्त्रौ महाबलौ। प्रददौ कार्त्तिकेयाय वायुर्भरतसत्तम ॥९-४४-४०॥
घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ। प्रददौ कार्त्तिकेयाय वरुणः सत्यसङ्गरः ॥९-४४-४१॥
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम्। हिमवान्प्रददौ राजन्हुताशनसुताय वै ॥९-४४-४२॥
काञ्चनं च महात्मानं मेघमालिनमेव च। ददावनुचरौ मेरुरग्निपुत्राय भारत ॥९-४४-४३॥
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ। महात्मनेऽग्निपुत्राय महाबलपराक्रमौ ॥९-४४-४४॥
उच्छ्रितं चातिशृङ्गं च महापाषाणयोधिनौ। प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ ॥९-४४-४५॥
सङ्ग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ। प्रददावग्निपुत्राय महापारिषदावुभौ ॥९-४४-४६॥
उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च। प्रददावग्निपुत्राय पार्वती शुभदर्शना ॥९-४४-४७॥
जयं महाजयं चैव नागौ ज्वलनसूनवे। प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः ॥९-४४-४८॥
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा। सागराः सरितश्चैव गिरयश्च महाबलाः ॥९-४४-४९॥
ददुः सेनागणाध्यक्षाञ्शूलपट्टिशधारिणः। दिव्यप्रहरणोपेतान्नानावेषविभूषितान् ॥९-४४-५०॥
शृणु नामानि चान्येषां येऽन्ये स्कन्दस्य सैनिकाः। विविधायुधसम्पन्नाश्चित्राभरणवर्मिणः ॥९-४४-५१॥
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च। अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ ॥९-४४-५२॥
द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः। अक्षसन्तर्जनो राजन्कुनदीकस्तमोभ्रकृत् ॥९-४४-५३॥
एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः। सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः ॥९-४४-५४॥
पुण्यनामा सुनामा च सुवक्त्रः प्रियदर्शनः। परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः ॥९-४४-५५॥
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः। ज्वालाजिह्वः करालश्च सितकेशो जटी हरिः ॥९-४४-५६॥
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः। विद्युदक्षो धनुर्वक्त्रो जठरो मारुताशनः ॥९-४४-५७॥
उदराक्षो झषाक्षश्च वज्रनाभो वसुप्रभः। समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च ॥९-४४-५८॥
पुत्रमेषः प्रवाहश्च तथा नन्दोपनन्दकौ। धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा ॥९-४४-५९॥
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान्। आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ॥९-४४-६०॥
क्षेमवापः सुजातश्च सिद्धयात्रश्च भारत। गोव्रजः कनकापीडो महापारिषदेश्वरः ॥९-४४-६१॥
गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान्। वैताली चातिताली च तथा कतिकवातिकौ ॥९-४४-६२॥
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह। रणोत्कटः प्रहासश्च श्वेतशीर्षश्च नन्दकः ॥९-४४-६३॥
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोऽपरः। कालकाक्षः सितश्चैव भूतलोन्मथनस्तथा ॥९-४४-६४॥
यज्ञवाहः प्रवाहश्च देवयाजी च सोमपः। सजालश्च महातेजाः क्रथक्राथौ च भारत ॥९-४४-६५॥
तुहनश्च तुहानश्च चित्रदेवश्च वीर्यवान्। मधुरः सुप्रसादश्च किरीटी च महाबलः ॥९-४४-६६॥
वसनो मधुवर्णश्च कलशोदर एव च। धमन्तो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् ॥९-४४-६७॥
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः। दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ॥९-४४-६८॥
अचलः कनकाक्षश्च बालानामयिकः प्रभुः। सञ्चारकः कोकनदो गृध्रवक्त्रश्च जम्बुकः ॥९-४४-६९॥
लोहाशवक्त्रो जठरः कुम्भवक्त्रश्च कुण्डकः। मद्गुग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभाः ॥९-४४-७०॥
पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश्च शिक्षकः। चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुण्डकः ॥९-४४-७१॥
योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः। पैतामहा महात्मानो महापारिषदाश्च ह ॥ यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय ॥९-४४-७२॥
सहस्रशः पारिषदाः कुमारमुपतस्थिरे। वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्जनमेजय ॥९-४४-७३॥
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा। खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ॥९-४४-७४॥
मनुष्यमेषवक्त्राश्च सृगालवदनास्तथा। भीमा मकरवक्त्राश्च शिंशुमारमुखास्तथा ॥९-४४-७५॥
मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत। नकुलोलूकवक्त्राश्च श्ववक्त्राश्च तथापरे ॥९-४४-७६॥
आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा। मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः ॥९-४४-७७॥
ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा। भीमा गजाननाश्चैव तथा नक्रमुखाः परे ॥९-४४-७८॥
गरुडाननाः खड्गमुखा वृककाकमुखास्तथा। गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा ॥९-४४-७९॥
महाजठरपादाङ्गास्तारकाक्षाश्च भारत। पारावतमुखाश्चान्ये तथा वृषमुखाः परे ॥९-४४-८०॥
कोकिलावदनाश्चान्ये श्येनतित्तिरिकाननाः। कृकलासमुखाश्चैव विरजोम्बरधारिणः ॥९-४४-८१॥
व्यालयवक्त्राः शूलमुखाश्चण्डवक्त्राः शताननाः। आशीविषाश्चीरधरा गोनासावरणास्तथा ॥९-४४-८२॥
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः। ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः ॥९-४४-८३॥
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः। स्कन्धेमुखा महाराज तथा ह्युदरतोमुखाः ॥९-४४-८४॥
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि। पार्श्वाननाश्च बहवो नानादेशमुखास्तथा ॥९-४४-८५॥
तथा कीटपतङ्गानां सदृशास्या गणेश्वराः। नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः ॥९-४४-८६॥
नानावृक्षभुजाः केचित्कटिशीर्षास्तथापरे। भुजङ्गभोगवदना नानागुल्मनिवासिनः ॥९-४४-८७॥
चीरसंवृतगात्राश्च तथा फलकवाससः। नानावेषधराश्चैव चर्मवासस एव च ॥९-४४-८८॥
उष्णीषिणो मुकुटिनः कम्बुग्रीवाः सुवर्चसः। किरीटिनः पञ्चशिखास्तथा कठिनमूर्धजाः ॥९-४४-८९॥
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे। शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा ॥९-४४-९०॥
चित्रमाल्यधराः केचित्केचिद्रोमाननास्तथा। दिव्यमाल्याम्बरधराः सततं प्रियविग्रहाः ॥९-४४-९१॥
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठा निरूदराः। स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः ॥९-४४-९२॥
महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः। कुब्जाश्च दीर्घजङ्घाश्च हस्तिकर्णशिरोधराः ॥९-४४-९३॥
हस्तिनासाः कूर्मनासा वृकनासास्तथापरे। दीर्घोष्ठा दीर्घजिह्वाश्च विकराला ह्यधोमुखाः ॥९-४४-९४॥
महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथापरे। वारणेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः ॥९-४४-९५॥
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः। पिङ्गाक्षाः शङ्कुकर्णाश्च वक्रनासाश्च भारत ॥९-४४-९६॥
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः। नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः ॥ नानावर्मभिराच्छन्ना नानाभाषाश्च भारत ॥९-४४-९७॥
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः। हृष्टाः परिपतन्ति स्म महापारिषदास्तथा ॥९-४४-९८॥
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः। पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत ॥९-४४-९९॥
वृकोदरनिभाश्चैव केचिदञ्जनसंनिभाः। श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश्च तथापरे ॥ कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत ॥९-४४-१००॥
चामरापीडकनिभाः श्वेतलोहितराजयः। नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः ॥९-४४-१०१॥
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु। शेषैः कृतं पारिषदैरायुधानां परिग्रहम् ॥९-४४-१०२॥
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः। पृथ्वक्षा नीलकण्ठाश्च तथा परिघबाहवः ॥९-४४-१०३॥
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः। शूलासिहस्ताश्च तथा महाकाया महाबलाः ॥९-४४-१०४॥
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः। असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत ॥९-४४-१०५॥
आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः। महाबला महावेगा महापारिषदास्तथा ॥९-४४-१०६॥
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः। घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः ॥९-४४-१०७॥
एते चान्ये च बहवो महापारिषदा नृप। उपतस्थुर्महात्मानं कार्त्तिकेयं यशस्विनम् ॥९-४४-१०८॥
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः। व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन् ॥९-४४-१०९॥
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च। अभिषिक्तं महात्मानं परिवार्योपतस्थिरे ॥९-४४-११०॥